अध्यायः 111

द्वन्द्वयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे ।
आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥
माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः ।
आजघान रणे राजन्प्रहसन्निव भारत ॥
तथैव राक्षसो राजन्माधवं नवभिः शरैः ।
अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुङ्गवम् ॥
शैनेयः शरसङ्घं तु प्रेषयामास संयुगे ।
राक्षसाय सुसंक्रुद्धो माधवः परवीरहा ॥
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् ।
विव्याध विशिखैस्तीक्ष्णैः सिंहनाद ननाद च ॥
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा ।
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः ।
ताडयामास समरे तोत्रैरिव महागजम् ॥
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः ।
प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः ।
चिच्छेद शतधारेण भल्लेन कृतहस्तवत् ॥
अथान्यद्धनुरादाय वेगवत्परवीरहा ।
भगदत्तं रणे क्रुद्धं विव्याध निशितैः शरैः ॥
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् ।
शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ॥
यमदण्डोपमां घोरां चिक्षेप परमाहवे ।
तामापतन्तीं सहसा तस्य बाहुबलेरिताम् ॥
सात्यकिः समरे राजन्द्विधा चिच्छेद सायकैः ।
ततः पपात सहसा सहोल्केव हतप्रभा ॥
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशांपते ।
महता रथवंशेन वारयामास माधवम् ॥
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् ।
दुर्योधनो भृशं क्रुद्धो भ्रातॄन्सर्वानुवाच ह ॥
तथा कुरुत कौरव्या यथाः वः सात्यको युधि ।
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ॥
तस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ।
तथेति च वचस्तस्य परिगृह्य महारथाः ॥
शैनेयं योधयामासर्भीष्मायाभ्युद्यतं रणे । `अभिमन्युं तदाऽऽयान्तं भीष्मस्याभ्युद्यतं वधे ।'
काम्भोजराजो बलवान्वारयामास संयुगे ॥
आर्जुनिं नृपतिर्विद्ध्वा शरैः सन्नतपर्वभिः ।
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृप ॥
सुदक्षिणस्तु समरे पुनर्विव्याध तं पञ्चभिः ।
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥
तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे ।
यदाभ्यधावद्गाङ्गेयं शिखण्डी शत्रुकर्शनः ॥
विराटद्रुपदौ वृद्धौ वारयनतौ महाचमूम् ।
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥
अश्वत्थामा रणे क्रुद्धः समियाद्रथसत्तमः ।
ततः प्रववृते युद्धं तयोस्तस्य च भारत ॥
विराटो दशभिर्भल्लैराजघान परंतप ।
यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा ।
गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ ॥
अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः ।
विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ ॥
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् ।
यद्द्रौणिसायकान्घोरान्प्रत्यवारयतां युधि ॥
सहदेवं तथाऽऽयान्तं कृपः शारद्वतोऽभ्ययात् ।
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥
कृपश्च समरे शूरो माद्रीपुत्रं महारथम् ।
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः ।
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् ।
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ॥
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ।
तथैव पाण्डवो राजञ्छारद्वतममर्षणम् ॥
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ।
तयोर्युद्धं समभवद्धोररूपं भयावहम् ॥
नकुलं तु रणे क्रुद्धो विकर्णः शत्रुतापनः ।
विव्याध सायकैः षष्ट्या रक्षन्भीष्मं महाबलम् ॥
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धीमता ।
विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥
तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ ।
अन्योन्यं जघ्नुतुर्वीरौ गोष्ठे गोवृषभाविव ॥
घटोत्कचं रणे यान्तं निघ्नन्तं तव वाहिनीम् ।
दुर्मुखः समरे प्रायाद्भीष्यहेतोः पराक्रमी ॥
हैडिम्बस्तु रणे राजन्दुर्मुखं शत्रुतापनम् ।
आजघानोरसि क्रुद्धः शरेणानतपर्वणा ॥
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः ।
षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥
धृष्टद्युम्नं तथाऽऽयान्तं भीष्मस्य वधकाङ्क्षिणम् ।
हार्दिक्यो वारयामास रथश्रेष्ठं महारथः ॥
हार्दिक्यः पार्षतं चापि विद्ध्वा पञ्चभिरायसैः ।
पुनः पञ्चाशता तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥
आजघान महाबाहुः पार्षतं तं महारथम् ।
तं चैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः ॥
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्नगैः ।
तयोः समभवद्युद्धं भीष्महेतोर्महाहवे ॥
अन्योन्यातिशये युक्तं यथा वृत्रमहेन्द्रयोः ।
भीमसेनं तथाऽऽयान्तं भीष्मं प्रति महारथम् ॥
भूरिश्रवाभ्ययात्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ।
सौमदत्तिरथो भीममाजघान स्तनान्तरे ॥
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ।
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् ॥
स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ।
तौ शरान्सूर्यसंकाशान्कर्मारपरिमार्जितान् ॥
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपते नरर्षभौ ।
भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् ॥
तथा भीष्मजये गृध्नुः सौमदत्तिस्तू पाण्डवम् ।
कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥
युधिष्ठिरं तु कौन्तेयं महत्या सेनया वृत्तम् ।
भीष्माभिमुखमायान्तं भारद्वाजो न्यवारयत् ॥
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् ।
श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे ।
द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥
चेकितान रणे यत्तं भीष्मं प्रति जनेश्वर ।
चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥
भीष्महेतोः पराक्रान्तश्चित्रसेनः पराक्रमी ।
चेकितानं परं शक्त्या योधयामास भारत ॥
तथैव चेकितानोऽपि चित्रसेनमवारयत् ।
तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे ॥
अर्जुनो वार्यमाणस्तु बहुशस्तत्र भारत ।
विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह ॥
दुःशासनोऽपि परया शक्त्या पार्थमवारयत् ।
कथं भीष्मं न नो हन्यादिति निश्चित्य भारत ॥
सा वध्यमाना समरे पुत्रस्य तव वाहिनी ।
लोड्यते रथिभिः श्रेष्ठैस्तत्रतत्रैव भारत ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशदिवसयुद्धे एकादशाधिकशततमोऽध्यायः ॥

6-111-58 लोड्यते आकुलीक्रियते ॥