अध्यायः 032

पाण्डवानुज्ञातेन सञ्जयेन रात्रौ धृतराष्ट्रमुपगम्य अभिवादनपूर्वकं युधिष्टिरकृतकुशलप्रश्नादिकथनम् ॥ 1 ॥ तथा धृतराष्ट्रं विगर्ह्य युधिष्ठिरवत्तनस्य श्वःकथनकथनपूर्वकं स्वभवनगमनम् ॥ 2 ॥

वैशंपायन उवाच ।

` धर्मराजस्य वचनं श्रुत्वा पार्थो धनञ्जयः ।
उवाच सञ्जयं तत्र वासुदेवस्य शृण्वतः ॥
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय ।
द्रोणं सपुत्रं शल्यं च महाराजं च बाह्लिकम् ॥
विकर्णं सोमदत्तं च शकुनिं चैव सौबलम् । विविंशतिं चित्रसेनं जयत्सेनं च सञ्जय ।
भगदत्तं तथा चैव शूरं रणकृतां वरम् ॥
ये चाप्यन्ये कुरवस्तत्र सन्ति राजानश्चेद्भूमिपालाः समेताः ।
युयुत्सवः सैन्धवाः पार्थिवाश्च समानीता धार्तराष्ट्रेण सूत ॥
यथान्यायं कुशलं वन्दनं च समागमे मद्वचनेन वाच्याः ।
ततो ब्रूयाः सञ्जय राजमध्ये दुर्योधनं पापकृतां प्रधानम् ॥
एवं प्रतिष्ठाप्य धनञ्जयस्तं ततोऽर्थवद्धर्मवच्चापि पार्थः ।
उवाच वाक्यं स्कवजनप्रहर्षं वित्रासनं धृतराष्ट्रात्मजानाम् ॥
अर्जुनेन समादिष्टस्तथेत्सुक्त्वा तु सञ्जयः । पार्थानामन्त्रयामास केशवं च यशस्विनम् ॥'
अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा ।
शासनं धृतराष्ट्रस्यक सर्वं कृत्वा महात्मनः ॥
` तदा तु सञ्जयः क्षिप्रमेकाहेन परन्तपः । याति स्म हास्तिनपुरं निशाकाले परन्तप ॥'
संप्राप्य हास्तिनपुरं शीघ्रमश्वैर्महाजवैः ।
अन्तःपुरं समास्थाय द्वाःस्थं वचनमब्रवीत् ॥
आचक्ष्व धृतराष्ट्रास्य द्वाऽस्थ मां समुपागतम् ।
सकाशात्पाण्डुपुत्राणां सञ्जयं माचिरं कृथाः ॥
.....र्ति चेदभिवदेस्त्वं हि द्वाःस्थ .....विशेयं विदितो भूमिपस्य ।
.....द्यमत्रात्ययिकं हि मेऽस्ति ..... स्थोऽथ श्रुत्वा नृपतिं जगाद ॥
द्वाःस्थ उवाच ।
सञ्जयोऽयं भूमिपते नमस्ते दिदृक्षया द्वारमुपागतस्ते ।
प्राप्तो दूतः पाण्डवानां सकाशात् प्रशाधि राजन्किमयं करोतु ॥
धृतराष्ट्र उवाच ।
आचक्ष्व मां कुशलिनं कल्पमस्मै प्रवेश्यतां स्वागतं सञ्जयाय
न चाहमेतस्य भवाम्यकल्पः स मे कस्माद्द्वारि तेष्ठेच्च सक्तः ॥
वैशंपायन उवाच ।
ततः प्रविश्यानुमते नृपस्य महद्वेश्म प्राज्ञशूरार्यगुप्तम् ।
सिंहासनस्थं पार्थिवमाससाद वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ॥
संजय उवाच ।
सञ्जयोऽहं भूमिपते नमस्ते प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् ।
अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी युधिष्ठिरः कुशलं चान्वपृच्छत् ॥
स ते पुत्रान्पृच्छति प्रीयमाणः कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च ।
