अध्यायः 013

सञ्जयेन धृतराष्ट्रंप्रति भीष्महननकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
अथ गावल्गणिर्विद्वान्संयुगादेत्य भारत ।
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥
ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः ।
आचष्ट निहतं भीष्मं भरतानां पितामहम् ॥
सञ्जय उवाच ।
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ ।
हतो भीष्मः शान्तनवो भरतानां पितामहः ॥
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् ।
शरतल्पगतः सोऽद्य शेते कुरुपितामहः ॥
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् ।
स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना ॥
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे ।
जिगायैकरथेनैव काशिपुर्यां महारथः ॥
जामदग्न्यं रणे रामं योऽयुध्यदपसंभ्रमः ।
न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव ।
समुद्र इव गाम्भीर्यो सहिष्णुत्वे धरासमः ॥
शरदंष्ट्रो धनुर्वक्रः खङ्गिजिह्वो दुरासदः ।
नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥
पाण्डवानां महासैन्यं यं दृष्ट्वोद्यतमाहवे ।
प्रावेपत भयोद्विग्नं सिंह दृष्ट्वेव गोगणः ॥
परिरक्ष्य स सेनां ते दशरात्रमनीकहा ।
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः ।
जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥
स शेते निहतो भूमौ वातभग्न इव द्रुमः ।
तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयोदशोऽध्यायः ॥

6-13-4 ककुदं राज्ञां मध्ये ध्वजतुल्यम् । धाम तेजः ॥ 6-13-7 अपसंभ्रमो निर्भयः ॥