अध्यायः 045

कुरुपाण्डवसेनयोर्द्वन्द्वयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशांपते ।
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ॥
कुरूणां सृञ्जयानां च जिगीषूणां परस्परम् ।
सिंहानामिव संह्रादो दिवमुर्वी च नादयन् ॥
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह ।
जझिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ॥
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ ।
पत्तीनां पादशब्दश्च वाजिनां च महास्वनः ॥
तोत्राङ्कुशनिपातश्च आयुधानां च निःस्वनः ।
घण्टाशब्दश्च नागानामन्योन्यमभिधावताम् ॥
तस्मिन्समुदिते शब्दे तुगुले रोमहर्षणे ।
बभूव रथनिर्घोषः पर्जन्यनिनदोपमःक ॥
ते मनः क्रूरमाधाय समभित्यक्तजीविताः ।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥
अथ शान्तनवो राजन्नभ्यधावद्धनञ्जयम् ।
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् ।
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ ।
गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ॥
तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि ।
सात्यकिस्तु महेष्वासः कृतवर्माणमभ्यात् ॥
तयोः समभयवद्युद्धं तुमुलं रोमहर्षणम् ।
सात्यकिः कृतवर्माणं कृतवार्मा च सात्यकिम् ॥
आनर्च्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ।
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ ॥
वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ ।
अभिमन्युर्महेष्वासं बृहद्बलमयोधयत् ॥
ततः कोसलराजाऽसावभिमन्योर्विशांपते ।
ध्वजं चिच्छेद समरे सारथिं च व्यपातयत् ॥
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ ।
बृहद्बलं महाराज विव्याध नवभिः शरैः ॥
अथापराभ्यां भल्लाभ्यां शिताभ्यामरिमर्दनः ।
ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ॥
अन्योन्यं च शरैः क्रुद्धौ ततक्षाते परस्परम् ।
मानिनं समरे दृप्तं कृतवैरं महारथम् ॥
भीमसेनस्तव सुतं दुर्योधनमयोधयत् ।
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ ॥
अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ।
तौ वीक्ष्य तु महात्मानौ कृतिनौ चित्रयोधिनौ ॥
विस्मयः सर्वभूतानां समपद्यत भारत ।
दुःशासनस्तु नकुलं प्रत्युद्याय महाबलम् ॥
अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ।
तस्य माद्रीसुतः केतुं सशरं च शरासनम् ॥
चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ।
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे ।
तुरङ्गांश्चिच्छिदे बाणैर्ध्वजं चैवाभ्यपातयत् ॥
दुर्मुखः सहदेवं च प्रत्युद्याय महाबलम् ।
विव्याध शरवर्षेण यतमानं महाहवे ॥
सहदेवस्ततो वीरो दुर्मुखस्य महारणे । शरेण भृतशीक्ष्णेन पातयामास सारथिम् ॥ 6-45-27aतावन्योन्यं समासाद्य समरे युद्धदुर्मदौ । 6-45-27bत्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ॥
युधिष्टिरः स्वयं राजा मद्रराजानमभ्ययात् ।
तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ॥
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः ।
अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥
ततो मद्रेश्वरं राजा शरैः सन्नतपर्वभिः ।
छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत ।
तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम् ॥
त्रिधा चिच्छेद समरे पाञ्चाल्यस्य तु कार्मुकम् ।
शरं चैव महाघोरं कालदण्डमिवापरम् ॥
प्रेषयामास समरे सोऽस्य काये न्यमञ्जत ।
अथान्यद्धनुरादाय सायकांश्च चतुर्दश ॥
द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ।
तावन्योन्यं सुसंक्रुद्धौ चक्रतुः शुभृशं रणम् ॥
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि ।
प्रत्युद्ययौ महाराज तिष्ठतिष्ठेति चाब्रवीत् ॥
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् ।
समदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ॥
तयोस्तदभवद्युद्धं घोररूपं विशांपते ।
दृप्तयोः समरे पूर्वं वृत्रवासवयोरिव ॥
बाह्लीकं तु रणे क्रुद्ध क्रुद्धरूपो विशांपते ।
अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥
बाह्लीकस्तु रणे राजन्धृष्टकेतुममर्षणः ।
शरैर्बहुभिरानर्च्छत्सिंहनादमथानदत् ॥
चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः ।
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च पुनः पुनः ।
समीयतुः सुसंक्रुद्धावङ्गारवबुधाविव ॥
राक्षसं रौद्रकर्माणं क्रूरकर्मा घटोत्कचः ।
अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ॥
घटोत्कचस्ततः क्रुद्धो राक्षसं तं महाबलम् ।
नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ॥
अलम्बुसस्तु समरे भैमसेनिं महाबलम् ।
बहुधा दारयामास शरैः सन्नतपर्वभिः ॥
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ ।
यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली ।
अश्वत्थामा ततः क्रुद्दः शिखण्डिनमुपस्थितम् ॥
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत् ।
शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ॥
सायकेन सुपीतेन तीक्ष्णेन निशितेन च ।
तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ॥
