अध्यायः 026

युधिष्ठिरेण स्वपरयोः शुभाशुभाभिसन्धिकथनपूर्वकं स्वस्याजय्यत्वमभिधाय इन्द्रप्रस्थे राज्यदाने शान्तिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
कां नु वाचं सञ्जय मे शृणोषि । युद्धैषिणीं येन युद्धाद्बिभेषि ।
अयुद्धं वै तात युद्धाद्गरीयः कस्तल्लब्ध्वा जातु युद्ध्येत सूत ॥
अकुर्वतश्चेत्पुरुषस्य सञ्जय सिद्ध्येत्सङ्कल्पो मनसा यं यमिच्छेत् ।
न कर्म कुर्याद्विदितं ममैत- दन्यत्र युद्धाद्बहु यल्लघीयः ॥
कुतो युद्धं जातु नरोऽवगच्छे- त्को देवशप्तो हि वृणीत युद्धम् ।
सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम् ॥
धर्मोदयं सुखमाशंसमानाः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम् ।
सुखं प्रेप्सुर्विजिघांसुश्च दुःखं कर्मारभेद्यच्च धर्मानपेतम् ॥
क इन्द्रियाणां प्रीतिवशानुरानां कर्माभिज्ञः स्वशरीरं दुनोति ।
यया प्रमुक्तो न करोति दुःखं तृष्णां त्यजेत्सर्वधर्मादपेताम् ॥
यथेध्यमानस्य समिद्धतेजसो भूयो बलं वर्धते पावकस्य ।
कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः । संपश्येमं भोगचयं महान्तं सहास्माभिर्धृतराष्ट्रस्य राज्ञः ॥
नाश्रेयानीश्वरो विग्रहाणां नाश्रेयान्वै गीतशब्दं श्रृणोति ।
नाश्रेयान्वै सेवते माल्यगन्धा- न्न चाप्यश्रेयाननुलेपनानि ॥ नाश्रेयान्वै प्रावारान्संविवस्ते कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः ॥
अत्रैव स्यादवुधस्यैव कामः ।
प्रायः शरीरे हृदयं दुनोति ॥
स्वयं राजा विषमस्थः परेषु सामर्थ्यमन्विच्छति तन्न साधु ।
यथाऽऽत्मनः पश्यति वृत्तमेव तथा परेतामपि सोऽभ्युपैति ॥
आसन्नमग्निं तु निदाघकाले गम्भीरकक्षे गहने विसृज्य ।
यथा विवृद्धं वायुवशेन शोचे- त्क्षेमं मुमुक्षुः शिशिरव्यपाये ॥
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा लालप्यते सञ्जय कस्य हेतोः ।
प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु ॥
अनाप्तवच्चाप्ततमस्य वाचः सुयोधनो विदुरस्यावमत्य ।
सुतस्य राजा धृतराष्ट्रः प्रियैषी संबुध्यमानो विशतेऽधर्ममेव ॥
मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम् ।
स तं राजा धृतराष्ट्रः कुरुभ्यो न सस्मार विदुरं पुत्रकाम्यात् ॥
मानघ्नस्यासौ मानकामस्य चेर्षोः संरम्भिणश्चार्थधर्मातिगस्य ।
दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दौर्हृदैर्भावितस्य ॥
अनेयस्याश्रेयसो दीर्घमन्यो- र्मित्रद्रुहः सञ्जय पापबुद्धेः ।
सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्राजहाद्धर्मकामौ ॥
तदैव मे सञ्जय दीव्यतोऽभू- न्मतिः कुरूणामागतः स्यादभावः ।
काव्यां वाचं विदुरो भाषमाणो न विन्दते यद्धार्तराष्ट्रात्प्रशंसाम् ॥
क्षत्तुर्यदा नान्ववर्तन्त बुद्धिं कृच्छ्रं कुरून्सूत तदाऽभ्याजगाम ।
यावत्प्रज्ञामन्ववर्तन्त तस्य तावत्तेषां राष्ट्रवृद्धिर्बभूव ॥
तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत ।
दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य संमोहमस्य ॥
सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् ।
आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ ॥
आशंसते वै धृतराष्ट्रः सपुत्रो महाराज्यमसपत्नं पृथिव्याम् ।
तस्मिञ्शमः केवलं नोपलभ्यः सर्वं स्वकं मद्गते मन्यतेऽर्थम् ॥
यत्तत्कर्णो मन्यते पारणीयं युद्धे गृहीतायुधमर्जुनं वै ।
आसंश्च युद्धानि पुरा महान्ति कथं कर्णो नाभवद्द्वीप एषाम् ॥
कर्णश्च जानाति सुयोधनश्च द्रोणश्च जानाति पितामहश्च ।
अन्ये च ये कुग्वस्तत्र सन्ति यथाऽर्जुनान्नाम्त्यपरो धनुर्धरः ॥
जानन्त्येतन्कुरवः सर्व एव ये चाप्यन्ये भूमिपालाः समेताः ।
दुर्योधने राज्यमिहाभवद्यथा अरिन्दमे फाल्गुनेऽविद्यमाने ॥
तेनानुबन्धं मन्यते धार्तराष्ट्रः शक्यं हर्तुं पाण्डवानां ममत्वम् ।