तथा सुहृद्भिः सचिवैश्च राजन् ये चापि त्वामुपजीवन्ति तैश्च ॥
धृतराष्ट्र उवाच ।
अभिनन्द्य त्वां तात वदामि सञ्जय अजातशत्रुं च सुखेन पार्थम् ।
कच्चित्स राजा कुशली सपुत्रः सहामात्यः सानुजः कौरवाणाम् ॥
सञ्जय उवाच ।
सहामात्य कुशली पाण्डुपुत्रो बुभूषते यच्च तेऽग्रे त्मनाऽभूत्
निर्णीक्तधर्मार्थकरो मनस्वी बहुश्रुतो दृष्टिमाञ्शीलवांश्च ॥
परो धर्मः पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य ।
सुखप्रियेऽधर्महीनेऽनपार्थे नु रुध्यते भारत तस्य बुद्धिः ॥
परप्रयुक्तः पुरषो विचेष्टते सूत्रप्रोता दारुमयीव योषा ।
इमं दृष्ट्वा नियमं पाण्डवस्य मन्ये परं कर्म दैवं मनुष्यात् ॥
इमं च दृष्ट्वा तव कर्म दोषं पापोदर्कं घोरमवर्णरूपम् ।
यावत्परः कामयतेऽतिवेलं तावन्नरोऽयं लभते प्रशंसाम् ॥
अजातशत्रुस्तु विहाय पापं जीर्णां त्वचं सर्प इवासमर्थाम् ।
विरोचते ह्यार्यवृत्तेन वीरो युधिष्ठिरस्त्वयि पापं विसृज्य ॥
हन्तात्मनः कर्म निबोध राजन् धर्मार्थयुक्तादार्यवृत्तादपेतम् ।
उपक्रोशं चेह गतोऽसि राजन् भूयश्च पापं प्रसजेदमुत्र ॥
स त्वमर्थं संशयितं विना तै- राशंससे पुत्रवशानुगोऽस्य ।
अधर्मशब्दश्च महान्पृथिव्यां नेदं कर्म त्वत्समं भारताग्र्य ॥
हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घं वैरी क्षत्रविद्यास्वधीरः ।
एवंधर्मानापदः संश्रयेयु- र्हीनवीर्यो यश्च भवेदशिष्टः ॥
कुले जातो बलवान्यो यशस्वी । बहुश्रुतः सुखजीवी यतात्मा ।
धर्माधर्मौ ग्रथितौ यो बिभर्ति स ह्यस्य दिष्टस्य वशादुपैति ॥
कथं हि मन्त्राग्र्यधरो मनीषी धर्मार्थयोरापदि संप्रणेता ।
एवमुक्तः सर्वमन्त्रैरहीनो नरो नृशंसं कर्म कुर्यादमूढः ॥
तव ह्यमी मन्त्रविदः समेत्य समासते कर्मसु नित्ययुक्ताः ।
तेषांमयं बलवान्निश्चयश्च कुरुक्षये नियमेनोदपादि ॥
अकालिकं कुरवो नाभविष्यन् पापेन चेत्पापमजातशत्रुः
इच्छेञ्जातु त्वयि पापं विसृज्य निन्दा चेयं तव लोकेऽभविष्यत् ॥
किमन्यत्र विषयादीश्वराणां यत्र पार्थः परलोकं स्म द्रुष्टुम् ।
अत्यक्रामत्स तथा संमतः स्या- न्न संशयो नास्ति मनुष्यकारः ॥
एतान्गुणान्कर्मकृतानवेक्ष्य भावाभावौ वर्तमानावनित्यौ ।
बलिर्हि राजा पारमविन्दमानो नान्यत्कालात्कारणं तत्र मेने ॥
चक्षुःश्रोत्रे नासिका त्वक् च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः ।
तानि प्रीतान्येव तृष्णाक्षयान्ते तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥
नत्वेव मन्ये पुरुषस्य कर्म सवर्तते सुप्रयुक्तं यथावत् ।
मातुः पितुः कर्मणाभिप्रसूतः संवर्धते विधिवद्भोजनेन ॥
