अध्यायः 050
युद्धभूमिवर्णनम् ॥ 1 ॥
सञ्जय उवाच ।
वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः ।
निवेशायाभ्युपायामः सायाह्ने रुधिरोक्षिताः ॥
निरीक्षमाणास्तु वयं परे चायोधनं शनैः ।
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ॥
ततो निशाया दिवसस्य चाशिवः
शिवारुतैः सन्धिरवर्तताद्भुतः ।
कुशेशयापीडनिभे दिवाकरे
विलम्बमानेऽस्तमुपेत्य पर्वतम् ॥
वरासिशक्त्यृष्टिवरूथचर्मणां
विभूषणानां च समाक्षिपन्प्रभाः ।
दिवं च भूमिं च समानयन्निव
प्रियां तनुं भानुरुपैति पावकम् ॥
महाभ्रकूटाचलशृङ्गसन्निभै--
र्गजैरनेकैरिव वज्रपातितैः ।
सवैजयन्त्यङ्कुशवर्मयन्तृभि--
र्निपातितैर्नष्टगतिश्चिता क्षितिः ॥
हतेश्वरैश्चूर्णितचक्रकूबरै--
र्हताश्वसूतैर्विपताककेतुभिः ।
महारथैर्भूः शुशुभे विचूर्णितैः
पुरैरिवामित्रहतैर्नराधिप ॥
रथाश्वबृन्दैः सहसादिभिर्हतैः
प्रविद्धभाण्डाभरणैः पृथग्विधैः ।
निरस्तजिह्वादशनान्त्रलोचनै--
र्धरा बभौ घोरविरूपदर्शना ॥
प्रविद्धवर्माभणाम्बरायुधा
विपन्नहस्त्यश्वरथानुगा नराः ।
महार्हशय्यास्तरणोचितास्तदा
क्षितावनाथा इव शेरते हताः ॥
अतीव हृष्टाः श्वशृगालवायसा
बकाः सुपर्णाश्च वृकास्तरक्षवः ।
वयांस्यसृक्पान्यथ रक्षसां गणाः
पिशाचसङ्घाश्च सुदारुणा रणे ॥
त्वचो विनिर्भिद्य पिबन्वसामसृक्
तथैव मज्जाः पिशितानि चाश्नुवन् ।
वपां विलुम्पन्ति हसन्ति गान्ति च
प्रकर्षमाणाः कुणपान्यनेकशः ॥
शरीरसङ्घाटवहा ह्यसृग्जला
रथोडुपा कुञ्जरशैलसङ्कटा ।
मनुष्यशीर्षोपलमांसकर्दमा
प्रविद्धनानाविधशस्त्रमालिनी ॥
भयावहा वैतरणीव दुस्तरा
प्रवर्तिता योधवरैस्तदा नदी ।
उवाह मध्येन रणाजिरे भृशं
भयावहा दीनमृतप्रवाहिनी ॥
पिबन्ति च स्नान्ति च यत्र दुर्दृशाः
पिशाचसङ्घास्तु नदन्ति भैरवाः ।
सुनन्दिताः प्रणभृतां क्षयंकराः
समानभक्षाः श्वसृगालपक्षिणः ॥
तथा तदायोधनमुग्रदर्शनं
निशामुखे पितृपतिराष्ट्रवर्धनम् ।
निरीक्षमाणः शनकैर्जहुर्नराः
समुत्थिता नृत्तकबन्धसङ्कुलम् ॥
अपेतविध्वस्तमहार्हभूषणं
निपातितं शक्रसमं महाबलम् ।
रणेऽभिमन्युं ददृशुस्तदा जना
व्यपोढहव्यं सदसीव पावकम् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धावहारे पञ्चाशत्तमोऽध्यायः ॥ 50 ॥
श्रीः