अध्यायः 104

संकुलयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
अर्जुनस्तान्नरव्याघ्रः सुशर्मानुचरान्नृपान् ।
अनयत्प्रेतराजस्य सदनं सायकैः शितैः ॥
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे ।
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥
तं निवार्य शरौघेण सक्रुसूनुर्महारथः ।
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।
व्यद्रवन्त रणे राजन्भये जाते महारथाः ॥
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष ।
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥
अपरे तु तदादाय वाजिनागरथान्रणे ।
त्वरया परया युक्ताः प्राद्रवन्त विशांपते ॥
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे ।
निरपेक्षा व्यधावन्त तेनतेन स्म भारत ॥
वार्यमाणाः सुबहुशस्त्रैगर्तेन सुशर्मणा ।
तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव ।
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतः ॥
सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् ।
त्रिगर्ताधिपतेरर्थे जीवितस्य विशांपते ॥
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् ।
भ्रातृभिः सहितः सर्वैः शेषा हि प्रद्रुता नराः ॥
तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः ।
प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यतिष्ठत ॥
ज्ञायमाना रणे वीर्यं घोरं गाण्डीवधन्वनः ।
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥
ततस्तालध्वजः शूरः पाण्डवानां वरूथिनीम् ।
छादयामास समरे शरैः सन्नतपर्वभिः ॥
एकीभूतास्ततः सर्वे कुरवः सह पाण्डवैः ।
अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराशुगैः ।
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः ।
पुनर्विव्याध सप्तत्या सारथिं चास्य पञ्चभिः ॥
भीमसेनस्तु राजानं बाह्लीकं प्रपितामहम् ।
विद्ध्वा नदन्महानादं शार्दूल इव कानने ॥
आर्जुनिश्चित्रसेनेन विद्धो बहुभिरशुगैः । अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ।
चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम् ॥
समागतौ तौ तु रणे महामात्रौ व्यरोचताम् ।
यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः ।
ननाद बलवान्नादं सौभद्रः परवीरहा ॥
हताश्वात्तु रथात्तूर्णं सोऽवप्लुत्य महारथः ।
आरुरोह रथं तूर्णं दुर्मुखस्य विशांपते ॥
द्रोणश्च द्रुपदं भित्त्वा शरैः सन्नतपर्वभिः ।
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे ।
अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥
भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् ।
व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥
ससंभ्रमो महाराज संशयं परमं गतः ॥
अवप्लुत्य ततो वाहाद्बाह्लीकः पुरुषोत्तमः ।
आरुरह रथं तूर्णं लक्ष्मणस्य महारणे ॥
सात्यकिः कृतवर्माणं वारयित्वा महारणे ।
शरैर्बहुविधै राजन्नाससाद पितामहम् ॥
स विद्ध्वा भारतं षष्ट्या निशितै रोमवाहिभिः ।
नृत्यन्निव रथोपस्थे विधुन्वानो महद्धनुः ॥
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः ।
हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥
तामापतन्तीं सहसा मृत्युकल्पां सुदुर्जयाम् ।
व्यंसयामास वार्ष्णेयो लाघवेन महायशाः ॥
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा ।
न्यपतद्धरणीपृष्ठे महोल्केव महाप्रभा ॥
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं कनकप्रभाम् ।
वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ॥
वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे ।
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥
तामापतन्तीं सहसा द्विधा चिच्छेद भारतः ।
क्षुरप्राभ्यां सुतीक्ष्णाभ्यांसा व्यशीर्यत मेदिनीम् ॥
छित्त्वा शक्तिं तु गाङ्गयः सात्यकिं नवभिः शरैः ।
आजघानोरसि क्रुद्धः प्रहसञ्छत्रुकर्शनः ॥
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज ।
परिवब्रू रणे भीष्मं माधवत्राणकारणात् ॥
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।
पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे चतुरधिकशततमोऽध्यायः ॥

6-104-7 तेनतेन पथा ॥ 6-104-20 महामात्रौ श्रेष्ठौ ॥ 6-104-29 भारत भीष्मम् । रोमवाहिभिः रोमच्छेदकैः ॥ 6-104-35 मेदिनीं प्राप्येति शेषः ॥ 6-104-37 माधवः सात्यकिः ॥