अध्यायः 116
संकुलयुद्धवर्णनम् ॥ 1 ॥
सञ्जय उवाच । 
					अभिमन्युर्महाराज तव पुत्रमयोधयत् ।
						महत्या सेनया युक्तं भीष्महेतोः पराक्रमी ॥
					दुर्योधनो रणे कार्षिं नवभिर्नतपर्वभिः ।
						आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥
					तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम् ।
						प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ॥
					तामापतन्तीं सहसा घोररूपां विशांपते ।
						द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥
					तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः ।
						दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥
					पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे ।
						दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥
					तद्युद्धमभवद्धोरं चित्ररूपं च भारत ।
						ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम् ॥
					भीष्मस्य निधनार्थाय पार्थस्य विजयाय च ।
						युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ॥
					सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः ।
						आजघानोरसि क्रुद्धो नाराचेन परंतपः ॥
					शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत ।
						अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥
					अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः ।
						त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥
					सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्यकिः ।
						द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥
					पौरवो धृष्टकेतुं च शरैराच्छाद्य संयुगे ।
						बहुधा दारयांचक्रे महेष्वासं महारथः ॥
					तथैव पौरवं युद्धे धृष्टकेतुर्महारथः ।
						त्रिंशता निशितैर्बाणैर्विव्याधाशु महाभुजः ॥
					पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः ।
						ननाद बलवन्नादं विव्याध च शितैः शरैः ॥
					सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः ।
						आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥
					तौ तु तत्र महेष्वासौ महामात्रौ महारथौ ।
						महता शरवर्षेण परस्परमवर्षताम् ॥
					अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत ।
						विरथावसियुद्धाय समीयतुरमर्षणौ ॥
					आर्षभे चर्मणी चित्रे शतचन्द्रपुरस्कृते ।
						तारकाशतचित्रे च निस्त्रिंशौ सुमहाप्रभौ ॥
					प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ ।
						वासितासंगमे यत्तौ सिंहाविव महावने ॥
					मण्डलानि विचित्राणि गतप्रत्यागतानि च ।
						चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥
					पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना ।
						ताडयामास संक्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥
					चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् ।
						आजघान शिताग्रेण जत्रुदेशे महासिना ॥
					तावन्योन्यं महाराज समासाद्य महाहवे ।
						अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥
					ततः स्वरथमारोप्य पौरवं तनयस्तव ।
						जयत्सेनो रथेनाजावपोवाह रणाजिरात् ॥
					धृष्टकेतु तु समरे माद्रीपुत्रः प्रतापवान् ।
						अपोवाह रणे क्रुद्धः सहदेवः पराक्रमी ॥
					चित्रसेनः सुशर्माणं विद्ध्वा बहुभिरायसैः ।
						पुनर्विव्याध तं षष्ट्या पुनश्च नवभि शरैः ॥
					सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशांपते ।
						दशमिर्दशभिश्चैव विव्याध निशितैः शरैः ॥
					चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वभिः ।
						आजघान रमे क्रुद्धः स च तं प्रत्यविध्यत ॥
					भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ।
						सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ॥
					पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति ।
						आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ॥
					पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः ।
						सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः ॥
					नाकम्पयत संग्रामे विव्याध च पुनः शरैः ।
						कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः ॥
					आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः ।
						सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ॥
					फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ।
						तयोर्युद्धं समभवद्भीष्महेतोः परंतप ॥
					संरब्धयोर्महाराज समरे चित्रयोधिनोः ।
						यथा देवासुरे युद्धे बलिवासवयोरभूत् ॥
					भीमसेनो गजानीकं योधयन्बह्वशोभत ।
						यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥
					ते वध्यमाना भीमेन मात्गा गिरिसन्निभाः ।
						निपेतुरुर्व्यां सहिता नादयन्तो वसुधराम् ॥
					गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः ।
						विरेजुर्वसुधां प्राप्ता विकीर्णा इव पर्वताः ॥
					युधिष्ठिरो महेष्वासो मद्रराजानमाहवे ।
						महत्या सेनया गुप्तं पीडयामास संगतम् ॥
					मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् ।
						पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥
					विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः ।
						नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरार्पयत् ॥
					विराटश्च महाराज सैन्धवं वाहिनीपतिः ।
						त्रिंशद्भिर्निशितैर्बाणैराजघान स्तनान्तरे ॥
					चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ ।
						रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ॥
					द्रोणः पाञ्चालपुत्रेण समागम्य महारणे ।
						महासमुदयं चक्रे शरैः सन्नतपर्वभिः ॥
					ततो द्रोणो महाराज पार्षतस्य महद्धनुः ।
						छित्त्वा पञ्चाशतेषूंश्च पार्षतं प्रति सृष्टवान् ॥
					सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा ।
						द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥
					ताञ्छराञ्छरघातेन चिच्छेद स महारथः ।
						द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥
					ततः क्रुद्धो महाराज पार्षतः परवीरहा ।
						द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥
					तामापतन्तीं सहसा हेमपट्टविभूषिताम् ।
						शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥
					सा छिन्ना बहुधा राजन्द्रोगचापच्युतैः शरैः ।
						चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥
					गदां विनिहतां दृष्ट्वा पार्षतः शत्रुतापनः ।
						द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥
					तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत ।
						पार्षतं च महेष्वासं पीजयामास संयुगे ॥
					एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत् ।
						भीष्मं प्रति महाराज घोररूपं भयानकम् ॥
					अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः ।
						अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम् ॥
					प्रत्युद्ययौ च तं राजा भगदत्तः प्रतापवान् ।
						त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥
					तमापतन्तं सहसा महेन्द्रगजसन्निभम् ।
						परं यत्नं समस्थाय बीभत्सुः प्रत्यपद्यत ॥
					ततो गजगतो राजा भगदत्तः प्रतापवान् ।
						अर्जुनं शरवर्षेण वारयामास संयुगे ॥
					अर्जुनस्तु ततो नागमायान्तं रजतोपमैः ।
						विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥
					शिखण्डिनं च कौन्तेयो याहियाहीत्यचोदयत् ।
						भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥
					प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज ।
						प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥
					ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् ।
							शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ।
						
					ततस्ते तावकाः शूराः पाण्डवं रभसं युधि ।
						समभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥
					नानाविधान्यनीकानि पुत्राणां ते जनाधिप ।
						अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥
					शिखण्डी तु समासाद्य भरतानां पितामहम् ।
						इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥
					रथाग्न्यगारश्चापार्चिरशिशक्तिगदेन्धनः ।
						शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् ॥
					यथाऽग्निः सुमहानिद्धः कक्षे चरति सानिलः ।
						तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥
					सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् ।
						न्यवारयत तत्सैन्यं पाण्डवस्य महारथः ॥
					सुवर्णपुङ्खैरिषुभिः शितैः सन्नतपर्वभिः ।
						नादयन्स दिशो भीष्मः प्रदिशश्च महाहवे ॥
					पातयन्रथिनो राजन्हयांश्च सह सादिभिः ।
						मुण्डतालवनानीव चकार स रथव्रजान् ॥
					निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे ।
						चकार समरे भीष्मः सर्वशस्त्रभृतां वरः ॥
					तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
						निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥
					अघोमा न्यपतन्बाणाः पितुस्ते मनुजेश्वर ।
						नासञ्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥
					निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः ।
						वातायमानानद्राक्षं ध्रियमाणान्विशांपते ॥
					चेदिकाशिकरूशानां सहस्राणि चतुर्दश ।
						महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥
					अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः ।
						संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ॥
					जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ।
						न तत्रासीद्रणे राजन्सोमकानां महारथः ॥
					यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे ।
						तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति ॥
					नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ।
						न कश्चिदेनं समरे प्रत्युद्याति महारथः ॥
					ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ।
						शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥ ॥
					इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे षोडशाधिकशततमोऽध्यायः ॥
6-116-27 चित्रसेन इति । पाण्डवपक्षीयः सुशर्मायमपरो वार्धक्षेमिर्नतु त्रैगर्तः ॥ 6-116-45 समुदयं संग्रामम् । भवेत्समुदयः सङ्घे संयुगे च समुद्रमे इति मेदिनी ॥
