अध्यायः 006

संजयेन भारतादिनवखण्डानां तत्तत्सीमापर्वतानां मेरोश्च वर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
उक्तो द्वीपस्य संक्षेपो विधिवद्बुद्धिमंस्त्वया ।
तत्त्वज्ञश्चासि सर्वस्य विस्तारं ब्रूहि सञ्जय ॥
यावान्भूम्यवकाशोऽयं दृश्यते शशलक्षणे ।
तस्य प्रमाणां प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥
वैशंपायन उवाच ।
एवं राज्ञा स पृष्टस्तु संजयो वाक्यमब्रवीत् । 6-6-3xa संजय उवाच । प्रागायता महाराज षडेते वर्षपर्वताः ।
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः ।
नीलश्च वैदूर्यमयः श्वेतश्च शशिसन्निभः ॥
सर्वधातुविचित्रश्च श्रृङ्गवान्नाम पर्वतः ।
एते वै पर्वता राजन्सिद्धचारणसेविताः ॥
एषामन्तरविष्कम्भा योजनानि सहस्रशः ।
तत्र पुण्या जनपदास्तानि वर्षाणि भारत ॥
वसन्ति तेषु सत्वानि नानाजातीनि सर्वशः । इदं तु भारतं वर्षं ततो हैमवतं परम् ॥ 6-6-8a` ततः किंपुरुषावासं वर्षं हिमवतः परम्' । हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
व्रागायतो महाभाग माल्यवान्नाम पर्वतः ॥
ततः परं माल्यवतः पर्वतो गन्धमादनः । परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ।
तरुणादित्यसंकाशो विधूम इव पावकः ॥
योजनानां सहस्राणि षोडशाधः किल स्मृतः । ऊर्ध्वं च चतुरशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः ।
अधस्ताच्चतुरशीतिर्योजनानां महीपते ॥
ऊर्ध्वंमधश्च तिर्यक्व मेरुरावृत्य तिष्ठति ।
तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः सस्थिता विभो ॥
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत ।
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥
विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल ।
स वै विचिन्तयामास सौवर्णान्वीक्ष्य वायसान् ॥
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् ।
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥
तमादित्योऽनुपर्येति सततं ज्योतिषां वरः ।
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः ॥
सपर्वतो महाराज दिव्यपुष्पफलान्वितः ।
भवनैरावृतः सर्वैर्जाम्बूनदपरिष्कृतैः ॥
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः ।
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा ॥
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ।
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहाहुहूः ।
अभिगम्यामरश्रेष्ठांस्तुष्टुवुर्विविधैः स्तवैः ॥
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ।
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते ।
इमानि तस्य रत्नानि तस्येमे रत्नपर्वताः ॥
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्रुते ।
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमैश्चितम् ।
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः ।
उमासहायो भगवान्रमते भूतभावनः ॥
कर्णिकारमयी मालां बिभ्रत्पादावलम्बिनीम् ।
त्रिभिर्नेत्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः ॥
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ।
पश्यन्ति नहि दुर्वृत्तैः शक्यो द्रुष्टुं महेश्वरः ॥
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर ।
विश्वरूपाऽपरिमिता भीमनिर्घातनिःस्वना ॥
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा ।
प्लवन्तीव प्रवेगेन ह्रदे चन्द्रमसः शुभे ॥
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ।
तां धारयामास तदा दुर्धरां पर्वतैरपि ॥
शतं वर्षसहस्राणां शिरसैव महेश्वरः ।
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ॥
जम्बूखण्डे तु तत्रैव महाजनपदो नृप ।
आयुर्दशसहस्राणि वर्षाणां तत्र भारत ॥
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ।
अनामया वीतशोका नित्यं मुदितमानसाः ॥
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ।
गन्धमादनश्रृङ्गेषु कुबेरः सह राक्षसैः ॥
संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः ।
गन्धमादनपार्श्वे तु पर त्वपरगण्डिकाः ॥
एकादशसहस्राणि वर्षाणां परमायुषः । तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः ।
स्त्रियश्चोत्पलवर्णाभाः सर्वाः सुप्रियदर्शनाः ॥
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् ।
वर्षमैरष्वतं राजन्नानाजनपदावृतम् ॥
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे ।
इलावृत्तं मध्यमं तु पञ्च दीर्घाणि चैव हि ॥
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ।
आयुःप्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ॥
समन्वितानि भूतानि तेषु वर्षेषु भारत ।
एवमेषा महाराज पर्वतैः पृथिवी चिता ॥
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः । 6-6-41bयत्र वैश्रवणो राजन्गुह्यकैः सह मोदते ॥
