अध्यायः 081

भीष्मेण दुर्योधनसंहर्षणम् ॥ 1 ॥ राज्ञां द्वन्द्वीभूय मेलनम् ॥ 2 ॥ अर्जुनपराक्रमवर्णनम् ॥ 3 ॥

सञ्जय उवाच ।
अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् ।
अब्रवीद्भरतश्रेष्ठः संप्रहर्षकर वचः ॥
भीष्म उवाच ।
अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः ।
अश्वत्थामा विकर्णश्च भगदत्तोऽथ सौबलः ॥
विन्दानुविन्दावावन्त्यौ बाह्लीकः सह बाह्लिकैः ।
त्रिगर्तराजो बलवान्मागधश्च सुदुर्जयः ॥
बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः । `कृपश्च सह सोदर्यैस्तव राजन्पदानुगाः ।'
रथाश्च बहुसाहस्राः शोभनाश्च महाध्वजाः ॥
देशजाश्च हया राजन्स्वारूढा हयसादिभिः ।
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥
पादाताश्च तथा शूरा नानाप्रहरणा युधि ।
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥
एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः ।
देवानपि रणे जेतुं समर्था इति मे मतिः ॥
अवश्यं हि मया राजंस्तव वाच्यं हितं सदा ।
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥
वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ।
सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव ॥
पाण्डवांश्च रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ।
सञ्जय उवाच ।
एवमुक्त्वा ददावस्मै विशल्यकरणीं शुभाम् ॥
ओषधीं वीयसंपन्नां विशल्यश्चाभवत्तदा ।
ततः प्रभाते विमले स्वेन सैन्येन वीर्यवान् ॥
अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ।
मण़्डलं मनुजश्रेष्ठो नानाशस्त्रसमाकुलम् ॥
संपूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ।
रथैरनेकसाहस्रैः समन्तत्परिवारितम् ॥
अश्ववृन्दैर्महद्भिश्च रिष्टितोमरधारिभिः ।
नागेनागे रथाः सप्त सप्त चाश्वा रथेरथे ॥
अन्वश्वं दश धानुष्का धानुष्के दश चर्मिणः ।
एवं व्यूहं महाराज तव सैन्यस्य दंशितम् ॥
स्थितं रणाय महते भीष्मेण युधि पालितम् ।
दशाश्वानां सहस्राणि दन्तिनां च तथैव च ॥
रथानामयुतं चापि पुत्राश्च तव दंशिताः ।
चित्रसेनादयः शूरा अभ्यरक्षन्तितामहम् ॥
रक्ष्यमाणाः स तैः शूरैर्गोप्यमानाश्च तेन ते ।
सन्नद्धाः समदृश्यन्त राजानश्च महाबलाः ॥
दुर्योधनस्तु समरे दंशितो रथमास्थितः ।
व्यराजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥
ततः शब्दो महानासीत्पुत्राणां तव भारत ।
रथघोषश्च विपुलो वादित्राणां च निःस्वनः ॥
भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्भुखो युधि ।
मण्डलः स महाव्यूहो दुर्भेद्योऽमित्रघातनः ॥
सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ।
मण्डलं तु समालोक्य व्यूहं परमदुर्ययम् ॥
स्वयं युधिष्ठिरो राजा वज्रं व्यूहमथाकरोत् ।
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः ॥
रथिनः सादिनः सर्वे सिंहनादमथानदन् ।
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः ॥
इतरेतरतः शूराः सहसैन्याः प्रहारिणः ।
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि सिखण्डिनम् ॥
स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ।
नकुलः सहदेवश्च मद्रराजानमीयतुः ॥
विन्दानुविन्दावावन्त्यौ युयुधानमभिद्रुतौ ।
सर्वे नृपास्तु समरे धनंजयमयोधयन् ॥
भीमसेनो रणे यान्तं हार्दिक्यं समवारयत् ।
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभुः ॥
आर्जुनिः समरे राजंस्तव मुत्रानयोधयत् ।
प्राग्ज्योतिषो महेष्वासो हैडिम्बं राक्षसोत्तमम् ॥
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ।
अलम्बुसस्तदा राजन्सात्यकिं युद्धदुर्मदम् ॥
ससैन्यं समरे क्रुद्धो राक्षसः समुपाद्रवत् ।
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् ॥
श्रुतायुषं च राजानं धर्मपुत्रो युधिष्ठिरः ।
चेकितानश्च समरे कृपमेवान्वयोधयत् ॥
शेषाः प्रतिययुर्यत्ता भीष्ममेव महारथम् ।
ततो राजसमूहास्ते परिवव्रुर्धनंजयम् ॥
शक्तितोमरनाराचगदापरिघपाणयः ।
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् ॥
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ।
व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥
युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् ।
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥
अद्यैतान्नाशयिष्यामि पश्यतस्ते जनार्दन ।
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥
एतदुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृद्य च ।
ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥
तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् ।
तटाकं वारिधाराभिर्यथा प्रावृषि तोयदाः ॥
हाहाकारो महानासीत्तव सैन्ये विशांपते ।
छाद्ममानौ रणे कृष्णौ शरैर्दृष्ट्वा महारणे ॥
देवा देवर्षयश्चैव गन्धर्वाश्च सहोरगैः ।
विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथाऽऽगतौ ॥
ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदैरयत् ।
तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥
शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् ।
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशांपते ॥
तेषां राजसहस्राणां हयानां दन्तिनां तथा ।
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥
ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः ।
अगाधे मञ्जमानानां भीष्मः पोतोऽभवत्तदा ॥
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् ।
संचुक्षुभे महाराज वातैरिव महार्णवः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे एकाशीतितमोऽध्यायः ॥