अध्यायः 095

भगदत्तादियुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा । `पराजयं राक्षसेन नामृष्यत परंतपः ।'
गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च ॥
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे ।
घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥
कथयामास दुर्धर्षो विनिःश्वस्य पुनःपुनः ।
अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ॥
भवन्तं समुपाश्रित्य द्रोणं चैव पितामह ।
पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥
एकादश समाख्याता अक्षौहिण्यश्च या मम ।
निदेशे तव तिष्ठन्ति मया सार्धं परंतप ॥
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः ।
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ॥
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः ।
तदिच्छामि महाभाग त्वत्प्रसादात्परंतप ॥
राक्षसापशदं हन्तुं स्वयमेव पितामह ।
त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ॥
सञ्जय उवाच ।
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम ।
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि कौरव ।
यथा त्वया महाराज वर्तितव्यं परंतप ॥
आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम ।
धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ ॥
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः ।
अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति ॥
न तु कार्यस्त्वया राजन्हैडिम्बेन दुरात्मा । अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः ।
शल्यश्च वृषसेनश्च विकर्णश्च महारथः ॥
शेषाश्च भ्रातरस्त्वन्ये दुःशासनपुरोगमाः ।
त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥
रौद्रे तस्मिन्राक्षसेन्द्रे यदि ते हृच्छयो महान् ।
अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः ॥
भगदत्तो महीपालः पुरन्दरसमो युधि ।
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ॥
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ।
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ॥
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ।
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥
तव दिव्यानि चास्त्राणि विक्रमश्च परंतप ।
समागमश्च बहुभिः पुराऽभूदमरैः सह ॥
त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे ।
स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम् ॥
सञ्जय उवाच ।
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः ।
प्रययौ सिंहनादेन परानभिमुखको द्रुतम् ॥
तमापतन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् ।
अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ॥
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः ।
द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत ॥
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा ।
सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ॥
ततः समभवद्युद्धं घोररूपं भयानकम् ।
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ॥
प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः ।
ते निपेतुर्महाराज नागेषु च रथेषु च ॥
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः ।
परस्परं समासाद्य संनिपेतुरभीतवत् ॥
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे ।
बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः ।
चोदिताः सादिभिः क्षिप्रं निजघ्रुरितरेतरम् ॥
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः ।
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ॥
रथिनश्च रथाकंश्चित्रान्कर्णिनालीकतोमरैः ।
निहत्य समरे वीरान्सिंहनादान्विनेदिरे ॥
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे ।
भगतत्तो महेष्वासो भीमसेनमथाद्रवत् ॥
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् ।
पर्वतेन यथा तोयं स्रवमाणेन सर्वशः ॥
किरञ्छरसहस्राणि सुप्रतीकशिरोगतः ।
ऐरावतस्थो मघवान्वारिधारा इवानघ ॥
स भीमं शरधाराभिस्ताजयामास पार्थिवः ।
पर्वतं वारिधाराभिस्तपान्ते जलदो यथा ॥
भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान् ।
निजघान महेष्वासः संरब्धः शरवृष्टिभिः ॥
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् ।
चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा ।
अभ्यधावत वेगेन भीमसेनपुरोगमाः ॥
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः ।
अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ॥
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः ।
दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ॥
चेदिपो धृष्टकेतुश्च संरब्धाः सर्व एव ते ।
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः ॥
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ।
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ॥
संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ।
