अध्यायः 003

व्यासेन धृतराष्ट्रंप्रति दुर्निमित्तप्रादुर्भावकथनम् ॥ 1 ॥ तथा जेप्यतां जयसूचकलिङ्गकथनम् ॥ 2 ॥

व्यास उवाच ।
खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः ।
अनार्तवं पुष्पफलं दर्शयन्ति वनद्रुमाः ॥
गर्भिण्योऽजातपुत्राश्च जनयन्ति विभीषणान् ।
क्रव्यादाः पक्षिभिश्चापि सहा श्नन्ति परस्परम् ॥
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः ।
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः ।
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥
तथैवान्याश्च दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम् ।
वैनतेयान्मयूरांश्च जनयन्ति पुरे तव ॥
गोवत्सं वडवा सूते श्वा सृगालं महीपते ।
कुक्कुरान्करभाश्चैव शुकाश्चाशुवादिनः ॥
स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः ।
जातमात्राश्च नृत्यन्ति गायन्त च हसन्ति च ॥
पृथग्जनस्य सर्वस्य क्षुद्रकाः प्रहसन्ति च ।
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ॥
प्रतिमाश्चालिखन्त्येताः सशस्त्राः कालचोदिताः ।
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ॥
अन्योन्यमभिमृद्गन्ति नगराणि युयुत्सवः ।
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च ॥
विष्व्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति ।
अभीक्ष्णं कम्पते भूमिरर्कं राहुरुपैति च ॥
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ।
अभावं हि विशेषेण कुरूणां तत्र पश्यति ॥
धूमकेतुर्महाघोरः पुष्यं चाक्रम्य तिष्ठति ।
सेनयोरशिवं घोरं करिष्यति महाग्रहः ॥
मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ।
भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ॥
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते ।
उत्तरे तु परिक्रम्य सहितः समुदीक्षते ॥
श्यामो ग्रहः प्रज्वलितः सधूम इव पावकः ।
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥
ध्रुवं प्रज्वलितो घोरमपसव्यं प्रवर्तते । रोहिणीं पीडयत्येवमुभौ च शशिभास्करो ।
चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः ॥
वक्रानुवक्रं कृत्वा च श्रवणं पावकप्रभः ।
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥
सर्वसस्यपरिच्छन्ना पृथिवी सस्यमालिनी ।
पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः ॥
प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् ।
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥
निश्चेरुरर्चिषश्चापात्खङ्गाश्च ज्वलिता भृशम् ।
व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम् ॥
अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च ।
कवचानां ध्वजानां च भविष्यति महाक्षयः ॥
पृथिवी शोणितावर्ता ध्वजोडुपसमाकुला ।
कुरूणां वैशसे राजन्पाण्डवैः सह भारत ॥
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः ।
अत्याहितं दर्शयन्तः क्षत्रियाणां महद्भयम् ॥
एकपक्षाक्षिचरणाः शकुन्ताः खेचरा निशि ।
रौद्रं वदन्ति संरब्धाः शोणितं छर्दयन्ति च ॥
ग्रहौ ताम्रारुणनिभौ प्रज्वलन्ताविव स्थितौ ।
