अध्यायः 048

श्वेतयुद्धम् ॥ 1 ॥ भीष्मेण श्वेतवधः ॥ 2 ॥

धृतराष्ट्र उवाच ।
एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति ।
कुरवः पाण्डवेयाश्च किमकुर्वत सञ्जय ॥
भीष्मः शान्तनवः किं वा तन्ममाचक्ष्व पृच्छतः ।
सञ्जय उवाच ।
राजञ्शतसहस्राणि ततः क्षत्रियपुङ्गवाः ॥
श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः ।
राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत ॥
शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः ।
अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥
जिघांसन्तं युधांश्रेष्ठं तदासीत्तुमुलं महत् ।
तत्तेऽहं संप्रवक्ष्यामि महावैशसमच्युत ॥
तावकानां परेषां च यथा युद्धमवर्तत ।
तत्राकरोद्रथोपस्थाञ्शून्याञ्शान्तनवो बहून् ॥
तत्राद्भुतं महच्चक्रे शरैरार्च्छद्रथोत्तमान् ।
समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान् ॥
नुदन्समन्तात्समरे रविरुद्यन्यथा तमः ।
तेनाजौ प्रेषिता राजञ्शराः शतसहस्रशः ॥
क्षत्रियान्तकराः सङ्ख्ये महावेगा महाबलाः ।
शिरांसि पातयामासुर्वीराणां शतशो रणे ॥
गजान्कण्टकसन्नाहान्वज्रेणेव शिलोच्चयान् ।
रथा रथेषु संसक्ता व्यदृश्यन्त विशांपते ॥
एके रथं पर्यवहंस्तुरगाः सतुरंगमम् ।
युवानं निहतं वीरं लम्बमानं सकार्मुकम् ॥
उदीर्णाश्च हया राजन्वहनक्तस्तत्रतत्र ह ।
बद्धस्वङ्गनिषङ्गाश्च विध्वस्तशिरसो हताः ॥
शतशः पतिता भूमौ वीरशय्यासु शेरते ।
परस्पेरण धावन्तः पतिताः पुनरुत्थिताः ॥
उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन् ।
पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि ॥
सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः ।
विस्रब्धहतवीराश्च शतशः परिपीडिताः ॥
तेनतेनाभ्यधावन्त विसृजन्तश्च भारत ।
मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः ॥
सरथा रथिनश्चापि विमृद्गन्तः समन्ततः ।
स्यान्दनादपतत्कश्चिन्निहतोऽन्येन सायकैः ॥
हतसारथिरप्युच्चैः पपात काष्ठवद्रथः ।
युध्यमानस्य संग्रामे व्यूढे रजसि चोत्थिते ॥
धनुःकूजितविज्ञानं तत्रासीत्प्रतियुद्ध्यतः ।
गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम् ॥
युद्ध्यमानं शरै राजन्सिञ्जिनीध्वजिनीरवात् ।
अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः ॥
शब्दायमाने संग्रामे पटहे कर्णदारिणि ।
युध्यमानस्य संग्रामे कुर्वतः पौरुषं स्वकम् ॥
नाश्रौषं नामगोत्राणि कीर्तनं च परस्परम् ।
भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे ॥
परस्परेषां वीराणां मनांसि समकम्पयन् ।
तस्मिन्नत्याकुले युद्धे दारुणे रोमहर्षणे ॥
पिता पुत्रं च समरे नाभिजानाति कश्चन ।
चक्रे भग्ने युगे च्छिन्ने एकधुर्ये हये हतः ॥
आक्षिप्तः स्यन्दनाद्वीरः समारथिरजिह्मगैः ।
एवं च समरे सर्वे वीराश्च विरथीकृताः ॥
तेन तेन स्म दृश्यन्ते धावमानाः समंततः ।
गजो हतः शिरश्छिन्नं मर्म भिन्नं हयो हतः ॥
अहतः कोपि नैवासीद्भीष्मे नघ्नति शात्रवान् ।
श्वेतः कुरूणामकरोत्क्षयं तस्मिन्महाहवे ॥
राजपुत्रान्रथोदारानवधीच्छतसङ्घशः ।
चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ ॥
साङ्गदा बाहवश्चैव धनूंषि च समंततः ।
रथेषां रथचक्राणि तूणीराणि युगानि च ॥
छत्राणि च महार्हाणि पताकाश्च विशांपते ।
हयैघाश्च रथौघाश्च नरौघाश्चैव भारत ॥
वारणाः शतशश्चैव हताः श्वेतेन भारत ।
वयं श्वेतभयाद्भीता विहाय रथसत्तमम् ॥
अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः ।
शरपातमतिक्रम्य कुरवः कुरुनन्दन ॥
भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः ।
अदीनो दीनसमये भीष्मोऽस्माकं महाहवे ॥
एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः ।
आददान इव प्राणान्सविता शिशिरात्यये ॥
गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान् ।
स मुमोच महेष्वासः शरसङ्घाननेकशः ॥
निघ्नन्नमित्रान्समरे वज्रपाणिरिवासुरान् ।
ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम् ॥
स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् ।
तमेवमुपलक्ष्यैको हृष्टः पुष्टः परंतप ॥
दुर्योधनप्रिये युक्तः पाण्डवान्परिशोचयन् ।
जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे ॥
पातयामास सैन्यानि पाण्डवानां विशांपते ।
प्रहरन्तमनीकानि पिता देवव्रतस्तव ॥
दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात् ।
स भीष्मं शरजालेन महता समवाकिरत् ॥
श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् ।
तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ ॥
व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः ।
अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ ॥
भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ ।
