अध्यायः 068

भीष्मेण दुर्योधनंप्रति ब्रह्मर्षिकृतकृष्णस्तवकथनम् ॥ 1 ॥ तथा कृष्णस्य पाण्डवेषु प्रीतिकथनपूर्वकं तैः सह शमविधानम् ॥ 2 ॥

भीष्म उवाच ।
स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत ।
ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥
साध्यानामपि देवानां देवदेवेश्वरः प्रभुः ।
लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ॥
भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह ।
यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि ॥
देवानामपि देवं च त्वामाह भगवान्भृगुः ।
पुराणां चैव परमं विष्णो रूपं तवेति च ॥
वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा ।
देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥
पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम् ।
स्रष्टारं सर्वभूतानामङ्गिरास्त्वां तथाऽब्रवीत् ॥
अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् ।
देवास्त्वत्संभवाश्चैव देवलस्त्वसितोऽब्रवीत् ॥
शिरसा ते दिव्यं व्याप्तं बाहुभ्यां पृथिवी तथा ।
जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥
एवं त्वामभिजानन्ति तपसा भाविता नराः ।
आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः ॥
राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥
इति नित्यं योगविर्द्भिर्भगवान्पुरुषोत्तमः ।
सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः ॥
एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः ।
केशवस्य यथा तत्त्वं सुप्रीतो भज केशवम् ॥
सञ्जय उवाच ।
पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव ।
केशवं बहुमेने स पाण्डवांश्च महारथान् ॥
तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः ।
माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः ॥
नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप ।
यदर्थं नृषु संभूतौ नरानारायणावृषी ॥
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ ।
यथा च पाण्डवा राजन्नवध्या युधि कस्यचित् ॥
प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु ।
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥
पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी ।
नरानारायणौ देवाववज्ञाय नशिष्यसि ॥
एवमुक्त्वा तव पिता तूष्णीमासीद्विशांपते ।
व्यसर्जयच्च राजानं शयनं च विवेश ह ॥
राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने ।
शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टषष्टितमोऽध्यायः ॥ ॥ विश्वोपाख्यानं समाप्तम् ॥