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ॥
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ ।
विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ॥
चन्द्रादित्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम् ।
अपर्वमि ग्रहं यातौ प्रजासंक्षयमिच्छतः ॥
अशोभिता दिशः सर्वाः पांसुवर्षैः समन्ततः ।
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥
कृत्तिकां पीडयंस्तीक्ष्णैर्नक्षत्रं पृथिवीपते ।
अभीक्ष्णवाता वायन्ते धूमकेतुमवस्थिताः ॥
विषमं जनयन्त्येत आक्रन्दजननं महत् । त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशांपते ।
बुधः संपततेऽभीक्ष्णं जनयन्प्राणिनां भयम् ॥
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् । इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ।
चन्द्रसूर्यावुभौ ग्रस्तावेकान्हा हि त्रयोदशीम् ॥
अपर्वणि ग्रहेणैतौ प्रजाः संक्षपयिष्यतः । मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् ।
शोणितैर्वक्रसंपूर्णा अतृप्तास्तत्र राक्षसाः ॥
प्रतिस्नोतोवहा नद्यः सरितः शोणितोदकाः ।
फेनायमानाः कूपाश्च कूर्दन्ति वृषभा इव ॥
पतन्त्युल्काः सनिर्घाताः शक्राशनिसमप्रभाः ।
अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ ॥
विनिःसृत्य महोल्काभिस्तिमिरं सर्वतो दिशम् । अन्योन्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः ।
भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥
कैलासमन्दराभ्यां तु तथा हिमवतो विभो ।
सहस्रशो महाशब्दं शिखराणि पतन्ति च ॥
महाभूता भूमिकम्पे चत्वारः सागराः पृथक् ।
वेलामुद्वर्तयन्तीव क्षोभयन्तो वसुन्धराम् ॥
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः ।
आभग्राः सुमहावातैरशनीभिः समाहताः ॥
वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च ।
नीललोहितपीतश्च भवत्यग्निर्हुतो द्विजैः ॥
वामार्चिर्दुष्टगन्धश्च मुञ्चन्वै दारुणं स्वनम् ।
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥
धूमं ध्वजाः प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः ।
मुञ्चन्त्यङ्गारवर्षं च भेर्यश्च पटहास्तथा ॥
शिखराणां समृद्धानामुपरिष्टात्समन्ततः ।
वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः ॥
पक्वापक्वेऽतिसुभृशं वावाश्यन्ते वयांसि च ।
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥
ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः ।
दीनास्तुरंगमाः सर्वे वारणाः सलिलाश्रयाः ॥
`एवंविधं दुर्निमित्तं क्षयाय पृथीवीक्षिताम् । भौमं दिव्यं चान्तरिक्षं त्रिविधं जायतेऽनिशम्'
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् ।
यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥
वैशंपायन उवाच ।
पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् ।
दिष्टमेतत्पुरा मन्ये भविष्यति नरक्षयः ॥
राजानः क्षत्रधर्मेण यदि वध्यन्ति संयुगे ।
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् ।
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥
वैशंपायन उवाच ।
