अध्यायः 089

धृतराष्ट्रेण पुत्रवधश्रवणात् शोचनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
दृष्ट्वा मे निहतान्पुत्रान्बहूनेकेन सञ्जय ।
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ॥
अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय ।
मन्येऽहं सर्वथा पुत्रान्दैवेनोपहतान्भृशम् ॥
यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत ।
यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ॥
सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः ।
अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम् ॥
अन्येषां चैव शूराणां मध्यगास्तनया मम ।
यदहन्यन्त संग्रामे किमन्यद्भागधेयतः ॥
न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत ।
वार्यमाणो मया तात भीष्मेण विदुरेण च ॥
गन्धार्या चैव दुर्मेधाः सततं हितकाम्यया ।
नाबुध्यत पुरा मोहात्तस्य प्राप्तमिदं फलम् ॥
यद्भीमसेनः समरे पुत्रान्मम विचेतसः ।
अहन्यहनि संक्रुद्धो नयते यमसादनम् ॥
इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् ।
न बुद्धवानस्मि विभो प्रोच्यमानमिदं तदा ॥
निवारय सुतं द्यूतात्पाण्डवान्मा द्रुहेति च ।
सुहृदां हितकामानां ब्रुवतां तत्तदेव च ॥
न शृणोमि पुरा वाक्यं मर्त्यः पथ्यमिवौषधम् ।
तदिदं समनुप्राप्तं वचनं साधु भाषितम् ॥
विदुरद्रोणभीष्माणां तथाऽन्येषां हितैषिणाम् ।
अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ॥
तदेतत्समतिक्रान्तं पूर्वमेव हि सञ्जय ।
तस्मान्मे वद तत्त्वेन यथा युद्धमवर्तत ॥
सञ्जय उवाच ।
मध्याह्ने मुमहारौद्रः संग्रामः समुपद्यत ।
लकक्षयकरो राजंस्तन्मे निगदतः शृणु ॥
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।
संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया ॥
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः ।
युक्तानीका महाराज भीष्ममेव समभ्ययुः ॥
विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः ।
अभ्यद्रवन्त संग्रामे भीष्ममेव महारथम् ॥
केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः ।
शुक्तानीका महाराज भीष्ममेव समभ्ययुः ॥
अर्जुनो द्रौपदश्चैव कुन्तिभोजश्च दंशितः ।
दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ॥
अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः ।
भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान् ॥
त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि ।
तथैव कौरवै राजन्नवध्यन्त परे रणे ॥
द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह ।
अभ्यधावत संक्रुद्धः प्रेषयिष्यन्यमक्षयम् ॥
तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मानाम् ।
वध्यतां समरे राजन्भारद्वाजेन धन्विना ॥
द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे ।
विचेष्टन्तो हृदृश्यन्त व्याधिक्लिष्टा वरा इव ॥
कूजतां क्रन्दतां चैव स्तनतां चैव भारत ।
अनिशं शुश्रुवे शब्दः क्षुत्क्लिष्टानां नृणामिव ॥
तथैव कौरवेयाणां भीमसेनो महाबलः ।
चकार कदनं घोरं क्रुद्धः काल इवापरः ॥
वध्यतां तत्र सैन्यानामन्योन्येन महारणे ।
प्रावर्तत नदी घोरा रुधिरौघपरवाहिनी ॥
स संग्रामो महाराज घोररूपोऽभवन्महान् ।
कुरूणां पाणडवानां च यमराष्ट्रविवर्धनः ॥
ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः ।
गजानीकं समासाद्य प्रेषयामास मृत्यवे ॥
तत्र भारत भीमेन नाराचाभिहता गजाः ।
पेतुर्नेदुश्च सेदुश्च दिशश्च परिबभ्रमुः ॥
छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष ।
क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशेरते ॥
नकुलः सहदेवश्च हयानीकमभिद्रुतौ ।
ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ॥
वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ।
पतिद्भिस्तुरगै राजन्समास्तीर्यत मेदिनी ॥
निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ।
हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ॥
अर्जुनेन हतैः सङ्ख्ये तथा भारत राजभिः ।
प्रबभौ वसुधा घोरा तत्रतत्र विशांपते ॥
रथैर्भग्नैर्ध्वजैश्छिन्नैर्निकृत्तैश्च महायुधैः ।
चामरैर्व्यजनैश्चैव च्छत्रैश्च सुमहाप्रभैः ॥
हरैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ।
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः ॥
अनुकर्षैः शुभै राजन्योक्रैश्चैव सरश्मिभिः ।
संकीर्णा वसुधा भाति वसन्ते कुसुमैरिव ॥
एवमेष क्षयो वृत्तः पाण्डूनामपि भारत ।
क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ॥
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि ।
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ॥ ॥

इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे एकोननवतितमोऽध्यायः ॥

6-89-25 कूजतां अव्यक्तं ध्वनताम् । स्तनतां उच्चैः शब्दायमानानाम् ॥ 6-89-37 निष्कैरुरोभूषणैः ॥ 6-89-38 योक्रैरीषायोजनरज्जुभिः रश्मिभिरश्वबन्धनरज्जुभिः ॥