अध्यायः 075

कुरुपाण्डवयोः क्रौञ्चमकरव्यूहरचनापूर्वकमायोधनम् ॥ 1 ॥

सञ्जय उवाच ।
विहृत्य तु ततो राजन्सहिताः कुरुपाण्डवाः ।
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥
ततः शब्दो महानासीत्तव तेषां च भारत ।
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥
संनह्यतां पदातीनां हयानां चैव भारत ।
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत ।
व्यूहं व्यूहस्व पाञ्चाल मकरं शत्रुनाशनम् ॥
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः ।
व्यादिदेश यथान्यायं रथिनो रथिनां वरः ॥
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः ।
चक्षुषी सहदेवश्च नकुलश्च महारथः ॥
तुण्डमासीन्महाराज भीमसेनो महाबलः ।
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ॥
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः । पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ॥ 6-75-9aधृष्टद्युम्नो महाराज महत्या सेनया वृतः । केकया भ्रातरः पञ्च वामपार्श्वं समाश्रिताः ॥
धृष्टकेतुर्नरव्याघ्रश्चेकितानश्च वीर्यवान् ।
दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे ॥
पादयोस्तु महाराज स्थितः श्रीमान्महारथः ।
कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली ।
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥
एवमेतं महाव्यूहं व्यूह्य भारत पाण़्डवाः ।
सूर्योदये महाराज पुनर्युद्धाय दंशिताःक ॥
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः ।
समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः ॥
व्यूढं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव ।
कौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत ।
अश्वत्थामा कृपश्चैव चक्षुरास्तां जनेश्वर ॥
कृतवर्मा तु सहितः काम्भोजैरथ बाह्लिकैः ।
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥
ग्रीवायां शूरसेनश्च तव पुत्रश्च मारिष ।
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥
प्राग्जोतिषस्तु सहितो मद्रसौवीरकेकयैः ।
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥
पृष्ठे चास्तां महेष्वासावावन्त्यौ सपदानुगौः । स्वसेनया च सहितः शुशर्मा प्रस्थलाधिपः ।
वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्त भारत ॥
श्रुतायुश्च शातायुश्च सौमदत्तिश्च मारिष ।
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥
ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह ।
सूर्योदये महाराज प्रावर्तत जनक्षयः ॥
प्रतीयू रथिनो नामान्नागाश्च रथिनो ययुः ।
हयारोहान्रथारोहा रथिनश्चापि सादिनः ॥
सादिनश्च हयान्राजन्रथिनश्च महारणे ।
हस्त्यारोहान्हयारोहा रथिनः सादिनस्तथा ॥
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः ।
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः ।
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः ।
तवापि च बभौ सेना ग्रहैर्द्यौरिव संवृताः ॥
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी ।
अभ्ययाञ्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥
द्रोणास्तु समरे क्रुद्धो भीमं नवभिरायसैः ।
विव्याध समरश्लाघी मर्माण्युद्दिष्य वीर्यवान् ॥
दृढाहतस्तो भीमो भारद्वाजस्य संयुगे ।
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥
स संगृह्य स्कवयं वाहान्भारद्वाजः प्रतापवान् ।
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥
ते वद्यमाना द्रोणेन भीष्मेण च नरोत्तमाः ।
सृञ्जयाः तावकं सैन्यं भीमार्जुनपरिक्षतम् ॥
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् ।
मुह्यते तत्रतत्रैव समदेव वराङ्गना ॥
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये ।
आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥
तदद्भुतमपश्याम तावकानां परैः सह ।
एकायनगताः सर्वे यदयुध्यन्त भारत ॥
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशांपते ।
युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे पञ्चसप्ततितमोऽध्यायः ॥