अध्यायः 022
					 धृतराष्ट्रेण यथाक्रमं दुर्योधनपाण्डवनिन्दाप्रशंसनपूर्वकं
						पाण्डवान्प्रति सञ्जयप्रेषणम् ॥ 1 ॥ 
					
					
						प्राप्तानाहुः सञ्जय पाण्डुपुत्रा-
							नुपप्लव्ये तान्विजानीहि गत्वा ।
						
						अजातशत्रुं च सभाजयेथा
							दिष्ट्या वनाद्ग्राममुपस्थितस्त्वम् ॥
						
					 
					
						सर्वान्वदेः सञ्जय स्वस्तिमन्तः
							कृच्छ्रं वासमतदर्हा निरुष्य ।
						
						तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं
							मिथ्यापेतानामुपकारिणां सताम् ॥
						
					 
					
						नाहं क्वचित्सञ्जय पाण्डवानां
							मिथ्यावृत्तिं कांचन जात्वपश्यम् ।
						
						सर्वां श्रियं ह्यात्मवीर्येण लब्धां
							पर्याकार्षुः पाण्डवा मह्यमेव ॥
						
					 
					
						दोषं ह्येषां नाध्यगच्छं परीच्छ-
							न्सूक्ष्मं कंचिद्येन गर्हेय पार्थान् ।
						
						धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं
							सुखप्रिये नानुरुध्यन्ति कामात् ॥
						
					 
					
						धर्मं शीतं क्षुत्पिपासे तथैव
							निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम् ।
						
						धृत्या चैव प्रज्ञया चाभिभूय
							धर्मार्थयोगान्प्रयतन्ति पार्थाः ॥
						
					 
					
						त्यजन्ति मित्रेषु धनानि काले
							न संवासाञ्जीर्यति तेषु मैत्री ।
						
						यथार्हमानार्थकरा हि पार्था-
							स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे ।
							अन्यत्र पापाद्विपमान्मन्दबुद्धे-
							र्दुर्योधनात्क्षुद्रतराच्च कर्णात् ॥
						
					 
					
						` पुत्रो मह्यं मृत्युवशं जगाम
							दुर्योधनः सञ्जय रागबुद्धिः ।'
						
						तेषां हीमौ हीनसुखप्रियाणां
							महात्मनां संजनयतो हि तेजः ॥
						
					 
					
						उत्थानवीर्यः सुखमेधमानो
							दुर्योधः सुकृतं मन्यते तत् ।
						
						तेषां भागं यच्च मन्येत बालः
							शक्यं हर्तुं जीवतां पाण्डवानाम् ॥
						
					 
					
						यस्यार्जुनः पदवीं केशवश्च
							वृकोदरः सात्यकोऽजातशत्रोः ।
						
						माद्रीपुत्रौ सृञ्जयाश्चापि यान्ति
							पुरा युद्धात्साधु तस्य प्रदानम् ॥
						
					 
					
						सह्येवैकः पृथिवीं सव्यसाची
							गाण्डीवधन्वा प्रणुदेद्रथस्थः ।
						
						तथा जिष्णुः केशवोऽप्यप्रधृष्यो
							लोकत्रयस्याधिपतिर्महात्मा ॥
						
					 
					
						तिष्ठेत कस्तस्य मर्त्यः पुरस्ता-
							द्यः सर्वलोकेषु वरेण्य एकः ।
						
						पर्जन्यघोषान्प्रवपञ्शरौघा-
							न्पतङ्गसङ्घानिव शीघ्रवेगान् ॥
						
					 
					
						दिशं ह्युदीचीमपि चोत्तरान्कुरून्
							गाण्डीवधन्वैकरथो जिगाय ।
						
						धनं चैपामाहरत्सव्यसाची
							सेनानुगान्द्रविडांश्चैव चक्रे ॥
						
					 
					
						यश्चैव देवान्खाण्डवे सव्यसाची
							गाण्डीवधन्वा प्रजिगाय सेन्द्रान् ।
						
						उपाहरत्पाण्डवो जातवेदसे
							यशो मानं वर्धयन्पाण्डवानाम् ॥
						
					 
					
						गदाभृतां नास्ति समोऽत्र भीमा-
							द्धस्त्यारोहो नास्ति समश्च तस्य ।
						
						रथेऽर्जुनादाहुरहीनमेनं
							बाह्वोर्वलेनायुतनागवीर्यम् ॥
						
					 
					
						सुशिक्षितः कृतवैरस्तरस्वी
							दहेत्क्षुद्रांस्तरसा धार्तराष्ट्रान् ।
						
						सदाऽत्यमर्षी न वलात्स शक्यो
							युद्धे जेतुं वासवेनापि साक्षात् ॥
						
					 
					