प्रियाप्रिये सुखदुःखे च राज- न्निन्दाप्रशंसे च भजन्त एव ।
परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव ॥
स त्वां गर्हे भारतानां विरोधा- दन्तो नूनं भविताऽयं प्रजानाम् ।
नोचेदिदं तव कर्मापराधात् कुरून्दहेत्कृष्णवर्त्सेव कक्षम् ॥
त्वमेवैको जातु पुत्रस्य राजन् वशं गत्वा सर्वलोके नेरन्द्र ।
कामात्मनः श्लाघनो द्यूतकाले नागाः शमं पश्य विपाकमस्य ॥
अनाप्तानां सङ्ग्रहात्त्वं नरेन्द्र तथाऽऽप्तानां निग्रहाच्चैव राजन् ।
भूमिं स्फीतां दुर्बलत्वादनन्ता- मशक्तस्त्वं रक्षितुं कौरवेय ॥
अनुज्ञातो रथवेगावधूतः श्रान्तोऽभिपद्ये शयनं नृसिंह ।
प्रातः श्रोतारः कुरवः सभाया- मजातशत्रोर्वचनं समेताः ॥
धृतराष्ट्र उवाच ।
अनुज्ञातोऽस्यावसथं परेहि प्रपद्यस्व शयनं सूतपुत्र ।
प्रातः श्रोतारः कुरवः सभाया- मजातशत्रोर्वचनं त्वयोक्तम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि द्वात्रिंशोऽध्यायः ॥ ॥ समाप्तं चेदं सञ्जययानपर्व ॥

5-32-8 ...... गच्छेत्युक्तः ॥ 8 ॥ 5-32-12 आत्ययिकं आवश्यकम् ॥ 12 ॥ 5-32-14 कल्पं दृढम् । अकल्पः दर्शने असमर्श्रः । सक्तः निरुद्धः ॥ 5-32-15 प्राज्ञाः शूराः आर्याः साधवश्च तैर्गुप्तम् ॥ 5-32-17 नप्तुभिः पुत्रस्य पुत्रैः ॥ 5-32-18 अजातशत्रुं सुखेन अभिनन्द्य त्वां प्रति वदामि ॥ 5-32-19 ते तव अग्रे यत् त्मनः आत्मनः राज्यधनादिकं अभूत् तत् बुभूषते प्राप्तुमिच्छति । निर्णिक्तौ दोषमलहीनौ धर्मार्थौ करोतीति स तथा । मनस्वी उदारः । दृष्टिमान् क्रान्तदर्शी ॥ 5-32-20 परो मुख्यः । आनृशंस्यं दया ततः रोषऽमुख्यः वित्तचयात् जात इति शेषः । वित्तसाध्यः सज्ञदानादिः । किंच तस्य बुद्धिः अनपार्थे न अपार्थे निष्प्रयोजने सप्रयोजने सुखप्रिये । संधिरार्षः । नु निश्चितं । रुध्यते अनुरुध्यते । अन्नादिजं देहपुष्टिसुखं पुत्रादि प्रियं च स परोपकारार्थमेवानुरुध्यते न कामकारेणेत्यर्थः ॥ 5-32-21 परेण ईश्वरेण प्रयुक्तः । नियमं निग्रहं मनुष्यात् मनुष्याकारात् दैवं ऐश्वरं कर्म परं श्रेष्ठं मन्ये ॥ 5-32-22 अवर्णरूपं अवर्णनीयरूपं अवाच्यमित्यर्थः । यावत्परः उत्कृष्टः शत्रुः कामयते तिष्ठत्वयं कंचित्कालमितीच्छति तावदपरो नरः प्रशंसा लभते ॥ 5-32-25 तैर्विना एकाकिना संशयितं दुर्लभमपि आशंससे प्राप्तुम् । अस्य तव महान् पृथिव्यां अधर्मशब्दोऽकीर्तिर्भवेत् । त्वत्समं तव युक्तम् ॥ 5-32-26 एवंधर्मान् ईदृशधर्मयुक्तान् पुरुषान् ॥ 5-32-27 सहि स एव दिष्टस्य वशात् भाग्यवशात् अस्य कुलेजातत्वादिगुणजातस्य । कर्मणि षष्टी । इदं गुणषट्कमुपैति प्राप्नोति । त्वं तु कुले जातोपि केवलं अनृतोपजीवित्वात् गुणानत्रहीनोऽसीति भावः ॥ 