एवं मुनिस्तथेत्सुक्त्वा कवीन्द्रो राजसत्तम ।
धृतराष्ट्रेण पुत्रेण ध्यानमन्वगमत्परम् ॥
स मुहूर्तं तथा ध्यात्वा पुनरेवाब्रवीद्वचः ।
असंशयं पार्थिवेन्द्र कालः संक्षयते जगत् ॥
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् ।
ज्ञातीनां वै कुरूणां च संबन्धिसुहृदां तथा ॥
धर्म्यं दर्शय पन्थानं समर्थो ह्यसि वारणे ।
क्षुद्रं जातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥
कालोऽयं पुत्ररूपेण तव जातो विशांपते ।
न वधः पूज्यते वेदे हितं नैव कथंचन ॥
हन्यात्स एनं यो हन्यात्कुलधर्मं स्विकां तनुम् ।
कालेनोत्पथगन्तसि शक्ये सति यथाऽऽपदि ॥
कुलस्यास्य विनाशाय तथैव च महीक्षिताम् ।
अनर्थो राज्यरूपेण तव जातो विशांपते ॥
लुप्तधर्मा परेणासि धर्मं दर्शय वै सुतान् ।
किं ते राज्येन दुर्धर्षयेन प्राप्तोऽसि किल्विषम् ॥
यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि ।
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥
वैशंपायन उवाच ।
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः ।
प्रशस्य वाक्यं वाक्यज्ञो वाक्यं चैवाब्रवीत्पुनः ॥
धृतराष्ट्र उवाच ।
यथा भवान्वेत्ति तथैव वेत्ता भावाभावौ विदितौ मे यथार्थौ ।
स्वार्थे हि संमुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि ॥
प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः ।
न चापि ते वशगा मे सुताश्च न चाधर्मं कर्तुमर्हा हि मे मतिः ॥
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः ।
कुरूणां पाण्डवानां च मान्यश्चापि पितामहः ॥
व्यास उवाच ।
वैचित्रवीर्य नृपते यत्ते मनसि वर्तते ।
अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम् ॥
धृतराष्ट्र उवाच ।
यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम् ।
तानि सर्वाणि भगवञ्छ्रोतुमिच्छामि तत्त्वतः ॥
व्यास उवाच ।
प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः ।
पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद्भाविनो रूपमाहुः ॥
गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र ।
विशुद्धरश्मिस्तपनः शशी च जयस्येतद्भाविनो रूपमाहुः ॥
इष्टा वाचः प्रसृता वायसानां संप्रस्थितानां च गमिष्यतां च ।
ये पृष्ठतस्ते त्वरयन्ति राज- न्ये चाग्रतस्ते प्रतिषेधयन्ति ॥
कल्याणवाचः शकुना राजहंसाः शुकाः क्रौञ्चाः शतपत्राश्च यत्र ।
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये ध्रुवं जयस्तत्र वदन्ति विप्राः ॥
अलंकारैः कवचैः केतुभिश्च सुखप्रणादैर्हेषितैर्वा हयानाम् ।
भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्ते विजयन्ति शत्रून् ॥
हृष्टा वाचस्तथा सत्वं योधानां यत्र भारत ।
न म्लायन्ति स्रजश्चैव ते तरन्ति रणोदधिम् ॥
`प्रयाणे वायसो वामे दक्षिणे प्रविविक्षताम् । पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति ॥ '
शब्दरूपरसस्पर्शगन्धाश्चाविकृताः शुभाः ।
सदा हर्षश्च योधानां जयतामिह लक्षणम् ॥
अनुगा वायवो वान्ति तथाऽभ्राणि वयांसि च ।
अनुप्लवन्ति मेघाश्च तथैवेन्द्रधनूंषि च ॥
एतानि जयमानानां लक्षणानि विशांपते ।
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ॥
