अध्यायः 019

सात्यकिप्रमुखानां राज्ञां स्वस्वसेनाऽऽनयनपूर्वकं युधिष्ठिरं प्रत्यागमनम् ॥ 1 ॥ भगदत्तादीनां राज्ञां दुर्योधनसाहाय्यकरणाय आगमनम् ॥ 2 ॥

वैशंपायन उवाच ।
युयुधानस्ततो वीरः सात्वतानां महारथः ।
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥
तस्य योधा महावीर्या नानादेशसमागताः ।
नानाप्रहरणा वीराः शोभयांचक्रिरे बलम् ॥
परश्वथैर्भिण्डिपालैः शूलतोमरमुद्गरैः ।
परिघैर्यष्टिभिः पाशैः करवालैश्च निर्मलैः ॥
खङ्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि ।
तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥
तस्य मेघप्रकाशस्य सौवर्णौः शोभितस्य च ।
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥
अक्षौहिणी तु सा सेना तदा यौधिष्ठिरं बलम् ।
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली ।
धृष्टकेतुरुपागच्चत्पाण्डवानमितौजसः ॥
मागधश्च जयत्सेनो जारासन्धिर्महाबलः ।
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः ।
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे ।
प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥
` केकयाश्च नरव्याघ्राः सोदराः पञ्च पार्थिवाः । संहर्षयन्तः कौन्तेयोनक्षौहिण्या समागताः ॥'
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः ।
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः ।
पार्वतीयैर्महीपालैः सहितः पाण्डवानयात् ॥
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् ।
अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ॥
युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ।
तथैव धार्तराष्ट्रस्य हर्षं समभिर्धयन् ॥
भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ।
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् ॥
बभौ बलमनाधृष्यं कर्णिकारवनं यथा ।
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन ॥
दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ।
कृतवर्मा च हार्दिक्यो भोजान्धकुकुरैः सह ॥
अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ।
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् ॥
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ।
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः ॥
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ।
तेषामक्षौहिणी सेना बहुला विबभौ तदा ॥
विधूयमानो वातेन बहुरूप इवाम्बुदः ।
सुदक्षिणश्च काम्भोजो यवनैश्च शकैस्तथा ॥
उपाजगाम कौरव्यमक्षौहिण्या विशांपते ।
तस्य सेनासमावायः शलभानामिवाबभौ ॥
स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ।
तथा महिष्मतीवासी नीलो नीलायुधैः सह ॥
महीपालो महावीर्यैर्दक्षिणापथवासिभिः ।
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ ॥
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ।
ततस्ततस्तु सर्वेषां भूमिपानां महात्मनाम् ॥
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ।
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः ॥
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ।
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा ॥
राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत ।
ततः प़ञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् ॥
तथा रोहितकारण्यं मरुभूमिश्च केवला ।
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत ॥
वारणं वाटधानं च यामुनश्चैव पर्वतः ।
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् ॥
बभूव कौरवेयाणां बलेनातीव संवृतः ।
तत्र सैन्यं तथा युक्तं ददर्श स पुरोहितः ॥
यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि एकोनविंशोऽध्यायः ॥

5-19-1 युयुधानः सात्यकिः ॥ 5-19-19 वनमाला आपादलम्बिनी माला 5-19-23 समावायः समूहः ॥ 5-19-30 अहिच्छत्रादयः प्रदेशविशेषाः ॥