अध्यायः 035
पञ्चत्रिंशोऽध्यायः ॥ भगवद्गीताद्यायः ॥ 11 ॥
अर्जुन उवाच । 
					मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
						यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥
					भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
						त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥
					एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
						द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥
					मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
						योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥
						श्रीभगवानुवाच । 
					पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
						नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥
					पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
						बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत ॥
					इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
						मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥
					न तु मां शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
						दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥
						सञ्जय उवाच । 
					एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
						दर्शयामास पार्थाय मरमं रूपमैश्वरम् ॥
					अनेकवक्रनयनमनेकाद्भुतदर्शनम् ।
						अनेकदिव्याभारणं दिव्यानेकोद्यतायुधम् ॥
					दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
						सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥
					दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
						यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥
					तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
						अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥
					ततः स विस्मयाविष्टो हृष्टरोमा धऩञ्जयः ।
						प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥
						अर्जुन उवाच । 
					पश्यामि देवांस्तव देव देहे
							सर्वांस्तथा भूतविशेषसङ्घान् ।
						
						ब्रह्माणमीशं कमलासनस्थ-
							मृषींश्च सर्वानुरगांश्च दिव्यान् ॥
						
					अनेकबाहूदरवक्रनेत्रं
							पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
						
						नान्तं न मध्यं न पुनस्तवादिं
							पश्यामि विश्वेश्वर विश्वरूप ॥
						
					किरीटिनं गदिनं चक्रिणं च
							तेजोराशिं सर्वतो दीप्तिमन्तम् ।
						
						पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-
							द्दीप्तानलार्कद्युतिमप्रमेययम् ॥
						
					त्वमक्षरं परमं वेदितव्यं
							त्वमस्य विश्वस्य परं निधानम् ।
						
						त्वमव्ययः शाश्वतधर्मगोप्ता
							सनातनस्त्वं पुरुषो मतो मे ॥
						
					अनादिमध्यान्तमनन्तवीर्य-
							मनन्तबाहुं शशिसूर्यनेत्रम् ।
						
						पश्यामि त्वां दीप्तहुताशवक्रं
							स्वतेजसा विश्वमिदं तपन्तम् ॥
						
					द्यावापृथिव्योरिदमन्तरं हि
							व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
						
						दृष्ट्वाद्भुतं रूपमुग्रं तदेवं
							लोकत्रयं प्रव्यथितं महात्मन् ॥
						
					अमी हि त्वा सुरसङ्घा विशन्ति
							केचिद्भीताः प्राञ्जलयो गृणान्ति ।
						
						स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
							स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥
						
					रुद्रादित्या वसवो ये च साध्या
							विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
						
						गन्धर्वयक्षासुरसिद्धसङ्घा
							वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥
						
					रूपं महत्ते बहुवक्रनेत्रं
							महाबाहो बहुबाहूरुपादम् ।
						
						बहूदरं बहुदंष्ट्राकरालं
							दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥
						
					नभःस्पृशं दीप्तमनेकवर्णं
							व्यात्ताननं दीप्तविशालनेत्रम् ।
						
						दृष्ट्वा हि त्वा प्रव्यथितान्तरात्मा
							धृतिं न विन्दामि शमं च विष्णो ॥
						
					दंष्ट्राकरालानि च ते सुखानि
							दृष्ट्वैव कालानलसन्निभानि ।
						
						दिशो न जाने न लभे च शर्म
							प्रसीद देवेश जगन्निवास ॥
						
					अमी च त्वां धृतराष्ट्रस्य पुत्राः
							सर्वे सहैवावनिपालसङ्घैः ।
						
						भीष्मो द्रोणः सूतपुत्रस्तथासौ
							सहास्मदीयैरपि योधमुख्यैः ॥
						
					वक्राणि ते त्वरमाणा विशन्ति
							दंष्ट्राकरालानि भयानकानि ।
						
						केचिद्विलग्ना दशनान्तरेषु
							संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥
						
					यथा नदीनां बहवोऽम्बुवेगाः
							समुद्रमेवाभिमुखा द्रवन्ति ।
						
						तथा तवामी नरलोकवीरा
							विशन्ति वक्राण्यभिविज्वलन्ति ॥
						
					यथा प्रदीप्तं ज्वलनं पतङ्गा
							विशन्ति नाशाय समृद्धवेगाः ।
						
						तथैव नाशाय विशन्ति लोका-
							स्तवापि वक्राणि समृद्धवेगाः ॥
						
					लेलिह्यसे ग्रसमानः समन्ता-
							ल्लोकान्समग्रान्वदनैर्ज्वलद्भिःक ।
						
						तेजोभिरापूर्य जगत्समग्रं
							भासस्तवोग्राः प्रतपन्ति विष्णो ॥
						
					आख्याहि मे को भवानुग्ररूपो
							नमोऽस्तु ते देववर प्रसीद ।
						
						विज्ञातुमिच्छामि भवन्तमाद्यं
							न हि प्रजानामि तव प्रवृत्तिम् ॥
						
						श्रीभगवानुवाच । 
					कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
							लोकान्समाहर्तुमिह प्रवृत्तः ।
						
