अध्यायः 024

सञ्जयेनोभयसेनयोरभ्युदयवर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय ।
उदग्रमनसः के वा के वा दीना विचेतसः ॥
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने ।
मामकाः पाण्डवेया वा तन्ममाचक्ष्व सञ्जय ॥
कस्य सेनासमुदये गन्धो माल्यसमुद्भवः ।
वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम् ॥
सञ्जय उवाच ।
उभयोः सेनयोस्तत्र योधा जहृषिरे तदा ।
स्रजः समाः सुगन्धानामुभयत्र समुद्भवः ॥
संहतानामनीकानां व्यूढानां भरतर्षभ ।
संसर्गात्समुदीर्णानां विमर्दः सुमहानभूत् ॥
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः ।
शूराणां रणशूराणां गर्जतामितरेतरम् ॥
उभयोः सेनयो राजन्महान्व्यतिकरोऽभवत् । अन्योन्यं वीक्षमाणानां योधानां भरतर्षभ ।
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुर्विशोऽध्यायः ॥