भगदत्तं रणे शूरं विराटो वाहिनीपतिः ।
अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥
विराटो भगदत्तं तु शरवर्षण भारत ।
अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम् ॥
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् ।
छादयामास समरे मेघः सूर्यमिवोदितम् ॥
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ ।
तं कृपः शरवर्षेण च्छादयामास भारत ॥
गौतमं कैकयः क्रुद्धः शरवृष्ट्याऽभ्यपूरयत् ।
तावन्योन्यं हयान्हत्वा धनुश्छित्वा च भारत ॥
विरथावसियुद्धाय समीयतुरमर्षणौ ।
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ॥
द्रुपदस्तु ततो राजन्सैन्धवं वै जयद्रथम् ।
अभ्युद्ययौ हृष्टरूपो हृष्टरूपं परंतपः ॥
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः ।
ताजयामास समरे स च तं प्रत्यबिध्यत ॥
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ।
ईक्षणप्रीतिजननं शुक्राङ्गरकयोरिव ॥
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् ।
अभ्ययाञ्जवनैरश्वैस्ततो युद्धमवर्तत ॥
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः ।
सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ॥
सुशर्माणं नरव्याघ्रश्चेकितानो महारथः ।
अभ्यद्रवत्सुसंक्रुद्धः पाण्डवार्थे पराक्रमी ॥
शुशर्मा तु महाराज चेकितानं महारथम् ।
महता शरवर्षेण वारयामास संयुगे ॥
चेकितानोऽपि संरब्धः सुशर्माणां महाहवे ।
प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ॥
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी ।
अभ्यद्रवत राजेन्द्र मत्तः सिंह इव द्विपम् ॥
यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः ।
व्यदारयत संग्रामे मघवानिव दानवम् ॥
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे ।
व्यदारयन्महाप्राज्ञः शरैः सन्नतपर्वभिः ॥
सुदक्षिणं तु राजेन्द्र काम्भोजानां महारथम् ।
श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ॥
सुदक्षिणस्तु समरे साहदेविं महारथम् ।
विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ॥
श्रुतकर्मा ततः क्रुद्धः काम्भोजानां महारथम् ।
शरैर्बहुभिरानर्च्छद्दारयन्निव सर्वशः ॥
इरावानथ संक्रुद्धः श्रुतायुषमरिन्दमम् ।
प्रत्युद्ययौ रणे यत्तो यत्तरूपं परंतपः ॥
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः ।
ननाद बलवान्नादं तत्सैन्यं प्रत्यपूरयत् ॥
श्रुतायुस्तु ततः क्रुद्धः फाल्गुनेः समरे हयान् ।
निजघान गदाग्रेण ततो युद्धमवर्तत ॥
विन्दानिविन्दावावन्त्यौ कुन्तिभोजं महारथम् ।
ससेनं ससुतं वीरं संसस़ञ्जतुराहवे ॥
तत्राद्भुतमपश्याम तयोर्घोरं पराक्रमम् ।
अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह ॥
अनुविन्दस्तु गदया कुन्तिभोजमताडयत् ।
कुन्तिभोजश्च तं तूर्णं शरव्रातैरवाकिरत् ॥
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः ।
स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ॥
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष ।
ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ॥
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् ।
उत्तरं योधयामास विव्याध निशितैः शरैः ॥
उत्तरश्चापि तं वीरं विव्याध निशितैः शरैः ।
चेदिराट् समरे राजन्नुलूकं समभिद्रवत् ॥
तथैव शरवर्षेण उलूकं समविद्ध्यत ।
उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ॥
तयोर्युद्धं समभवद्धोररूपं विशांते ।
दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ ॥
एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम् ।
पदातीनां च समरे तव तेषां च संकुले ॥
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् ।
तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन ॥
गजो गजेन समरे रथिनं च रथी ययौ ।
अश्वोऽश्वं समभिप्रायात्पदातिश्च पदातिनम् ॥
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत ।
शूराणां समरे तत्र समासाद्येतरेतरम् ॥
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः ।
प्रेक्षन्त तद्रणं घोरं देवासुरसमं भुवि ॥
ततो दन्तिसहस्राणि र्थानां चापि मारिष ।
अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ॥
तत्रतत्र प्रदृश्यन्ते रथवारणपत्तयः ।
सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे पञ्चचत्वारिंशोऽध्यायः ॥

6-45-1 पूर्वाह्णे पूर्वभागे ॥ 6-45-5 तोत्रं गजदमनं वेणुकाख्यं वेणुवुध्नसमाकारम् ॥ 6-45-13 आनर्च्छतुः पीडितवन्तौ । तक्षमाणौ तनूकुर्वाणौ ॥ 6-45-14 पुष्पैः शबलौ विचित्रौ ॥ 6-45-17 एकेन प्राष्णि पृष्ठगोपं एकेन सारथिमिति च ॥ 6-45-23 क्षुद्रकाणां बाणविशेषाणाम् ॥ 6-45-31 परासुकरणं मारणसाधनम् ॥ 6-45-36 वीरः शङ्खः । जत्रुदेशे अंससंधौ ॥ 6-45-38 धृष्टकेतुः शिशुपालसुतः ॥ 6-45-44 सन्नतपर्वभिः अलक्षितग्रन्थिभिः ॥ 6-45-48 तीक्ष्णेन सूक्ष्मधारेण । निशिते शाणोल्लीढेन । मृधे संग्रामे ॥ 6-45-58 तुभ्यं तव । सुतसोमं भैमसेनिम् ॥ 6-45-60 चेकितानो यादवः ॥ 6-45-69 इरावानर्जुनपुत्रः ॥ 6-45-72 संससज्जतुः संसक्तावभूताम् ॥ 6-45-81 द्वन्द्वं द्वयोर्द्वयोर्युद्धम् ॥ 6-45-86 विपरीतं अतीतक्रमम् ॥