						ऋतेऽपि त्वा न भविष्यन्ति सर्वे
							येऽवस्थिताः प्रत्यनीकेषु योधाः ॥
						
					तस्मात्त्वमुत्तिष्ठ यशो लभस्व
							जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।
						
						मयैवैते निहताः पूर्वमेव
							निमित्तमात्रं भव सव्यसाचिन् ॥
						
					द्रोणं च भीष्मं च जयद्रथं च
							कर्णं तथान्यानपि योधवीरान् ।
						
						मया हतांस्त्वं जहि माव्यथिष्ठा
							युद्ध्यस्व जेतानि रणे सपत्नान् ॥
						
						सञ्जय उवाच । 
					एतच्छ्रुत्वा वचनं केशवस्य
							कृताञ्जलिर्वेपमानः किरीटी ।
						
						नमस्कृत्वा भूय एवाह कृष्णं
							सगद्गदं भीतभीतः प्रणम्य ॥
						
						अर्जुन उवाच । 
					स्थाने हृषीकेश तव प्रकीर्त्या
							जगत्प्रहृष्यत्यनुरज्यते च ।
						
						रक्षांसि भीतानि दिशो द्रवन्ति
							सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥
						
					कस्माच्च ते न नमेरन्महात्मन्
							गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
						
						अनन्त देवेश जगन्निवास
							त्वमक्षरं सदसत्तत्परं यत् ॥
						
					त्वमादिदेवः पुरुषः पुराण-
							स्त्वमस्य विश्वस्य परं निधानम् ।
						
						वेत्ताऽसि वेद्यं च परं च धाम
							त्वया ततं विश्वमनन्तरूप ॥
						
					वायुर्यमोऽग्निर्वरुणः शशाङ्कः
							प्रजापतिस्त्वं प्रपितामहश्च ।
						
						नमो नमस्तेऽतु सहस्रकृत्वः
							पुनश्च भूयोऽपि नमो नमस्ते ॥
						
					नमः पुरस्तादथ पृष्ठतस्ते
							नमोऽस्तु ते सर्वत एव सर्व ।
						
						अनन्तवीर्यामितविक्रमस्त्वं
							सर्वं समाप्नोषि ततोऽसि सर्वः ॥
						
					सखेति मत्वा प्रसभं यदुक्तं
							हे कृष्ण हे यादव हे सखेति ।
						
						अजानता महिमानं तवेदं
							मया प्रमादात्प्रणयेन वाऽपि ॥
						
					यच्चापहासार्थमसत्कृतोऽसि
							विहारशय्यासनभोजनेषु ।
						
						एकोऽथवाप्यच्युत तत्समक्षं
							तत्क्षामये त्वामहमप्रमेयम् ॥
						
					पितासि लोकस्य चराचरस्य
							त्वमस्य पूज्यश् गुरुर्गरीयान् ।
						
						न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
							लोकत्रयेऽप्यप्रतिमप्रभावः ॥
						
					तस्मात्प्रणम्य प्रणिधाय कायं
							प्रसादये त्वामहमीशमीड्यम् ।
						
						पितेव पुत्रस्य सखेव सख्युः
							प्रियः प्रियायार्हसि देव सोढुम् ॥
						
					अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
							भयेन च प्रव्यथितं मनो मे ।
						
						तदेव मे दर्शय देव रूपं
							प्रसीद देवेश जगन्निवास ॥
						
					किरीटिनं गदिनं चक्रहस्त-
							मिच्छामि त्वां द्रष्टुमहं तथैव ।
						
						तेनैव रूपेण चतुर्भुजेन
							सहस्रबाहो भव विश्वमूर्ते ॥
						
						श्रीभगवानुवाच । 
					मया प्रसन्नेन तवार्जुनेदं
							रूपं परं दर्शितमात्मयोगात् ।
						
						तेजोमयं विश्वमनन्तमाद्यं
							यन्मे त्वदन्येन न दृष्टपूर्वम् ॥
						
					न वेद यज्ञाध्ययनैर्न दानै-
							र्न च क्रियाभिर्न तपोभिरुग्रैः ।
						
						एवंरूपः शक्य अहं नृलोके
							द्रष्टुं त्वदन्येन कुरुप्रवीर ॥
						
					मा ते व्यथा मा च विमूढभावो
							दृष्ट्वा रूपं घोरमीदृङ्भमेदम् ।
						
						व्यपेतभीः प्रीतमनाः पुनस्त्वं
							तदेव मे रूपमिदं प्रपश्य ॥
						
						सञ्जय उवाच । 
					इत्यर्जुनं वासुदेवस्तथोक्त्वा
							स्वकं रूपं दर्शयामास भूयः ।
						
						आश्वासयामास च भीतमेनं
							भूत्वा पुनः सौम्यवपुर्महात्मा ॥
						
						अर्जुन उवाच । 
					दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
						इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥
						श्रीभगवानुवाच । 
					सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
						देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥
					नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
						शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥
					भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
						ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥
					मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
						निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ॥
					इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि पञ्चत्रिंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः ॥