अल्पायां वा महत्यां वा सेनायामिति निश्चयः ।
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥
एको दीर्णो दारयति सेनां सुमहतीमपि ।
तां दीर्णामनुदीर्यन्ते योधाः शूरतरा अपि ॥
दुर्निवर्त्या तदा चैव प्रभग्ना महती वमूः ।
अपामिव महावेगा त्रस्ता मगगणा इव ॥
नैव शक्या समाधातुं सन्निपाते महाचमूः ।
दीर्ण इत्येव दीर्यन्ते सुविद्वांसोऽपि भारत ॥
भीतान्भग्नांश्च संप्रेक्ष्य भयं भूयोऽभिवर्धते । प्रभग्ना सहसा राजन्दिशो विद्रवते चमूः ।
नैव स्थापयितुं शक्या शूरैरपि महाचमूः ॥
सत्कृत्य महतीं सेनां चतुरङ्गां महीपतिः ।
उपायपूर्वं मेधावी यतेत सततोत्थितः ॥
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् ।
जघन्य एष विजयो यो युद्धेन विशांपते ॥
महान्दोषः सन्निपातस्तस्याद्यः क्षय उच्यते ।
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः ॥
अपि पञ्चाशतं शूरा मृद्गन्ति महतीं चमूम् ।
अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः ॥
न वैनतेयो गरुडः प्रशंसति महाजनम् ।
दृष्ट्वा सुपर्णोऽपचितिं महत्या अपि भारत ॥
न बाहुल्येन सेनाया जयो भवति नित्यशः । अध्रुवो हि जयो नाम दैवं चात्र परायणम् ।
जयवन्तो हि संग्रामे कृतकृत्या भवन्ति हि ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि तृतीयोऽध्यायः ॥

6-3-6 वडवा अश्वा श्वा शुनी । करभो मृगविशेषः ॥ 6-3-7 प्रजायन्ते जनयन्ति ॥ 6-3-8 पृथग्जनस्य नीचजनस्य संबन्धिनः क्षुद्रकाः व्यङ्गाः चण्डालादिषु जाताः काणकुब्जादय इत्यर्थः । क्षुद्रा व्यङ्गानटीत्यादिमेदिनी ॥ 6-3-10 नगराणि कृत्रिमाणि शिशव एवावमृद्गन्ति ॥ 6-3-11 कार्तिक्याः परं हि संग्रामारम्भस्तत्र तुलास्थमर्कं राहुरुपैति ॥ 6-3-12 तदैव श्वेतो ग्रहः केतुश्चित्रामतिक्रामति स्वात्यादौ वर्तते । नित्यं समसस्तकस्थौ राहुकेतू इदानीमेकराशिगतौ महानिष्टसूचकाविति भावः ॥ 6-3-13 धूमकेतुरुपग्रहविशेषः स पुष्यं क्षत्रियनक्षत्रमाक्रम्य तिष्ठति । तथा वक्ष्यमाणरीत्या ज्येष्ठास्थेनापि केतुना पुष्यो विद्धस्तथा च स्वनक्षत्रे क्रूराक्रान्ते क्रूरविद्धे च सत्यवश्यं क्षत्रियाणां नाशो भवतीत्यर्थः । यथोक्तम् । कृत्तिकायां तथा पुष्पे रेवत्यां च पुनर्वसौ । वेधे सति त्रमाद्वेधो वर्णेषु ब्राह्मणादिष्विति नरतिविजये ॥ 6-3-14 भगं नक्षत्रं पूर्वाफल्गुनी । श्रुतिमते तूत्तराफल्गुनी ॥ 6-3-15 पूर्वेप्रोष्ठपदे पूर्वाभाद्रपदानक्षत्रं समारुह्य परिक्रम्य परिघाख्य उपग्रहस्तेन सहितः उत्तरे उत्तराभाद्रपदानक्षत्रं उदीक्षते आक्रान्तुमिच्छति ॥ 6-3-16 श्यामो द्वितीय उपग्रहः केतुसंज्ञः ऐन्द्रं ज्येष्ठां नक्षत्रमिति योज्यम् ॥ 6-3-17 परुषग्रहो राहुरेकनक्षत्रस्थौ शशिभास्करौ पीडयति । अपसव्यं प्रवर्तते सर्वदा वक्री सन् । सर्वतोभद्रचक्रे वेधेन कस्वातीस्थः सन् रोहिणीनक्षत्रं च पीडयतीत्यर्थः ॥ 6-3-18 तत्रैव सर्वतोभद्रचक्रे मघास्थो लिहिताङ्गोऽङ्गारको वक्रानुवक्रं कृत्वा पुनःपुनर्वक्रीभूय ब्रह्मणा बृहस्पतिनाक्रान्तं राशिं श्रवणं समावृत्य सम्यक् पूर्णदृष्ट्या विद्वा तिष्ठति ॥ 6-3-19 परिच्छन्ना आच्छादिता । पञ्चशीर्षाणि शिम्बीसदृशानि येषां ते पञ्चशीर्षाः ॥ 