तत्र देवो महादेवो नित्यमास्ते सहोमया ।
शीते शिलातले रम्ये देवर्षिगणपूजितःक ॥
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति ।
हिरण्यश्रृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥
तस्य पार्श्वे महद्दिव्यं शुभ्रं काञ्चनवालुकम् ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ।
यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः ॥
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ।
स्रष्टा भूतपतिर्यत्र सर्वलोकान्सनातनान् ॥
उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः ।
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥
तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता ।
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ॥
वस्वौकसारा नलिनी पावनी च सरस्वती ।
जम्बूनदी च सीता च गङ्गा सिंधुश्च सप्तमी ॥
अचिन्त्या दिव्यसंकाशा प्रभोरेषैव संविधिः ।
उपासते यत्र सत्रं सहस्रयुगपर्यये ॥
दृश्याऽदृश्या च भवति तत्र तत्र सरस्वती ।
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ॥
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः ।
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ॥
देवासुराणां सर्वेषां श्वेतपर्वत उच्यते । गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा ।
श्रृङ्गवांस्तु महाराज देवानां प्रतिसंचरः ॥
इत्येतानि महाराज सप्त वर्षाणि भागशः ।
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी ।
अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता ॥
यां तु पृच्छसि मां राजन्दिव्यामेतां शशाकृतिम् । पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे ।
कर्णौ तु शाकद्वीपश्च काश्यपद्वीप एव च ॥
ताम्रपर्णीशिरो राजञ्छ्रीमान्मलयपर्वतः ।
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि षष्ठोऽध्यायः ॥

6-6-6 एवं दक्षिणां दिशमारभ्य यावदुत्तरसमाप्ति षट्प्राक्पश्चिमास्थानानि भवन्ति । तेषां स्थानानां वर्षाख्यानामन्तरमाह एषामिति । विष्कम्भो विस्तारः ॥ 6-6-7 वसन्त्येषु तानि वर्षाणीति योगान्तरमाह वसन्तीति । हिमवतो दक्षिणे भारतं वर्षं उत्तरतो हैमवतं वर्षं द्वितीयम् । अस्यैव नामान्तरं किंपुरुषावासमिति ॥ 6-6-8 हेमकूटनिषधयोर्मध्ये हरिवर्षम् । निषधनीलयोर्मध्ये वर्षविभागमाह दक्षिणेनेति । दक्षिणेन दक्षिणतः समीप इत्यर्थः । एवमुत्तरेणेत्यादौ ज्ञेयम् ॥ 6-6-9 नीलनिषधयोर्मध्ये मेरुस्तस्य प्राक् माल्यवान् पूर्वसमुद्रावधिः । पश्चिमसमुद्रावधिर्गन्धमादन इत्यर्थः ॥ 6-6-12 तस्य पार्श्वेष्विति । पार्श्वेषु चतुर्दिक्षु । द्वीपा इव द्वीपाः नद्यन्तरत्वाद्वर्षाणि ॥ 6-6-13 भद्राश्वादिसाहचर्याज्जम्बूद्वीपशब्दोऽत्र भरतवर्षपरस्तस्य तत्सारत्वज्ञापनार्थः । तानेव स्तौति कृतपुण्यप्रतिश्रया इत्यादिना । कृता विहिताः पुण्यैः पुण्यवद्भिः प्रतिश्रया आश्रमा येषु ते ॥ 6-6-16 तं मेरुमादित्योऽनुपर्येति प्रदक्षिणीकरोति ॥ 6-6-22 काव्यः कविश्रेष्ठः शुक्रो रमत इति शेषः । तस्य काव्यस्य ॥ 6-6-23 तस्मात् काव्यात् । ततः कुबेरात् । कलांशं षोडशभागस्यापि लेशम् ॥ 6-6-28 क्षीरवत् श्वेता धारा यस्याः सा गङ्गा । विश्वरूपा विश्वो विष्णुस्तद्रूपा । तथाच स्मरन्ति- योसौ सर्वगतो विष्णुश्चित्वरूपी निरञ्जनः । स एव द्रवरूपेण गाङ्गाम्भो कनात्र संशय इति ॥ 6-6-30 तयैव प्रवेगेन मेरुप्राकारात् पतनजनितबलेन खनन्त्या स ह्रद उत्पादित इति संबन्धः ॥ 6-6-35 अपरगण्डिकाः अन्ये गन्धमादनस्यैवावयवभूता बुद्बुदोपमाः क्षुद्रशैलाः । गण्डो भूषणबुद्ब्रदे इति मेदिनी । स्वार्थिकः कः ॥ 6-6-36 उत्पलवर्णेन आभान्ति ताः उत्पलवर्णाभाः ॥ 6-6-37 एवं हिमवतो दक्षिणे भरतवर्षं । तदुत्तरे हैमवतं वर्ष । हेमकूटादुत्तरे हरिवर्षं । निषधादुत्तरे नीलाच्च दक्षिणे मेरोः परित इलावृतमेकमेव चतुर्थं वर्षं । अत्रैव केचिद्भद्राश्वकेतुमालयोर्वर्ष्नान्तरत्वं प्रकल्प्य नववर्षाणीत्याचक्षते । ततो नीलात्पर्वतात् उत्तरतः श्वेतं पञ्चमं वर्षं । श्वेतात्पर्वतादुत्तरतो हैरण्यकं वर्षं षष्ठम् । ततः शृङ्गवत्पर्वतात् ऐरावतं सप्तमं वर्षम् ॥ 6-6-38 धनुःसंस्थे धनुराकारे । एवमाकारं दक्षिणे भरतवर्षं उत्तरे ऐरावतं च मध्ये पञ्चेति सप्तवर्षाणि ॥ 6-6-41 हेमेति हेमकूटएव कैलासः तस्योत्तरे मैनाकः तस्योत्तरतो हिरण्यशृङ्गः एतयोरन्तराले बिन्दुसरोऽस्तीति श्लोकत्रयार्थः ॥ 6-6-50 प्रभोरीश्वरस्य एष सप्तनद्यात्मकः संविधिः समीचीनं लोकोपकारार्थं विधानम् । एषैवेति संधिरार्षः ॥ 6-6-53 श्वेतपर्वतः स्थानमिति शेषः । गन्धर्वा वसन्तीति शेषः । प्रतिसंचरः व्यवहारस्थानम् ॥ 6-6-54 इतीति । वर्षाणि तत्र उपनिविष्टानि गतिमन्ति जङ्गमानि ध्रुवाणि स्थावराणि च सर्वाणि भूतान्येव । सर्वं दृश्यं आश्रयाश्रितरूपं पाञ्चभौतिकमेवेत्यर्थः ॥ 6-6-55 बुभूषता श्रेयःप्राप्तुमिच्छता श्रद्धेया ॥