अध्यायः 049
अभिमन्युवधः ॥ 1 ॥
सञ्जय उवाच ।
विष्णोः स्वसुर्नन्दकरः स विष्ण्वायुधभूषणः ।
रराजातिरथः सङ्ख्ये जनार्दन इवापरः ॥
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् ।
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ॥
`यदि पाणितलादेतच्चक्रं मुञ्चेत फाल्गुनिः ।
वरदानान्मातुलस्य विष्णोश्चक्रमिवापतेत्' ॥
तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा ।
महारथस्ततः कार्ष्मिः स जग्राह महागदाम् ॥
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः ।
अभिमन्युर्गदापाणिरश्वत्थामानमार्दयत् ॥
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव ।
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ॥
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी ।
शराचिताङ्गः सौभद्रः श्वाविद्वत्समदृश्यत ॥
ततः सुबलदायादं कालिकेयमपोथयत् ।
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ॥
पुनश्चैव वसातीयाञ्जघान रथिनो दश ।
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् ।
दौःशासनिरथं साश्वं गदया समपोथयत् ॥
ततो दौःशसनिः क्रुद्धो गदामुद्यम्य मारिष ।
अभिदुद्राव सौभद्रं तिष्ठतिष्ठेति चाब्रवीत् ॥
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ ।
भ्रातृव्यौ सम्प्रजहाते पुरेव त्र्यम्बकान्धकौ ॥
तावन्योन्यं गदाग्राभ्यामाहत्य पतितौ क्षितौ ।
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ ॥
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः ।
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥
गदावेगेन महता व्यायामेन च मोहितः ।
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ॥
एवं विनिहतो राजन्नेको बहुभिराहवे ।
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः ॥
अशोभत हतो वीरो व्याधैर्वनगजो यथा ।
तं तथा पतितं शूरं तावकाः पर्यवारयन् ॥
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ।
विमृद्व्य नगशृङ्गाणि सन्निवृत्तमिवानिलम् ॥
अस्तिं गतमिवादित्यं तप्त्वा भारत वाहिनीम् ।
उपप्लुतं यथा सोमं संशुष्कमिव सागस्म् ॥
पूर्णचन्द्राभवदनं काकपक्षवृतालिकम् ।
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः ।
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ॥
आसीत्परमको हर्षस्तावकानां विशाम्पते ।
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ॥
अन्तरिक्षे च भूतानि प्राक्रोशन्त विशाम्पते ।
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ॥
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः ।
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ॥
तस्मिन्विनिहते वीरे बह्वशोभत मेदिनी ।
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ॥
रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता ।
उत्तमाङ्गैश्च शूराणां भ्राजमानैः सकुण्डलैः ॥
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता ।
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ॥
रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः ।
खङ्गैः सुनिशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ॥
चापैश्च विविधैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः ।
विविधैश्चायुधैश्चान्यैः संवृता भूरशोभत ॥
`निष्टनद्भिरतीवान्यैरुद्वहद्रुधिरस्रवैः ।
नरैः पतद्भिः पतितैरवनी स्वधिकं बभौ ॥
वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोणितोक्षितैः ।
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ॥
साङ्कुशैः समहामात्रैः सर्वमायुधकेतुभिः ।
पर्वतैरिव विध्वस्तैर्विशिखैर्मथितैर्गजैः ॥
पृथिव्यानुकीर्णैश्च अश्वसारथियोधिभिः ।
हदैरिव प्रक्षुभितैर्हृतनागै रथोत्तमैः ॥
पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः ।
भीरूणां त्रासजननी घोररूपाऽभवन्मही ॥
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् ।
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ॥
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने ।
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ॥
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते ।
अजातशत्रुस्तान्वीरानिदं वचनमब्रवीत् ॥
स्वर्गमेष गतः शूरो यो हतो न पराङ्मुखः ।
संस्तम्भयत माभैष्ट विजेष्यामो रणे रिपून् ॥
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः ।
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ॥
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे रिपून् ।
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरभ्ययात् ॥
हत्वा दशसहस्राणि कौसल्यं च महारथम् ।
कृष्णार्जुनसमः कार्ष्णिः शक्रलोकं गतो ध्रुवम् ॥
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः ।
अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत् ।
गतः पुण्यकृतां लोकाञ्शाश्वतान्पुण्यनिर्जितान् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे एकोनपञ्चाशत्तमोऽध्यायः ॥ 49 ॥
5-49-18 उपप्लुतं राहुग्रस्तम् ॥ 5-49-19 काकपक्षावृताक्षिकं इति झ पाठः ॥ 5-49-30 विशाखोन्मथितैर्गजैः इति क.पाठः ॥ 5-49-31 व्यश्वसारथियोधिभिः इति क.पाठः ॥ 5-49-49 एकोनपञ्चाशत्तमोऽध्यायः ॥
श्रीः