अध्यायः 060
भीष्मार्जुनयुद्धवर्णनम् ॥ 1 ॥
सञ्जय उवाच ।
व्युष्टां निशां भारत भारताना-
मनीकिनीनां प्रमुखे महात्मा ।
ययौ सपत्नान्प्रति जातकोपो
वृतः समग्रेण बलेन भीष्मः ॥
तं द्रोणदुर्योधनबाह्लिकाश्च
तथैव दुर्मर्षणचित्रसेनौ ।
जयद्रथश्चातिबलो बलौघै-
र्नृपास्तथान्ये प्रययुः समन्तात् ॥
स तैर्महद्भिश्च महारथैश्च
तेजस्विभिर्वीर्यवद्भिश्च राजन् ।
रराज राजा स तु राजमुख्यै-
र्वृतः सदेवैरिव वज्रपाणिः ॥
तस्मिन्ननीकप्रमुखे विषक्ता
दोधूयमानाश्च महापताकाः ।
सुरक्तपीतासितपाण्डुराभा
महागजस्कन्धगता विरेजुः ॥
सा वाहिनी शान्तनवेन गुप्ता
महारथैर्वारणवाजिभिश्च ।
बभौ सविद्युत्स्तनयित्नुकल्पा
जलागमे द्यौरिव जातमेघा ॥
ततो रणायाभिमुखी प्रयाता
प्रत्यर्जुनं शान्तनवाभिगुप्ता ।
सेनामहोग्ना सहसा कुरूणां
वेगो यथा भीम इवापगायाः ॥
तं व्यालनानाविधगूढसारं
गजाश्वपादातरथौघपक्षम् ।
व्यूहं महामेघसमं महात्मा
ददर्श दूरात्कपिराजकेतुः ॥
विनिर्ययौ केतुमता रथेन
नरर्षभः श्वेतहयेन काले ।
` जये धृतः शत्रुवरूथिनीनां
यथा सुरेन्द्रोऽसुरवाहिनीनाम् ॥
नारायणेनेन्द्र इवाभिगुप्तः
शशीव सूर्येण समेयिवान्यथा ।
तथा महात्मा सह केशवेन
वरीथिनीनां प्रमुखे रराज ' ॥
सोपस्करं सोत्तरबन्धुरेषं
यत्तं यदूनामृषभेण सङ्ख्ये ।
कपिध्वजं प्रेक्ष्य रथं विषेदुः
सहैव पुत्रैस्तव कौरवेयाः ॥
प्रकल्पितं गुप्तमुदायुधेन
किरीटिना लोकमहारथेन ।
तं व्यूहराजं ददृशुस्त्वदीया-
श्चतुश्चतुर्व्यालसहस्रकीर्णम् ॥
यथैव पूर्वेऽहनि धर्मराज्ञा
व्यूहः कृतः कौरवसत्तमेन ।
यथा न भूतो भुवि मानुषेषु
न दृष्टपूर्वो न च संश्रुतश्च ॥
ततो यथादेशमुपेत्य तस्थुः
पाञ्चालमुख्याः सह चेदिमुख्यैः ।
ततः समादेशसमाहतानि
भेरीसहस्राणि विनेदुराजौ ॥
शङ्खस्वनास्तूर्यरवाः प्रणेदुः
सर्वेष्वनीकेषु ससिंहनादाः ।
ततः सबाणानि महास्वनानि
विस्फार्यमाणानि धनूंषि वीरैः ॥
क्षणेन भेरीपणवप्रणादा-
नन्तर्दधुः शङ्खमहास्वनांश्च ।
तच्छङ्खशब्दावृतमन्तरिक्ष-
मुद्धूतभौमद्रुतरेणुजालम् ॥
महानुभावाश्च ततः प्रकाश-
नालोक्य वीराः सहसाऽभिपेतुः ।
रथी रथेनाभिहतः ससूतः
पपात साश्वः सरथः सकेतुः ॥
