अध्यायः 101

अभिमन्युनाऽलम्बुसस्य पराजयः ॥ 1 ॥

धृतराष्ट्र उवाच ।
आर्जुनं समरे शूरं विनिघ्नन्तं महारथान् ।
अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ॥
आर्श्यशृङ्गिं कथं चैव सौभद्रः परवीरहा ।
तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे ॥
धनंजयश्च किं चक्रे मम सैन्येषु संयुगे ।
भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥
नकुलः सहदेवो वा सात्यकिर्वा महारथः ।
एतदाचक्ष्व मे सत्यं कुशलो ह्यसि सञ्जय ॥
सञ्जय उवाच ।
हन्ते तेऽहं प्रवक्ष्यामि संग्रामं रोमहर्षणम् ।
यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ॥
तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः ।
अद्भुतानि विचिन्राणि चक्रुः कर्माण्यभीतवत् ॥
अलम्बुसस्तु समरे अभिमन्युं महारथम् ।
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ॥
अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ।
अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ॥
आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् ।
ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ ॥
रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ ।
मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ॥
ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः ।
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः ॥
अलम्बुरोऽपि संक्रुद्धः कार्ष्णि नवभिराशुगैः ।
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ॥
ततः शरसहस्रेण क्षिप्रकारी निशाचरः ।
अर्जुनास सुतं सङ्ख्ये पीडयामास भारत ॥
अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः ।
बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि ॥
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु ।
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ॥
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ।
स संदधानश्च शरान्हेमपुङ्खान्महाबलः ॥
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ।
ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः ॥
महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः ।
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ॥
अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् ।
तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ॥
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ।
सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ॥
चक्रे विमुखमासाद्य बलं शक्र इवाहवे ।
विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ॥
प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् ।
ततस्ते तमसा सर्वे वृताश्चासन्महीपते ॥
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ।
अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ॥
प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः ।
ततः प्रकाशमभवज्जगत्सर्वं महीपते ॥
तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः ।
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ॥
छादयामास समरे शरैः सन्नतपर्वभिः ।
बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा ॥
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः ।
हतमायं ततो रक्षो वध्यमानं च सायकैः ॥
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात् ।
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ॥
आर्जुनिः समरे सैन्यं तावकं संममर्द ह ।
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥
ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाऽभिविद्रुतम् ।
महता शरवर्षेण सौभद्रं पर्यवारयत् ॥
कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथः ।
एवं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः ।
सदृशो वासुदेवस्य विक्रमेण बलेन च ॥
उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥
ततो धनञ्जयो वीरो विनिघ्नंस्तव सैनिकान् ।
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥
तथैव समरे राजन्पिता देवव्रतस्तव ।
आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥
ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर ।
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥
तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् ।
रणाय महते युक्ता दंशिता भरतर्षभ ॥
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् ।
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥
प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः ।
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः ।
हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः ॥
शैनेयोऽपि ततः क्रुद्धश्चापमानम्य वेगवान् ।
गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम् ॥
तमापतन्तं वेगेन शक्राशनिसमद्युतिम् ।
द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः ॥
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः ।
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत ।
अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् ।
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः ।
निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः ॥
प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् ।
वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत् ॥
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् ।
वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥
अथापरेण भल्लेन माधवस्य ध्वजोत्तमम् ।
चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह ॥
पुनश्चैनं शरैर्घोरैश्छादयामास भारत ।
निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥
सात्यकोऽपि महाराज शरजालं निहत्य तत् ।
द्रौणिमभ्याकिरत्तूर्णं शरजालैरनेकधा ॥
तापयामास च द्रौणिं शैनेयः परवारहा ।
विमुक्तो मेघजालेन यथैव तपनस्तथा ॥
शराणां च सहस्रेण पुनरेव समुद्यतः ।
सात्यकिश्छादयामास ननाद च महाबलः ॥
दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम् ।
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥
विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे ।
परीप्सन्खसुतं राजन्वार्ष्णेयेनाभिपीडितम् ॥
सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम् ।
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥
तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः ।
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥
ततो द्रोणश्च पार्थश्च समेयातां महामृधे ।
यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे एकाधिकशततमोऽध्यायः ॥