अध्यायः 109

भीष्मदुर्योधनसंवादः ॥ 1 ॥ भीष्मपराक्रमवर्णनम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् ।
पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधाः ।
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥
कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि ।
अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः ॥
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना ।
कच्चिन्न रथमद्गोऽस्व धनुर्वाऽशीर्यतास्थतः ॥
सञ्जय उवाच ।
नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत् । युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ ।
निघ्नतः समरे शत्रून्शरैः सन्नतपर्वभिः ॥
अनेकशतसाहस्रावकानां महारथाः ।
तथा दन्तिगणा राजन्हायश्चैव सुसञ्जिताः ॥
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥
यथाप्रतिज्ञं कौरव्य स चापि समिर्तिजयः ।
पार्यानामकरोद्भीष्मः सततं समिति क्षयम् ॥
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः ।
पाञ्चालाः पाण्डवैः सार्ध सर्वतः पर्यवारयन् ॥
दशमेऽहनि संप्राप्ते ततस्तां रिपुवाहिनीम् ।
कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज ।
अशक्नुवन्रणे जेतुं पाशहस्तमिवानतकम् ॥
अथोपायान्महाराज सव्यसाची धनञ्जयः ।
त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ॥
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः ।
शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥
तस्य शब्देन वित्रस्तास्तावका भारतर्षभ ।
सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ॥
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् ।
दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः ।
दहते मामकान्सर्वान्कृष्णवर्त्मेन काननम् ॥
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः ।
पण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ॥
यथा पशुगणान्पालः संकालयति कानने ।
तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥
धनञ्जयशरैर्भग्नं द्रवमाणं ततस्ततः ।
भीमोऽप्येवं दुराधर्पो विद्रावयति मे बलम् ॥
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ ।
अभिमन्युः सुविक्रान्तो वाहिनीं द्रवते मम ॥
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः ।
व्यद्रावयेतां सहसा सैन्यं मम महारणे ॥
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महारथैः ।
नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रमम् ।
पर्याप्तस्तु भवाञ्शीघ्रं पीडितानां गतिर्भव ॥
सञ्जय उवाच ।
एवमुक्तो महाराज पिता देवव्रतस्तव ।
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥
तव संधारयन्पुत्रमब्रवीच्छंतनोः सुतः ।
दुर्योधन विजानीहि स्थिरो भूत्वा विशांपते ॥
`पातयिष्ये रिपूनन्यान्पाण्डवान्प्रतिपालयन् । प्रतिज्ञातो जयो ह्यद्य पाण्डवानां महात्मनाम् ॥'
पूर्वकालं तव मया प्रतिज्ञानं महाबल ।
हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम् ॥
संग्रामादपयास्यामि ह्येतत्कर्म समाहितम् ।
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥
अद्य चापि महत्कर्म प्रकरिष्ये यथाबलम् ।
अहं वाऽद्य हतः शेष्ये हनिष्ये वाऽद्य पाण्डवान् ॥
`अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ।' किं पुनर्मर्त्यधर्मेण क्षत्रियेण महाबलाः ॥
अद्य ते पुरुषव्याघ्र प्रतरिष्ये ऋणं तव ।
भर्तृपिण्डकृतं राजन्निहताः पृतनामुखे ॥
सञ्जय उवाच ।
इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान्प्रवपञ्छरैः ।
आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भारतर्षभ ।
आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन् ॥
दशमेऽहनि भीष्मस्तु दर्शयञ्शक्तिमात्मनः ।
राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥
पाञ्चालानां च ये श्रेष्ठा राजपुत्रा महारथाः ।
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ॥
हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम् ।
सारोहाणां महाराज हयानां चायुतं तथा ॥
पूर्णे शतसहस्रे द्वे पादातानां नरोत्तमः ।
प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥
न चैवं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् ।
उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥
ते पाण्डवेवाः संरब्धा महेष्वासेन पीडिताः ।
वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ॥
स वध्यमानो बहुभिर्भीष्मः शान्तनवस्तथा ।
अवकीर्णो महेष्वासैः शैलो मेघैरिवावृतः ॥
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् ।
महत्या सेनया सार्धं ततो युद्धमवर्तत ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे नवाधिकशततमोऽध्यायः ॥

6-109-8 समितिंजयः संग्रामजित् । समिति युद्धे ॥ 6-109-20 द्रवते द्रावयति ॥ 6-109-22 गतिं धाम । आश्रयमिति यावत् । स्थाने अवस्थाने ॥ 6-109-29 शेष्ये स्वप्स्यामि ॥