गजो गजेनाभिहताः पपात
पदातिना चाभिहतः पदातिः ।
आवर्तमानान्यभिवर्तमानै-
र्घोरीकृतान्यद्भुतदर्शनानि ॥
प्रासैश्च खङ्गैश्च समाहतानि
सदश्वबृन्दानि सदश्वबृन्दैः ।
सुवर्णतारागणभूषितानि
सूर्यप्रभाभानि शरावराणि ॥
विदार्यमाणानि परश्वथैश्च
प्रासैश्च स्वङ्गैश्च निपेतुरुर्व्याम् ।
गजैर्विषणापरगात्ररुग्णाः
केचित्ससूता रथिनः प्रपेतुः ॥
गजर्षभाश्चापि जगर्षभेण
निपातिता बाणहताः पृथिव्याम् ।
गजौघवेगोद्धतसादितानां
श्रुत्वा विषेदुः सहसा मनुष्याः ॥
आर्तस्वनं सादिपदातियूनां
विषाणगात्रावरताडितानाम् ।
संभ्रान्तनागाश्वरथे मुहूर्ते
महाक्षये सादिपदातियूनाम् ॥
महारथैः संपरिवार्यमाणं
संदृश्य दूरात्कपिराजकेतुम् ।
तं पञ्चतालोच्छ्रिततालकेतुः
सदश्ववेगाद्भुतवीर्ययानः ॥
महास्त्रबाणाशनिदीप्तमन्तं
किरीटिनं शान्तनवोऽभ्यधावत् ।
तथैव शक्रप्रतिमप्रभाव-
मिन्द्रात्मजं द्रोणमुखा विसस्नुः ॥
कृपश्च शल्यश्च विविंशतिश्च
दुर्योधनः सौमदत्तिश्च राजन् ।
ततो रथानां प्रमुखादुपेत्य
सर्वास्त्रिवित्काञ्चनचित्रवर्मा ॥
जवेन शूरोऽभिससार सर्वां-
स्तानर्जुनस्यात्मभवोऽभिमन्युः ।
तेषां महास्त्राणि महारथाना-
मसह्यकर्मा विनिहत्य कार्ष्णिः ॥
बभौ महामन्त्रहुतार्चिमाली
सदोगतः सन्भगवानिवाग्निः ।
ततः स तूर्णं रुधिरोदफेनां
कृत्वा नदीमाशु रणे रिपूणाम् ॥
जगाम सौभद्रमतीत्य भीष्मो
महारथं पार्थमदीनसत्वः ।
ततः प्रहस्याद्भुतविक्रमेण
गाण्डीवमुक्तेन शिलाशितेन ॥
विपाठजालेन महास्त्रजालं
विनाशयामास किरीटमाली ।
तमुत्तमं सर्वधनुर्धराणा-
मसक्तकर्मा कपिराजकेतुः ॥
भीष्मं महात्माऽभिववर्ष तूर्णं
शरौघजालैर्विमलैश्च भल्लैः ।
तथैव भीष्माहतमन्तरिक्षे
महास्त्रजालं कपिराजकेतोः ॥
विशीर्यमाणं ददृशुस्त्वदीया
दिवाकरेणेव तमोभिभूतम् ।
एवंविधं कार्मुकभीमनाद-
मदीनवत्सत्पुरुषोत्तमाभ्याम् ।
ददर्श लोकः कुरुसृंजयाश्च
तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे षष्टितमोऽध्यायः ॥
6-60-1 व्युष्टां प्रभाताम् ॥ 6-60-7 व्यालो व्यूहविशेषस्तेन नानाविधं गूढसारं च ॥ 6-60-9 सोत्तरबन्धुरेषं उत्तरेणाच्छादनेन बन्धुरा रम्या ईषा तत्सहितम् ॥ 6-60-18 शरावराणि कवचानि ॥