किरीटिना तालमात्रायुधेन तद्वेदिना संयुगं तत्र गत्वा ॥
गाण्डीवविष्फारितशब्दमात्रं श्रुत्वैव ते धार्तराष्ट्रा म्रियन्ते ।
क्रुद्धं न चेदीक्षते भीमसेनं सुयोधनो मन्यते सिद्धमर्थम् ॥
इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु- मैश्वर्यं नो जीवति भीमसेने ।
धनञ्जये नकुले चैव सूत तथा वीरे सहदेवेऽसहिष्णौ ॥
सचेदेतां प्रतिपद्येत बुद्धिं वृद्धो राजा सह पुत्रेण सूत ।
एवं रणे पाण्डवकोपदग्धा न नश्येयुः सञ्जय धार्तराष्ट्राः ॥
जानामि त्वं क्लेशमस्मासु वृत्तं त्वां पूजयन्मञ्जयाहं क्षमेयम् ।
वच्चास्माकं कौरवैर्भृतपूर्वं या नो वृत्तिधार्तराष्ट्रे तदाऽऽसीत् ॥
अद्यापि सा तत्र तथैव वर्ततां यान्ति गमिष्यामि यथा न्वमात्थ ।
द्वन्द्राप्रव्ये भवतु ममैव राज्यं सूयोधनो यच्छतु भाग्नाग्र्यः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि षड्विंशोऽध्यायः ॥

5-26-3 अहीनं अनपगतम् ॥ 3 ॥ 5-26-6 उक्तमर्थं प्रकृते योजयति संपश्येति । अस्माभिरित्यत्र धार्तराष्ट्रान् अन्तर्भाव्याह । पञ्चाधिकेन पुत्रशतेन सह धृतराष्ट्रस्य भोगं महान्तं पश्य । अथापि कृत्स्नं स्वस्यैव भवत्विति बुद्ध्याऽस्मान् राज्याद्दूरीकृत्य ततो भोगात् तृप्तिं न लभत इति भावः ॥ 6 ॥ 5-26-7 पितृव्यनिन्दादोषाद्भीतः पुनराह नाश्रेयानिति । यः पुण्यवत्तरः स विग्रहाणामीश्वरो भवति परैः सह विरोधं कृत्वा स्वोत्कर्षं करोति । अन्यस्तु तेनैव नश्यति । अतः स पुण्यवत्तर एव । अस्मद्दोषात्तु वयं वने दुःखमनुभवामो नतु परापराधेनेति भावः । प्रावारान् दिव्यवासांसि संविवस्ते परिधत्ते । अन्यधा अश्रेयांश्चेद्राजा तर्हि अस्मान् कुरुभ्यः कथं संप्रणुदेत् दूरीकुर्यात् । शत्रूणां राज्याद्भ्रंशनं हि पुण्यवतामेव कर्म नाश्रेयसामिति भावः ॥ 7 ॥ 5-26-8 अत्रेति यद्यप्येवं तथापि अन्तर्दाहकरोऽयं कामः अबुधस्य दुर्योधनादेरेव उचितो न बुधस्यास्मदादेरित्यर्थः । शरीरे शरीरमध्ये स्थितं हृदयं दुनोति खेदयति ॥ 8 ॥ 5-26-9 अबुधत्वमेवाह स्वयमिति । विषमस्थः संकटस्थः सन् परेषु कर्णादिषु आत्मनो वृत्तं अशक्तत्वं तथा परेषां कर्णादीनामपि स दुर्योधनोऽभ्युपैति ॥ 9 ॥ 5-26-10 गम्भीरकक्षे बहुतृणे गहने वने । क्षेमं शोचेत् मम सुखं नास्तीति शोकं कुर्यात् । मुमुक्षुः तस्माद्दाहादात्मानं मोचयितुमिच्छुः । शिशिरव्यापाये वसन्ते । तत्रापि निदाघकाले दाहकाले मध्याह्ने ॥ 10 ॥ 5-26-11 लालप्यते दीनवद्भाषते । मन्दं अभाग्यम् ॥ 5-26-12 विदुरस्य वाचोऽवमत्य सुतस्य प्रियैषी अधर्ममेव संविशते आश्रयते ॥ 5-26-13 कुरुभ्यः कुरूणां हितार्थम् । न सस्मार नादृतवान् । पुत्रकाम्यात् पुत्रलोभात् ॥ 13 ॥ 5-26-14 असौ राजा सुतस्य प्रियैषी धर्मकामौ प्राजहात् त्यक्तवानिति द्वयोः संबन्धः । ईर्षोः परोत्कर्षासहिष्णोः । संरम्भिणः क्रोधिनः मन्युवशानुगस्य दैन्यभाजां कर्णादीनामनुगस्य । दौर्हृदैः पापैः भावितस्य पूजितस्य ॥ 14 ॥ 5-26-15 अनेयस्य अशिक्षणीयस्य । अश्रेय सः अभाग्यस्य प्रपश्यमानः पश्यन्नपि ॥ 15 ॥ 5-26-20 तस्मिन् लुब्धे शमः न उपलभ्यः यः मद्गते मम वनंप्रति गमने सति सर्वं स्वकमेवार्थं मन्यते इति योज्यम् ॥ 20 ॥ 5-26-21 पारणीयं जेतुं शक्यम् । युद्धानि गोग्रहृदौ आसन् । द्वीपो द्वीपवत् युद्धप्रवाहेण उह्यमानस्याश्रयः ॥ 21 ॥ 5-26-24 अनुबन्धं बध्नातीति बन्धो राज्यादिः तमनुमूल्य वर्तमानं पाण्डवानां ममत्वं धार्तराष्ट्रो हर्तुं शक्यमन्यते । किंकृत्वा । तेन किरीटिना सह तत्र राज्ये निमित्ते सति संयुगं संग्रामं गत्वा प्राप्य । तालो हस्तचतुष्टयं तद्वेदिना धनुर्विद्यावेदिना ॥ 24 ॥ 5-26-27 एतां बुद्धिं राज्यस्य अप्रदाने नाशोऽस्तीत्येवंरूपाम् ॥ 27 ॥ 5-26-28 भूतपूर्वं भीमबन्धनजतुगृहदाहादि ॥ 28 ॥ 5-26- 5-26- 5-26- 5-26- 5-26-