अध्यायः 048

द्रोणादिभिः षड्भिरभिमन्योर्विरथीकरणम् ॥ 1 ॥

सञ्जय उवाच ।
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः ।
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ॥
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः ।
शरैराचितसर्वाङ्गो बह्वशोभत भारत ॥
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् । कर्णोऽपि विबभौ शूरः शरैश्छिन्नोऽसृगातप्लुः ।
`सन्धानुगतपर्यन्तः शरदीव दिवाकरः' ॥
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ ।
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ॥
अथ कर्णस्य सचिवान्षट् शूरांश्चित्रयोधिनः ।
साश्वसूतध्वजरथान्सौभद्रो निजघान ह ॥
तथेतरान्महेष्वासान्दशभिर्दशभिः शरैः ।
प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत् ॥
मागधस्य तथा पुत्रं हत्वा षड्भिरजिह्मगैः ।
साश्वं ससूतं तरुणमश्वकेतुमपातयत् ॥
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् ।
क्षुरप्रेण समुन्मथ्य ननाद विसृजन्शरान् ॥
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् ।
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ॥
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः ।
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ॥
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा ।
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ॥
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् ।
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ॥
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् ।
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ॥
हृद्यसम्भ्रान्तवद्राजंस्तदद्भुतमिवाभवत् ।
तस्यार्जुनिर्ध्वजं छित्त्वा हत्वोभौ पार्ष्णिसारथी ॥
तं विव्याधायसैः षड्भिः सोपाक्रामद्रथान्तरम् ।
शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम् ॥
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ।
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् ॥
सर्व एनं विमथ्नीमः पुरैकैकं हिनस्ति नः ।
अथाब्रवीत्पुनर्द्रोणं कर्णो वैकर्तनो रणे ॥
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधम्माशु नः ।
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत ॥
अस्ति वाऽस्यान्तरं किञ्चित्कुमारस्याथ पश्यत ।
अन्वस्य पितरं चाद्य चरतः सर्वतो दिशम् ॥
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ।
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते ॥
संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ।
आरुजन्नपि मे प्राणान्मोहयन्नपि सायकैः ॥
प्रहर्षयति मां भूयः सौभद्रः परवीरहा ।
अतिमानं दधात्येष सौभद्रो विचरन्रणे ॥
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः । अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः ।
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ॥
सञ्जय उवाच ।
अथ कर्णः पुनर्द्रोणमाहार्जुनिशराहतः ।
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ॥
तेजस्विनः कुमारस्य शराः परमदारुणाः ।
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ॥
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव ।
अभेद्यमस्य कवचं युवा चाशुपराक्रमः ॥
उपदिष्टा मया चास्य पितुः कवचधारणा ।
तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः ॥
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः ।
अभीषूंश्च हयांश्चैव तथोभौ पार्ष्णिसारथी ॥
एतत्कुरु महेष्वास राधेय यदि शक्यते ।
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ॥
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः ।
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ॥
`पुनः स्थितेन केनापि दुःशको जेतुमार्जुनिः' ॥
सञ्जय उवाच ।
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् ।
अस्यतो लघुहस्तस्य पृष्ठतो धनुराच्छिनत् ॥
अश्वानस्यावधीद्दोणो गौतमः पार्ष्णिसारथी ।
शेषास्तु च्छिन्नधन्वानं शरवर्षैरवाकिरन् ॥
त्वरमाणास्त्वराकाले विरथं षण्महारथाः ।
शरवर्षैरकरुणा बालमेकमवाकिरन् ॥
स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ।
खङ्गचर्मधरः श्रीमानुत्पपात विहायसा ॥
मार्गैः सकौशिकाद्यैश्च लाघवेन बलेन च ।
आर्जुनिर्व्यचरद्य्वोम्नि भृशं वै पक्षिराडिव ॥
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः ।
विव्यधुस्तं महेष्वासं समरे छिद्रदर्सिनः ॥
क्षुरप्रेण महातेजास्त्वरमाणः सपत्नजित् ॥
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ॥
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् ।
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ॥
स चक्ररेणूकज्ज्वलशोभिताङ्गो बभावतीवोज्ज्वलचक्रपाणिः ।
रणेऽभिमन्युः क्षणमास रौद्रः स वासुदेवानुकृतिं प्रकुर्वन् ॥
स्रुतरुधिरकृतैकरागवस्त्रो भ्रुकुटिपुटाकुलितोऽतिसिंहनादः ।
प्रभुरमितबलो रणेऽभिमन्यु-- र्नृपवरमध्यगतो भृशं व्यराजत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

5-48-18 वधं वधोपायम् ॥ 5-48-19 अण्वप्यस्यान्तरं ह्यद्य इति झ.पाठः ॥ 5-48-35 कौशिकं सर्वतोभद्रम् ॥ 5-48-48 अष्टचत्वारिंशोऽध्यायः ॥

श्रीः