अध्यायः 046
अभिमन्युना दुर्योधनसूनोर्लक्ष्मणस्य वधः ॥ 1 ॥
धृतराष्ट्र उवाच ।
यथा वदसि मे सूत एकस्य बहुभिः सह ।
सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः ॥
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् ।
किन्तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ॥
दुर्योधने च विमुखे राजपुत्रशते हते ।
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ॥
सञ्जय उवाच ।
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षणाः ।
पालयनकृतोत्साहा निरुत्साहा द्विष़ज्जये ॥
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान् ।
उत्सृज्योत्सृज्य सञ्जग्मुस्त्वरयन्तो हयद्विपान् ॥
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः ।
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ॥
अभ्यधावन्सुसङ्क्रुद्धाः सौभद्रमपराजितम् ।
ते तु पौत्रेण ते राजन्प्रायशो विमुखीकृताः ।
`सौभद्रेण महाराज शक्रप्रतिमतेजसा' ॥
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः ।
इष्वस्त्रविन्महातेजा लक्ष्मणोऽर्जुनिमभ्ययात् ॥
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत ।
अनुदुर्योधनं चान्ये न्यवर्तन्त महारथाः ॥
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः ।
स तु तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ॥
पौत्रं तव च दुर्धर्षं लक्ष्मणं प्रियदर्शनम् ।
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ॥
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् ।
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ।
`सिंहशाबो वने शश्वत्पुण्डरीकशिशुं यथा' ॥
लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा ।
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पयत् ॥
सङ्क्रुद्धौ वै महाराज दण्डाहत इवोरगः ।
पौत्रस्तव महाराज तव पौत्रमभाषत ॥
सुदृष्टः क्रियतां लोको ह्यमुं लोकं गमिष्यसि ।
पश्यतां बान्धवानां त्वां नयामि यमसादनम् ॥
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा ।
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसन्निभम् ॥
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् ।
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ॥
`पौत्रस्तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् ।
पितुः समीपे तिष्ठन्तं प्राहिणोद्यमसादनम् ॥
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम्' ।
लक्ष्मणां निहतं दृष्ट्वा हाहेत्युच्चुक्रुशुर्जनाः ॥
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते ।
हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ॥
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः ।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥
तांस्तु विद्धा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः ।
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ॥
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः ।
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ।
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशाम्पते ॥
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः ।
यथा वायुर्नित्यगतिर्जलदाञ्शतशोऽम्बरे ॥
ततः क्रुद्धाः शरव्रातै राजानः समवारयन् ।
अथेतरे सन्निवृत्ताः पुनर्द्रोणमुखा रथाः ।
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ॥
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमयोधयत् ।
शरौघेणाप्रमेयेण त्वरमाणो जिघौसया ॥
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः ।
सच्छत्रध्वजयन्तारं रथं चाश्वान्न्यपातयत् ॥
कुलशीलश्रुतिबलैः कीर्त्या चास्त्रबलेन च ।
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाऽभवन् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे षट््चत्वारिंशोऽध्यायः ॥ 46 ॥
5-46-3 प्रतिपत्तिं प्रतिविधानम् ॥ 5-46-10 विष्वग्वातोऽशेषदिग्वातः ॥ 5-46-17 केशान्तं केशैर्मनोहरम् । अन्तः प्रान्तेऽन्तिके मध्ये स्वरूपे च मनोहरे इत्यभिधानात् ॥ 5-46-23 धृष्टं प्रगल्भम् ॥ 5-46-46 षट््चत्वारिंशोऽध्यायः ॥
श्रीः