अध्यायः 001

कुरुक्षेत्रे कुरुपाण्डवसेनयोः परस्परसमागमः ॥ १ ॥ उभयपक्षीयैः परस्परं समयकरणं ॥२ ॥

श्रीवेदव्यासाय नमः
नारायणं नमस्कृत्य नरं नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १

जनमेजय उवाच ।

कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः
पार्थिवाश्च महात्मानो नानादेशसमागताः ॥ १

वैशंपायन उवाच

यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः ।
कुरुक्षेत्रे तपःक्षेत्रे शृणु त्वं पृथिवीपते ॥ २
तेऽवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः ।
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ॥ ३
वेदाध्ययनसंपन्नाः सर्वे युद्दाभिनन्दिनः ।
आशंसन्तो जयं युद्धे बलेनाभिमुखा रणे ॥ ४
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीं ।
प्राङ्मुखाः पश्चिमे भागे न्यवशन्त ससैनिकाः ५
स्यमन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः ।
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥ ६
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता ।
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता ॥ ७
यावत्तपति सुर्यो हि जम्बुद्वीपस्य मण्डलं ।
तावदेव समावृत्तं बलं पार्थिवसत्तम ॥ ८
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् ।
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ ।
व्यादिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥
संज्ञाय विविधास्तात तेषां चक्रे युधिष्ठिरः ।
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥
अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च ।
योजयामास कौरव्यो युद्धकाल उपस्थिते ॥
दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः ।
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम् ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः ॥
दृष्ट्वा दुर्योधनं हृष्टाः पाञ्चाला युद्धनन्दिनः ।
दध्मुः प्रीता महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः ।
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥
स्वयोधान्हर्षयन्तौ च वासुदेवधनञ्जयौ ।
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥
पाञ्चजन्यस्य शङ्खस्य देवदत्तस्य चोभयोः ।
श्रुत्वा तु निनदं योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः ।
त्रयेयुर्निनदं श्रुत्वा तथाऽसीदत तद्बलम् ॥
उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ।
अस्तं गत इवादित्यः सैन्येन रजसा वृतः ॥
सवर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान् ।
व्युक्षन्सर्वाणि सैन्यानि तदद्भुतमिवाभवत् ॥
वायुस्ततः प्रादूरभून्नीचैः शर्करकर्षणः ।
विनिघ्नंस्तान्यनीकानि शतशोऽथ सहस्रशः ॥
उभे सैन्ये च राजेन्द्र युद्धाय मुदिते भृशम् ।
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥
तयोस्तु सेनयोरासीदद्भुतः स तु संगमः ।
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥
शून्याऽऽसीत्पृथिवी सर्वा वृद्धबालावशेषिता । निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता ।
तेन सेनासमूहेन समानीतेन कौरवैः ॥
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः ।
धर्मान्संस्थापयामासुर्युद्धानां भरतर्षभ ॥
निवृत्ते विहिते युद्धे स्यात्प्रीतिर्नः परस्परम् ।
यथापरं यथायोगं न च स्यात्कस्यचित्पुनः ॥
वाचा युद्धे प्रवृत्तानां वाचैव प्रतियोधनम् ।
निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कदाचन ॥
रथी च रथिना योध्यो गजेन गजधूर्गतः ।
अश्वेनाश्वी पदातिश्च पादातेनैव भारत ॥
यथायोगं यथाकामं यथोत्साहं यथाबलम् ।
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा ।
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन ॥
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु ।
न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन ॥
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः ।
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः ।
हृष्टरूपाः समुनसो बभूवुः सहसैनिकाः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि प्रथमोऽध्यायः ॥

6-1-5 6-1-6 6-1-11 तव्यः इति झo पाठः तत्पाठे एवमिति । एवंवेदी विद्वान् इति अन्यैः पाण्डवेयो ज्ञातव्य इत्येतदर्थमित्यर्थः ॥ 6-1-19 असीद्त अवसन्नमभूत् ॥ 6-1-23 सागरक्षुभितोपमे क्षुभितसागरोपमे ॥ 6-1-27 धर्मसंस्थापनमेवाह यथापरमिति । यथायोगं तुल्ययोर्योगस्यानतिक्रमणाम् । यथा येन प्रकारेण अपरं अनुत्कृष्टं अन्याय्यमित्यर्थः । तथा न कस्यचित्तुल्ययोगातिक्रमः स्याद्ति भावः ॥ 6-1-29 गजधूर्गतः गजस्कन्धगतः ॥