अध्यायः 069

कुरुपाण्डवयोर्मकरश्येनव्यूहरचनापूर्वकं युद्धारम्भः ॥ 1 ॥

सञ्जय उवाच ।
व्युषितायां तु शर्वर्यामुदिते च दिवाकरे ।
उभे सेने महाराज युद्धायैव समीयतुः ॥
अभ्यधावन्त संक्रुद्धाः परस्परजिगीषवः ।
ते सर्वे सहिता युद्धे समालोक्य परस्परम् ॥
पाण्डवा धार्तराष्ट्राश्च राजन्दर्मन्त्रिते तव ।
व्यूहौ च व्यूह्य संरब्धाः संप्रहृष्टाः प्रहारिणः ॥
अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः ।
तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ॥
`अजातशत्रुः शत्रूणां मनांसि समकम्पयत् ।' श्येनवद्व्यूह्य तं व्यूहं धौम्यस्य वचनात्स्वयम् ॥
स हि तस्य सुविज्ञात अग्निचित्येषु भारत ।
मकरस्तु महाव्यूहस्तव पुत्रस्य धीमतः ॥
स्वयं सर्वेण सैन्येन द्रोणेनानुमतस्तदा ।
यथाव्यूहं शान्तनवः सोऽन्ववर्तत तत्पुनः ॥
स निर्ययौ महाराज पिता देवव्रतस्तव ।
महता रथवंशेन संवृतो रथिनां वरः ॥
इतरेतरमन्वीयुर्यथाभागमवस्थिताः ।
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ॥
तान्दृष्ट्वाऽभ्युद्यतान्सङ्ख्ये पाण्डवा हि यशस्विनः ।
श्येनव्यूहेन संव्यूह्य समनह्यन्त संयुगे ॥
अशोभत मुखे तस्य भीमसेनो महाबलः ।
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ॥
शीर्षे तस्याभवद्वीरः सात्यकिः सत्यविक्रमः ।
विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ॥
अक्षौहिण्या समं तत्र वामपक्षोऽभवत्तदा ।
महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ॥
दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ॥
पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरःक ।
भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः ॥
प्रविश्य तु रणे भीमो मकरं मुखतस्तदा ।
भीष्ममासाद्य संग्रामे च्छादयामास सायकैः ॥
ततो भीष्मो महास्राणि पातयामास भारत ।
मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ॥
संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः ।
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ॥
प्रतिसंवार्य चास्राणि भीष्ममुक्तानि संयुगे ।
स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः ॥
ततो दुर्योधनो राजा भारज्वाजमभाषत ।
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ॥
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः ।
आचार्यः सततं हि त्वं हितकामो ममानघ ॥
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ।
देवानपि रणे जेतुं प्रार्थयामो न संशयः ॥
किमु पाण्डुसुताकन्युद्धे हीनवीर्यपराक्रमान् ।
स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः ॥
एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष ।
तत्र संप्रेक्ष्य राजनं संक्रुद्ध इव निश्चसन् ॥
बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम् ।
न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः ॥
यथाबलं यथावीर्यं कर्म कुर्यामहं हि ते । इत्युक्तवा ते सुतं राजन्नभ्यपद्यत वाहिनीम् ।
अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ॥
सात्यकिस्तु ततो द्रौणं वारयामात भारत ।
तयोः प्रववृते युद्धं घोररूपं भयावहम् ॥
शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापावान् ।
अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ॥
भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत ।
संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ॥
ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष ।
भीमसेनं रणे क्रुद्धाश्छादयांचक्रिरे शरैः ॥
तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष ।
विव्यधुर्निशितैर्बैणैः सर्वांस्तानुद्यतायुधान् ॥
द्रोणभीष्मौ तु संक्रुद्धावापतन्तौ महाबलौ ।
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ॥
प्रगृह्य बलवद्वीरो धनुर्जलदनिःश्वनम् ।
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ॥
शिखण्डिनं समासाद्य भरतानां पितामहः ।
अवर्जयत संग्रामं स्त्रीत्वं तस्यानुसंस्मरन् ॥
ततो द्रोणो महाराज अभ्यद्रवत तं रणे ।
रक्षमाणस्तदा भीष्मं तव पुत्रेण चोदितः ॥
शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् ।
अवर्जयत संत्रस्तो युगान्ताग्निमिवोल्बणम् ॥
ततो बलेन महता पुत्रस्तव विशांपते ।
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ॥
तथैव पाण्डवा राजन्पुरुस्कृत्य धनञ्जयम् ।
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ॥
तद्युद्धमभवद्धोरं देवानां दानवैरिव ।
जयमाकाङ्क्षतां सङ्क्ष्ये यशश्च सुमहाद्भुतम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे एकोनसप्ततितमोऽध्यायः ॥