						सुतेजसौ वलिनौ शीघ्रहस्तौ
							सुशिक्षितौ भ्रातरौ फाल्गुनेन ।
						
						श्येनौ यथा पक्षिपूगान्रुजन्तौ
							माद्रीपुत्रौ शेपयेतां न शत्रून् ॥
						
					 
					
						एतद्बलं पूर्णमस्माकमेवं
							यत्सत्यं तान्प्राप्य नास्तीति मन्ये ।
						
						तेषां मध्ये वर्तमानस्तरस्वी
							धृष्टद्युम्नः पाण्डवानामिहैकः ॥
						
					 
					
						सहामात्यः सोमकानां प्रबर्हः
							सन्त्यक्तात्मा पाण्डवार्थे श्रुतो मे ।
						
						अजातशत्रुं प्रसहेत कोऽन्यो
							येषां स स्यादग्रणीर्वृष्णिसिंह ॥
						
					 
					
						सहोषितश्चरितार्थो वयस्थो
							मात्स्येयानामधिपो वै विराटः ।
						
						स वै सपुत्रः पाण्डवार्थे च शश्व-
							द्युधिष्ठिरे भक्त इति श्रुतं मे ॥
						
					 
					
						अवरुद्धा रथिनः केकयेभ्यो
							महेष्वासा भ्रातरः पञ्च सन्ति ।
						
						केकयेभ्यो राज्यमाकाङ्क्षमाणा
							युद्धार्थिनश्रानुवसन्ति पार्थान् ॥
						
					 
					
						सर्वांश्च वीरान्पृथिवीपतीनां
							समागतान्पाण्डवार्थे निविष्टान् ।
						
						शूरानहं भक्तिमतः शृणोमि
							प्रीत्या युक्तान्संश्रितान्धर्मराजन् ॥
						
					 
					
						गिर्याश्रया दुर्गनिवासिनश्च
							योधाः पृथिव्यां कुलजातिशुद्धाः ।
						
						म्लेच्छाश्च नानायुधवीर्यवन्तः
							समागताः पाण्डवार्थे निविष्टाः ॥
						
					 
					
						पाण्ड्यश्च राजा समितीन्द्रकल्पो
							योधप्रवीरैर्बहुभिः समेतः ।
						
						समागतः पाण्डवार्थे महात्मा
							लोकप्रवीरोऽप्रतिवीर्यतेजाः ॥
						
					 
					
						अस्त्रं द्रोणादर्जुनाद्वासुदेवा-
							त्कृपाद्भीष्माद्येन कृतं शृणोमि ।
						
						यं तं कार्ष्णिप्रतिममाहुरेकं
							स सात्यकिः पाण्डवार्थे निविष्टः ॥
						
					 
					
						उपाश्रिताश्चेदिकरूशकाश्च
							सर्वोद्योगैर्भूमिपालाः समेताः ।
						
						तेषां मध्ये सूर्यमिवातपन्तं
							श्रिया वृतं चेदिपतिं ज्वलन्तम् ॥
						
					 
					
						अस्तम्भनीयं युधि मन्यमान्यो
							ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम् ।
						
						सर्वोत्साहं क्षत्रियाणां निहत्य
							प्रसह्य कृष्णस्तरसा संममर्द ॥
						
					 
					
						यशोमानौ वर्धयन्पाण्डवानां
							पुराऽभिनच्छिशुपालं समीक्ष्य ।
						
						यस्य सर्वे वर्धयन्ति स्म मानं
							करूशराजप्रमुखा नरेन्द्राः ॥
						
					 
					
						तमसह्यं केशवं तत्र मत्वा
							सुग्रीवयुक्तेन रथेन कृष्णम् ।
						
						संप्राद्रवंश्चेदिपतिं विहाय
							सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये ॥
						
					 
					
						यस्तं प्रतीपस्तरसा प्रत्युदीया-
							दाशंसमानो द्वैरथे वासुदेवम् ।
						
						सोऽशेत कृष्णेन हतः परासु-
							र्वातेनेवोन्मथितः कर्णिकारः ॥
						
					 
					
						पराक्रमं मे यदवेदयन्त
							तेषामर्थे सञ्जय केशवस्य ।
						
						अनुस्मरंस्तस्य कर्माणि विष्णो-
							र्गावल्गणे नाधिगच्छामि शान्तिम् ॥
						
					 
					
						न जातु ताञ्छत्रुरन्यः सहेत
							येषां स स्यादग्रणीर्वृष्णिसिंहः ।
						
						प्रवेपते मे हृदयं भयेन
							श्रुत्वा कृष्णावेकरथे समेतौ ॥
						
					 
					
