अध्यायः 102

द्रोणार्जुनयुद्धं भीमसेनपराक्रमश्च ॥ 1 ॥

धृतराष्ट्र उवाच ।
कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः ।
समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ ॥
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः ।
आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ॥
तावुभौ रथिनो सङ्ख्ये हृष्टौ सिंहाविवोत्कटौ ।
कथं समीयतुर्यत्तौ भारद्वाजधनञ्जयौ ॥
सञ्जय उवाच ।
न द्रोणः समरे पार्थं जानीते प्रियमात्मनः ।
क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् ।
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ॥
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः ।
नाचिन्तयच्च तान्बाणान्पार्थचापच्युतान्युधि ॥
शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे ।
स प्रजज्वाल रोषेण गहनेऽग्निरिवोर्जितः ॥
ततोऽर्जुनं रणे द्रोणः शरैः सन्नतपर्वभिः ।
छादयामास राजेन्द्र नचिरादेव भारत ॥
ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥
त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् ।
छादयामास समरे पार्थं बाणैरयोमुखैः ॥
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे ।
हंसा इव महाराज शरत्काले नभस्तले ॥
ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो ।
फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः ॥
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः ।
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षये । पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ।
मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ॥
शरवृष्टिं ततस्तां तु शरवर्षैः समन्ततः ।
प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ॥
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् ।
विमुक्तां बहुभिर्योधैः शस्त्रवृष्टिं दुरासदाम् ॥
यदेको वारयामास मारुतोऽभ्रगणानिव ।
कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ॥
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत ।
मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ॥
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् ।
पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ॥
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् ।
शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ॥
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे नराधिप ।
प्रशशाम ततो वयुः प्रसन्नाश्च दिशो दश ॥
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् ।
निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ॥
ततो दुर्योधनश्चैव कृपश्च रथिनां वरः ।
अश्वत्थामा तथा शल्यः काम्भोजश्च सुदक्षिणः ॥
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः ।
महता रथवंशेन पार्थस्यावारयन्दिशः ॥
तथैव भगदत्तश्च श्रतायुश्च महाबलः ।
गजानीकेन भीमस्य ताववारयतां दिशः ॥
भूरिश्रवाः शलश्चैव सौबलश्च विशांपते ।
शरौघैर्विमलैस्तीक्ष्णैर्माद्रीपुत्राववारयन् ॥
भीष्मस्तु संहतः सङ्ख्ये धार्तराष्ट्रैः ससैनिकैः ।
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ॥
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः ।
लोलिहन्सृक्किणी वीरो मृगराडिव कानने ॥
भीमस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे ।
अवप्लुत्य रथात्तूर्णं तव सैन्यान्यभीषयत् ॥
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः ।
परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥
गजमध्यमनुप्राप्तः पाण्डवः स व्यराजत ।
मेघजालस्य महतो यथा मध्यगतो रविः ॥
व्यधमत्स गजानीकं गदया पाण्डवर्षभः ।
महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ॥
ते वध्यमाना बलिना भीमसेनेन दन्तिनः ।
आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ॥
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः ।
फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ॥
`सादिनां शस्त्रवृष्टिं च व्यधमद्गदया ततः ।' वायुवेगसमायुक्तो व्यचरत्पाण्डवो युधि ॥
विषाणोल्लिखितैर्गात्रौर्विषाणाभिहतो भृशम् ।
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ॥
विषाणेन च तेनैव कुम्भोऽभ्याहत्य दन्तिनम् ।
पातयामास समरे दण्डहस्त इवान्तकः ॥
शोणिताक्तां गदां बिभ्रन्मेदोभञ्जाकृतच्छविः ।
कृताभ्यङ्गः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥
एवं के वध्यमानाश्च हतशेषा महागजाः ।
प्राद्रवन्त दिशो राजन्विमृद्गन्तः स्वकं बलम् ॥
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ । दुर्योधनबलं सर्वं पुनरासीत्पराङ्भुखम् ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे द्व्यधिकशततमोऽध्यायः ॥