5-32-28 मन्त्र एव अग्र्यः श्रेष्ठो येषां ते मन्त्राग्र्यः भीष्मादयः तेषां धरो धर्ता । तैरेवं उक्तरीत्या द्यूतं मा कुर्वित्युक्तः कथं नृशंसं कर्म पाण्डवप्रव्राजनं कुर्यान्न कथमपीत्यर्थः ॥ 5-32-29 अमी कर्णादयः । तेषां कुरुक्षये कुरुक्षयनिमित्तं अयं राज्यं न देयमिति निश्चयः नियमेन उदपादि उत्पन्नः ॥ 5-32-30 अकालिकं अकस्मादेव कुरवो नाभविष्यन् नष्टाःस्युः । तव पापेन कर्मणा प्रेरितोऽजातशत्रुः त्वयि पापं इच्छेच्चेत् । नन्वेवं तर्हि तस्य गोत्रवधदोषः स्यादित्याशङ्क्याह त्वयीति । स्वनाशहेतुं अधर्मं कुर्वति त्वयि चोरे इव पापं विसृज्य रादा निष्पापोऽनिन्द्यश्च स्यादित्यर्थः ॥ 5-32-31 ईश्वराणां देवानां विषयादन्यत्र किम् । सर्वं देवाधीनमित्यर्थः । यत्र यतः पार्थोऽर्जुनः परलोकं द्रष्टुं अत्यक्रामत् । इमं लोकं सशरीर एव त्यक्तवान् । स तादृशः नारदादिवदुभयलोकसंचारयोग्यत्वेन साधूनां संमतोऽपि यदि तथा वनवसेन क्लेशसहः स्यात् तदा मनुष्यकारो नास्तीत्यस्मिन्नर्थे संशयो न ॥ 5-32-32 एतानिति । एतान् शौर्यांदीन् गुणान् कर्मकृतान्कर्मानुसारेण वृद्धिह्राययुक्तान् अवेक्ष्य अत एव भावाभावौ ऐश्वर्यानैश्वर्ये अनित्यौ आगमापायिनौ च अवेक्ष्य बलिराजा पूर्वपूर्वकर्मकारणपारं अन्तं अविन्दमानः सन् कालात् ईश्वरादन्यत्कारणं अभ्युदयादिहेतुरन्यत्किंचिन्नास्तीति मेने ॥ 32 ॥ 5-32-33 अतः सर्वस्य देवायत्तत्वात् तृष्णाक्षयेणैव इन्द्रियप्रीतिः संपादनीया नतु नानायत्नसाध्यतत्तद्वीषयसमर्पणेनेत्याह चक्षुरिति । ननु स्वस्वविषयालाभे तेषां कथं प्रीतिः स्यादित्याशङ्क्य तानि निरोधान्येवेत्याह तानीति । अव्यथः लाभालाभादौ वैषम्यहीनः प्रणुद्यात् स्वस्वगोचरेभ्यो निवर्तयेत् ॥ 5-32-34 एतद्दूषयति नत्विति । एव प्राप्ते सति अन्ये आहुः । तदेवाह पुरुषस्येति । संवर्तते सम्यक् फलवत् वर्तते । तदेवाह मातुरिति । कर्माभावे जन्मबृद्धी न स्यातामित्यर्थः 5-32-36 किंच नोचेदिति । इयं मया उच्यमानं कर्म पाण्डवेभ्यो राज्यांशप्रदानात्मकं तव नोचेत् संमतमिति शेषः । तर्हि तवापराधात कृष्णवर्त्माग्निः कक्षं यथा दहति एवं कृष्णवर्त्मा कृष्ण एव मार्ग इव सुखप्रापको यस्य स कृष्णवर्त्माऽर्जुनः कुरून् दहेदित्यावृत्त्या योज्यम् ॥ 5-32-37 श्लाघनः आत्मानं कृतार्थं मन्वानः । नागाः न गतवानसि ॥ 5-32-38 अनाप्तानां कर्णादीनाम् । आप्तानां विदुरादीनाम् । निग्रहात् दूरीकरणात् ॥ 5-32-39 अवधूतस्तिरस्कृतः । अत एव श्रान्तः । प्रपद्ये प्राप्नुयाम् ॥ 5-32-40 आवसथं गृहम् । परेहि गच्छ । प्रपद्यस्व सेवस्व ॥