दशार्णाधिपतिश्चाऽपि गजं भूमिधरोपमम् ॥
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ।
तमापतन्तं समरे जगं जगपतिः स च ॥
दधार सुप्रतीकोऽपि वेलेव मकरालयम् ।
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः ॥
साधुसाध्विति सैन्यानि त्वदीयान्यभ्यपूजयन् ।
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ॥
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ।
तस्य कुम्भपरित्राणां शातकुम्भपरिष्कृतम् ॥
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः ।
स गाढविद्धो व्यथितो नागो भरतसत्तम ॥
उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगिनः ।
स प्रदुद्राव वेगेन प्रणदन्भैरवं रवम् ॥
संमर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ।
तस्मिन्पराजिते नागे पाण्डवानां महारथाः ॥
सिंहनादं विनद्योच्चैर्युद्धायैवावतस्थिरे ।
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् ॥
किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च ।
तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् ॥
श्रुत्वा स निनदंक घोरममर्षाद्गतसाध्वसः ।
भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि ।
तस्मिन्क्षणे समभवत्सांवर्तक इवानलः ॥
रथसङ्घांस्तथा नागान्हयांश्च हयसादिनः ।
पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशःक ॥
अमृद्गात्समरे नागः संप्रधावंस्ततस्ततः ।
तेन संलोड्यमानं तु पाण्डवानां बलं महत् ॥
संचुकोच महाराज चर्मेवाग्नौ समाहितम् ।
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता ॥
घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत् ।
विकटः परुषो राजन्दीप्तास्यो दीप्तलोचनः ॥
रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ।
जग्राह विमलं शूलं गिरीणामपि दारणम् ॥
नागं जिघांसुः सहसा चिक्षेप च महाबलः ।
स विस्फुलिङ्गमालाभिः समन्तात्परिवेष्टितम् ॥
तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः ।
चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम् ॥
चिच्छेद तन्महच्छूलं तेन बाणेन वेगवान् ।
उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम् ॥
महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ।
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः ॥
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमान् ।
चिक्षेप तां राक्षसस्य तिष्ठितिष्ठेति चाब्रवीत् ॥
तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव ।
उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत ।
पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ॥
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा ।
दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥
पाण्डवाश्च महाराज भीमसेनपुरोगमाः ।
साधुसाध्विति नादेन पृथिवीमन्वनादयन् ॥
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् ।
नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥
स विष्फार्य महच्चापमिन्द्राशानिसमप्रभम् ।
अभिदुद्राव वेगेन पाण्डवानां महारथान् ॥
विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ।
भीममेकेन विव्याध राक्षसं नवभिः शरैः ॥
अभिमन्युं त्रिभिश्चैव केकयान्पञ्च पञ्चभिः ।
पूर्णायतविसृष्टेन शरेणानतपर्वणा ॥
बिभेद दक्षिणं बाहुं क्षत्रेदवस्य चाहवे ।
पपात सहसा तस्य सशरं धनुरुत्तमम् ॥
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् ।
भीमसेनस्य च क्रोधान्निजघान तुरंगमान् ॥
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः ।
निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ॥
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ॥
ततो भीमो महाबाहुर्विरथो रथिनां वरः ।
गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात् ॥
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् ।
तावकानां भयं घोरं समपद्यत भारत ॥
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः ।
आजगाम महाराज निघ्नञ्शत्रून्समन्ततः ॥
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ ।
प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ ॥
दृष्ट्वा च पाण्डवो भ्रातॄन्युध्यमानान्महारथान् ।
त्वरितो भरतश्रेष्ठ तत्रायुध्यत्किरञ्छरान् ॥
ततो दुर्योधनो राजा त्वरमाणो महारथः ।
सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् ॥
तामापतन्तीं सहसा कौरवाणां महाचमूम् ।
अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥
भगदत्तश्च समरे तेन नागेन भारत ।
विमृद्गन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥
तदासीत्सुमहद्युद्धं भगदत्तस्य मारिष ।
पाञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः ॥
भीमसेनोऽपि समरे तावुभौ केशवार्जिनौ ।
अश्रावयद्यथावृत्तमिरावद्वधतुत्तमम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे पञ्चनवतितमोऽध्यायः ॥

6-95-4 भवन्तं समुपाश्रित्य वासुदेवं यथा परैः इति झo पाठः । ड पाठे अयमर्थश्लोको नास्ति ॥ 6-95-15 अनुशय इति पाठे पश्चात्तापः ॥ 6-95-77 प्रचस्कन्द अवततार ॥