एकाह्ना निर्दहेद्भीष्मः पाम्डवानामनीकिनीम् ॥
शरैः परमसंक्रुद्धो यदि श्वेतो न पालयेत् ।
पितामहं ततो दृष्ट्वा श्वेतो विमुखीकृतम् ॥
प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाभवत् ।
ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः ॥
ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे ।
दुर्मुखः कृतवर्मा च कृपः शल्यो विशांपतिःक ॥
भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः ।
दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः ॥
पाण्डवानामनीकानि वध्यमानानि संयुगे ।
श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम् ॥
नाशयामास वेगेन वायुर्वृक्षानिवौजसा ।
द्रावयित्वा चमूं राजन्वैराटिः क्रोधमूर्च्छितः ॥
आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः ।
तौ तत्रोपगतौ राजञ्शरदीप्तौ महाबलौ ॥
अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ ।
अन्योन्यं तु महाराज परस्परवधैषिणौ ॥
निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः ।
पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी ॥
तरसा वारयामास मत्तो मत्तमिव द्विपम् ।
श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः ॥
विव्याध प़ञ्चविंशत्या तदद्भुतमिवाभवत् ।
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा ॥
स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः ।
वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम् ॥
आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः ।
संप्रहस्य तत श्वेतः सृक्किणी परिसंलिहन् ॥
घनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः ।
संधाय विशिखं चैव शरं लोमप्रवाहिनम् ॥
उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः ।
केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव ॥
हतं भीष्मममन्यन्त श्वेतस्य वशमागतम् ।
पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः ॥
भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः ।
ततो दुर्योधनः क्रोधात्स्वमनीकमनोदयत् ॥
यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समंततः ।
मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति ॥
भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः ।
राज्ञस्तु वचनं श्रत्वा त्वरमाणा महारथाः ॥
बलेन चतुरङ्गेण गाङ्गेयप्रन्वपालयन् ।
बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत ॥
जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः ।
त्वरमाणास्त्वराकाले परिवार्य समंततः ॥
शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन् ।
तान्क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः ॥
अवारयदमेयात्मा दर्शयन्पाणिलाघवम् ।
स निवार्य तु तान्सर्वान्केसरी कुञ्जराविव ॥
महता शरवर्षेण भीष्मस्य धनुराच्छिनत् ।
ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि ॥
श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः ।
ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः ॥
विव्याध समरे राजन्सर्वलोकस्य पश्यतः ।
ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम् ॥
प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा ।
निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत् ॥
तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् ।
हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम् ॥
ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव ।
ध्वजमुन्मतितं दृष्ट्वा तां च सेनां निवारिताम् ॥
श्वेतं प्रति महाराज व्यसृजत्प्तायकान्बहून् ।
तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः ॥
धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव ।
उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः ॥
अन्यत्कार्मुकमादाय विपुलं बलवत्तरम् ।
तत्र संधाय विपुलान्भल्लान्सप्त शिलाशितान् ॥
चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः ।
ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे ॥
शिरश्चिच्छेद भल्लेन संक्रुद्धोऽलघुविक्रमः ।
हताश्वसूतात्सु रथादवप्लुत्य महाबलः ॥
अमर्षवशमापन्नो व्याकुलः समपद्यत ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः ॥
ताडयामास निशितैः शरसङ्घैः समंततः ।
स ताड्यमानः समरे भीष्मचापच्युतैः शरैः ॥
स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् ।
ततः शक्तिं रणे श्वेतो जग्राहोग्रं महाभयाम् ॥
कालदण्डोपमां घोरां मृत्योर्जिह्वामेव श्वसन् ।
अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे ॥
तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव ।
एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी ॥
ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम् ।
पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः ॥
हाहाकारो महानासीत्पुत्राणां ते विशांपते ।
दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम् ॥
श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् ।
अपतत्सहसा राजन्महोल्केव नभस्तलात् ॥
ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् ।
असंभ्रान्तस्तदा राजन्पिता देवव्रतस्तव ॥
अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः ।
उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः ॥
उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ ।
शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः ॥
कालोपहतचेतास्तु कर्तवक्यं नाभ्यजानत ।
क्रोधसंमूर्च्छितो राजन्वैराटिः प्रहसन्निव ॥
गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति ।
क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः ॥
भीष्मं समिदुद्राव जलौघ इव पर्वतम् ।
तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान् ॥
प्रहारविप्रमोक्षार्थं सहसा धरणींगतः ।
श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम् ॥
रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः ।
तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः ॥
सध्वजः सह सूतेन साश्वः सयुगबन्धुरः ।
विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमकाः ॥
अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः ।
ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः ॥
शनकैरभ्यायाच्छ्वेतं गाङ्गेयः प्रहसन्निव ।
एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम् ॥
आकाशादीरितां दिव्यामात्मनो हितसंभवाम् ।
भीष्मभीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै ॥
एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना ।
एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम् ॥
संप्रहृष्टमना भूत्वा वधे तस्य मनो दधे ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम् ॥
सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥
कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान् ।
एतानापततः सर्वान्द्रोणशल्यकृपैः सह ॥
अवारयदमेयात्मा वारिवेगानिवाचलः ।
स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु ॥
श्वेतः खङ्गमथाकृष्य भीष्मस्य धनुराच्छिनात् ।
तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः ॥
देवदूतवचः श्रुत्वा वधे तस्य मनो दधे ।
ततः प्रचरमाणस्तु पिता देवव्रतस्तव ॥
अन्यत्कार्मुकमादाय त्वरमाणो महारथः ।
क्षणेन सज्यमकरोच्छक्रचापसमप्रभम् ॥
पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः ।
वृतं तं मनुजव्याघ्रैर्भीमसेनपुरोगमैःक ॥
अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् ।
आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान् ॥
आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः ।
अभिमन्युं च समरे पिता देवव्रतस्तव ॥
आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः । सात्यकिं च शतेनाजौ भरतानां पितामहः ॥ 6-48-110aधृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः । तांश्च सर्वान्महेष्वासान्पिता देवव्रतस्तव ॥
वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे ।
ततः शरं मृत्युसमं भारसाधनमुत्तमम् ॥
विकृष्य बलवान्भीष्मः समाधत्त दुरासदम् ।
ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् ॥
ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः ।
स तस्य कवचं भित्वा हृदयं चामितौजसः ॥
जगाम धरणीं बाणो महाशनिरिव ज्वलन् ।
अस्तं गच्छन्यथाऽऽदित्यः प्रभाप्रादाय सत्वरः ॥
एवं जीवितमादाय श्वेतदेहाञ्जगाम ह ।
तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि ॥
प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम् ।
अशोचन्पाण्डवास्तत्र क्षत्रियाश्च महारथाः ॥
प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः । 6-48-117bततो दुःशासनो राजञ्श्वेतं दृष्ट्वा निपातितम् ॥
वादित्रनिनदैर्घोरैर्नृत्यति स्म समंततः ।
तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना ॥
प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः ।
ततो धनंजयो राजन्वार्ष्णेयश्चापि सर्वशः ॥
अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ ।
ततोऽवहारः सैन्यानां तव तेषां च भारत ॥
तावकानां परेषां च नर्दतां च मुहुर्मुहुः । पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः ।
चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः ॥