अध्यायः 110

अर्जुनदुःशासनयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् ।
शिखण्डिनमथोवाच समभ्योहि पितामहम् ॥
न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन ।
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥
सञ्जय उवच ।
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः ।
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥
विराटद्रुपदौ वृद्धौ कुन्तिभोजस्य दंशितः । अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ।
नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ॥
तथेतराणि सैन्यानि सर्वाम्येव विशांपते ।
समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥
प्रत्युद्ययुस्तावकाश्च समेतांस्तान्महारथान् ।
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ॥
चित्रसेनो महाराज चेकितानं समभ्यायात् ।
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ॥
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् ।
त्वरमाणं रणे यत्तं कृतवर्मा न्यवरायत् ॥
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् ।
त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ॥
तथैव नकुलं शूरं किरन्तं सायकान्बहून् ।
विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ॥
सहदेवं तथा राजन्यान्तं भीष्मरथं प्रति ।
वारयामास संक्रुद्धः कृपः शारद्वतो युधि ॥
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् ।
भीष्मस्य निधनप्रेप्सुं दुर्मुखोऽभ्यज्रवद्बली ॥
सात्यकिं समरे क्रुद्धमार्स्यशृङ्गिवारयत् । `भीष्मस्य वधमिच्छन्तं पाण्डवप्रीतिकाम्यया'
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति ।
सुदक्षिणो महाराज काम्भोज प्रत्यवारयत् ॥
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ ।
अश्वत्थामा ततः क्रुद्धो वारयामास भारत ॥
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् ।
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ॥
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् ।
भीष्मप्रेप्सुं महाराज भासयन्तं दिशो दश ॥
दुःशासनो महेष्वासो वारयामास संयुगे ।
अन्ये च तावका योधाः पाण्डवानां महारथान् ॥
भीष्मस्याभिमुखान्यातान्वारयामासुराहवे ।
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशंस्तु पुनः पुनः ॥
अभ्यद्रवत संरब्धो भीष्ममेकं महारथः ।
एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः ॥
अभ्यद्रवत माभैष्ट भीष्मो हि प्राप्स्यते न वः ।
अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः ॥
किमु भीष्मो रणे वीरा गतसत्वोऽल्पजीवितः ।
इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः ॥
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति ।
आगच्छतस्तान्समरे वार्योघानचला इव ॥
अवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः ।
दुःशासनो महाराज भयं त्यक्त्वा महारथः ॥
भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् । 6-110-26bतथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति ॥
अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथाः ।
तत्राद्भुतमपश्याम चित्ररूपं विशांपते ॥
दुःशासनरथं प्राप्य यत्पार्थो नात्यवर्तत ।
यथा वारयते वेला क्षुब्धतोयं महार्णवम् ॥
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् ।
उभौ तौ रथिनां श्रेष्ठावुभौ भारतदुर्जयौ ॥
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत ।
तथा तौ जातसंरम्भावन्योन्यवधकाङ्क्षिणौ ॥
समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा ।
दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः ॥
वासुदेवं च विंशत्या ताडयामास संयुगे ।
ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् ॥
दुःशासनं शतेनाजौ नाराचानां समार्पयत् ।
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥
` यथैव पन्नगा राजंस्तटाकं तृषितास्तथा ।' दुःशासनस्त्रिभिः क्रुद्धः पार्थं विव्याध पत्रिभिः ।
ललाटे भरतश्रेष्ठ शरैः सन्नतपर्वभिः ॥
ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवो रणे ।
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ॥
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना ।
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ॥
दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः ।
पर्वणीव सुसंक्रुद्धो राहुः पूर्णं निशाकरम् ॥
पीड्यमानो बलवता पुत्रस्तव विशांपते ।
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥
तस्य पार्थो धनुश्छित्वा रथं चास्य त्रिभिः शरैः ।
आजघान ततः पश्चात्पुत्रं ते निशितैः शरैः ॥
सोऽन्यत्कार्मुकमादाय भीमस्य प्रमुखे स्थितः ।
अर्जुनं पञ्चाविंशत्या बाह्वोरुरसि चार्पयत् ॥
तस्य क्रुद्धो महाराज पाण्डवः शत्रुतापनः ।
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥
अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव ।
यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ॥
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव ।
ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके ॥
प्रेषयामास समरे स्वर्णपुङ्खाञ्छिलाशितान् ।
न्यमञ्जंस्ते महाराज तस्य काये महात्मनः ॥
यथा हंसा महाराज तटाकं प्राप्य भारत ।
पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ॥
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाव्रजत् ।
अगाधे मञ्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥
प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशांपते ।
अवारयत्ततः शूरो भूय एव पराक्रमी ॥
शरैः सुनिशितैः पार्थं यथा वृत्रं पुरन्दरः ।
निर्बिभेद महाकायो विव्यथे नैव चार्जुनः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे दशाधिकशततमोऽध्यायः ॥

6-110-18 रभसं कृतोत्साहम् ॥ 6-110-24 प्रलयानिव इति पाठे प्रलयाकालीनानिव ॥ 6-110-27 अद्भुतं अभूतपूर्वम् ॥ 6-110-31 यमशक्रौ इति पाठान्तरम् ॥ 6-110-41 अप्रैषीत् । उपसर्गात्पूर्वोऽडगामस्तु छान्दसः । एवमन्यत्रापि ॥ 6-110-46 द्वीप आश्रयः ॥