6-3-27 पूर्वं श्रवणस्थो बृहस्पतिर्भगनक्षत्रस्थः सूर्यपुत्र इत्युक्तं तावुभौ विशाखासमीपे तिर्यग्वेधेन शतपदे चक्रे विशाखानक्षत्रं विध्यत इत्यर्थः ॥ 6-3-28 अपर्वणि पर्व दर्शाख्यं पञ्चदशेह्नि भवति एकतिथिवृद्धौ षोडशे वा एकतिथिक्षये चतुर्दशे वाह्नि भवति । तिथिद्वयक्षयस्तु लोकेऽत्यन्तमप्रसिद्ध इति अपर्वणीत्युक्तं । ग्रहं यातौ राहुणा ग्रहणं प्राप्तौ । एतदेव प्रजासंक्षयहेतुत्वेन शास्त्रे दृष्टमित्याह प्रजेति । अयं श्लोकोत्र दाक्षिणात्यकोशेषु नास्ति । झo पुस्तक एवास्ति ॥ 6-3-30 चित्रास्वान्त्यतरस्थः पुरुषो ग्रहो रोहिणीं पीडयतीत्युक्तं तत्र चित्रांशे स्थित्वा रोहिणी अष्टादशत्वेन स्ममुदायिकनक्षत्रं पीडयति । स्वात्यंशे स्थित्वा कृत्तिकां षोडशकत्वेन सांघातिकनक्षत्रं पीडयति । सर्वतोभद्रचक्रे तथा दर्शनात् तदेतदाह कृत्तिकामित्यर्धेन । तीक्ष्णै क्रूरैः कर्मभिरुपलक्षितो राहुरित्यर्थः । धूमकेतुं उत्पातविशेषमनुलक्ष्यावस्थिताः ॥ 6-3-31 त्रिष्विति । त्रिषु सर्वेषु नक्षत्रनक्षत्रेषु विशांपते । गृध्नः संपतते शीर्षं जनयन्भयमुत्तमम् इति झo पाठः ॥ 6-3-32 ग्रस्तावेकमासीं त्रयोदशीम् इति झo पाठः । तत्पक्षे चन्द्रादित्यावुभौ ग्रस्तावित्येतेन श्लोकेनोक्तमर्थं विशदयति द्वाभ्याम् । चतुर्दशीमिति । त्रयोदशीं त्रयोदाशानामह्नां पूरणीं अमावास्यां भूतपूर्वां नाभिजानामि । अतिभूयसा कालेन अयं दुर्योग आगत इति भावः । एकमासीं एकस्मिन्नेव मासे भवाम् । पूर्वं त्रयोदश्यां रात्रौ पक्षसमाप्त्या सूर्यग्रहणमेवोक्तम् । इदानीं तु एकस्मिन्मासे चन्द्रः पूर्वमास्यां राहुणा ग्रहेण ग्रस्तः सूर्योऽमावास्यायाम् । यदा सूर्यो ग्रस्तस्तदा चन्द्रोपि ग्रस्त एव दर्शे तयोः संहतत्वात् ॥ 6-3-33 अपर्वणीति । लोकाप्रसिद्धपर्वणीति पूर्ववत् ज्ञेयम् ॥ 6-3-34 कूपाः कूर्दन्ति क्रीडन्ति वातैः क्षुभ्यन्त इत्यर्थः ॥ 6-3-35 अनयं अनीतिफलम् ॥ 6-3-38 महाभूता वृद्धीभूताः ॥ 6-3-43 शिखराणां द्रुमाग्राणाम् ॥ 6-3-44 पक्वापक्वेति पक्षिरुतानुकरणम् । वावाश्यन्ते अतिशयेन शब्दं कुर्वन्ति ॥ 6-3-45 प्रकिरन्तः शकृन्मूत्रमिति शेषः । व्यालाः दुष्टहस्तिनः । सलिलाश्रयाः अत्यन्तं प्रस्वेदयुक्ताः ॥ 6-3-51 मुनिः एवं तथेत्युक्त्वेति संबन्धः । धृतराष्ट्रेण हेतुना । तदर्थमित्यर्थः । ध्यानं चिन्ताम् ॥ 6-3-55 अयं दुर्योधनः ॥ 6-3-56 सः धर्मः एवं धर्महन्तारं शक्येऽनापदि सत्यां किमर्थमापदीव उन्मार्गगामी भवसीत्यर्थः ॥ 6-3-58 परेण अतिशयेन ॥ 6-3-61 भावाभावौ स्थितिविनाशौ ॥ 6-3-63 त्वं हि धर्मादौ हेतुरित्यर्थः ॥ 6-3-67 रूपं गमकं चिह्नम् ॥ 6-3-68 ये पृष्ठतो भाषमाणा वायसास्ते गन्तारं त्वरयन्ति सिद्धिसूचका इत्यर्थः । ये पुरतो भाषमाणास्ते गमनं निषेधन्तीत्यर्थः ॥ 6-3-83 सन्निपातो योधानां संघर्षः । व्यवधूताः दारादिष्वनासक्ताः ॥ 6-3-85 शूराणां सहायसंपत्तिर्नापेक्षितेत्यत्र दृष्टान्तमाह न वैनतेय इति । महत्या अपि सेनाया अपचितिं प्रतिकारं नाशं वा एकेनैवात्मना कर्तुं शक्यं दृष्ट्वा सुपर्णः शोभनपतत्रः गरुडो नामतः वैनतेयो विनतायाः पुत्रो महाजनं बहुजनसमूहं न प्रशंसति ॥