						न चेद्गच्छेत्सङ्गरं मन्दबुद्धि-
							स्ताभ्यां लभेच्छर्म तदा सुतो मे ।
						
						नो चेत्कुरून्सञ्जय निर्दहेता-
							मिन्द्राविष्णू दैत्यसेनां यथैव ॥
						
					 
					
						मते हि मे शक्रसमो धनञ्जयः
							सनातनो वृष्णिवीरश्च विष्णुः ।
						
						धर्मारामो ह्रीनिषेवस्तरस्वी
							कुन्तीपुत्रः पाण्डवोऽजातशत्रुः ॥
						
					 
					
						दुर्योधनेन निकृतो मनस्वी
							नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् ।
						
						नाहं तथा ह्यर्जुनाद्वासुदेवा-
							द्भीमाद्वाऽहं यमयोर्वा बिभेमि ॥
						
					 
					
						यथा राज्ञः क्रोधदीप्तस्य सूत
							मन्योरहं भीततरः सदैव ।
						
						महातपा ब्रह्मचर्येण युक्तः
							सङ्कल्पोऽयं मानसस्तस्य सिद्ध्येत् ॥
						
					 
					
						तस्य क्रोधं सञ्जयाहं समीक्ष्य
							स्थाने जानन्भृशमस्म्यद्य भीतः ।
						
						स गच्छ शीघ्रं प्रहितो रथेन
							पाञ्चालराजस्य चमूनिवेशनम् ॥
						
					 
					
						अजातशत्रुं कुशलं स्म पृच्छेः
							पुनः पुनः प्रीतियुक्तं वदेस्त्वम् ।
						
						जनार्दनं चापि समेत्य तात
							महामात्रं वीर्यवतामुदारम् ॥
						
					 
					
						अनामयं मद्वचनेन पृच्छे-
							र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः ।
						
						न तस्य किंचिद्वचनं न कुर्यात्
							कुन्तीपुत्रो वासुदेवस्य सूत ॥
						
					 
					
						प्रियश्चैषामात्मसमश्च कृष्णो
							विद्वांश्चैषां कर्मणि नित्ययुक्तः ।
						
						समानीतान्पाण्डवान्सृञ्जयांश्च
							जनार्दनं युयुधानं विराटम् ॥
						
					 
					
						अनामयं मद्वचनेन पृच्छेः
							सर्वांस्तथा द्रौपदेयांश्च पञ्च ।
						
						यद्यत्तत्र प्राप्तकलं परेभ्य-
							स्त्वं मन्येथा भारतानां हितं च
							तद्भाषेथाः सञ्जय राजमध्ये
						
						न मूर्च्छयेद्यन्न च युद्धहेतुः ॥ ॥
					 
					 इति श्रीमन्महाभारते उद्योगपर्वणि स़ञ्जययानपर्वणि द्वाविंशोऽध्यायः ॥ 
					 5-22-2 स्वस्तिमन्तो वयमिति सर्वान्वदेः । कृच्छ्रं
						निरुष्यापि तेषां शान्तिरक्रोधोऽस्मासु विद्यते । मिथ्यापेतानां निष्कपटानाम् ॥ 2 ॥ 5-22-3 मह्यं पर्याकार्षुः मदर्थं परित आनीतवन्तः ॥ 5-22-4
						धर्मार्थाभ्यां धर्मार्थं अर्थार्थं 5-22-7 तेजः क्रोधम् ॥ 5-22-9 तस्य तस्मै ।
						प्रदानं भागप्रदानम् ॥ 5-22-10 जिष्णुर्जयशीलः ॥ 5-22-13 जातवेदसे उपाहृरत्
						खाण्डवमिति विपरिणामेनानुषङ्गः ॥ 5-22-20 अवरुद्धाः बहिर्निः सारिताः ॥ 5-22-24 कार्ष्णिः प्रद्युम्नस्तत्तुल्यम् ॥ 5-22-25 चेदिपतिं शिशुपालम् ।
						कृष्णो ममर्देत्युत्तरेणान्वयः ॥ 5-22-29 आशं समानो जयमिति शेषः ॥ 5-22-30
						यत् यतः । अवेदयन्त ज्ञापितवन्तः । चारा इति शेषः ॥ 5-22-31 कृष्णौ
						वासुदेवार्जुनौ ॥ 5-22-34 निकृतो वञ्चितः । मनस्वी जितमनाः ॥ 5-22-36 स्थाने
						जानन् युक्तं पश्यन् ॥ 5-22-37 महामात्रं महाभागम् ॥ 5-22-38
						शान्तिमीप्सुरस्तीति वदेत्यध्याहारः ॥ 5-22-40 मूर्च्छयेत् वर्धयेत् ।
						क्रोधमिति शेषः ॥