अध्यायः 051

युधिष्ठिरस्याभिमन्युमनुशोच्य विलापः ॥ 1 ॥

सञ्जय उवाच ।
हते तस्मिन्महावीर्ये सौभद्रे रथयूथपे ।
विमुक्तरथसन्नाहाः सर्वे निक्षिप्तकार्मुकाः ॥
उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् ।
तदेव युद्धं ध्यायन्तः सौभद्रगतमानसाः ॥
ततो युधिष्ठिरो राजा विललाप सुदुःखितः ।
ततो युधिष्ठिरो राजा विललाप सुदुःखितः ।
अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ॥
युधिष्ठिर उवाच ।
एनं जित्वा कृपं शल्यं राजानं च सुयोधनम् ।
द्रोँणं द्रौणिं महेष्वासं तथैवान्यान्महारथान् ॥
द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया ।
`हत्वा शत्रुगणान्वीरानेष शेते महारथः ॥
कृतास्त्रयु द्धकुशलान्महेष्वासान्महाबलान् ।
कुलशः पूणैर्युक्ताञ्छूरान्विख्यातपौरुषान् ॥
द्रोणेन र्प्राहेतं व्यूहमभेद्यममरैरपि ।
अदृष्टपूर्वमस्माभिः पद्मं चक्रायुधप्रियः' ॥
भित्त्वा मध्यं प्रविष्टोऽसौ गोमध्यमिव केसरी ।
`विक्रीडितं रणे तेन निघ्नता वै परान्वरान्' ॥
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे ।
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ॥
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः ।
क्षिप्रं ह्यभिमुखः सङ्ख्ये विसंज्ञो विमुखीकृतः ॥
स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् ।
प्राप्य दौःशासनिं कार्ष्णिः प्राप्तो वैवस्वतक्षयम् ॥
कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् ।
सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ॥
`हतवत्सां यथा धेनुं तद्दृर्शनकृतोन्मुखीम्' । किंस्विद्वक्ष्याम्यपेतार्थमक्लिष्टमसमञ्जसम् ।
तावुभौ प्रतिवक्ष्यामि हृषीकेशधनञ्जयौ ॥
अहमेव सुभद्रायाः केशवार्जुनयोरपि ।
प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् ॥
न लुब्धो बुध्यते दोषाँल्लोभान्मोहात्प्रवर्तते ।
मधुलिप्सुर्हि नापश्यं प्रपातमहमीदृशम् ॥
यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च ।
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ॥
कथं हि बालस्तरुणो युद्धानामविशारदः ।
सदश्व इव सम्बाधे विषमे क्षेममर्हति ॥
नो चेद्धि वयमप्येनं महीमनुशयीमहि ।
बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ॥
अलुब्धो मितमान्हीमान्क्षमावान्रूपवान्बली ।
वपुष्मान्मानकृद्वीरः प्रियः सत्यपराक्रमः ॥
यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः ।
निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ॥
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः ।
अक्ष्णोर्निमेषमात्रेण पौलोभाः सगणा हताः ॥
परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः ।
तस्यास्माभिर्न शकितस्त्रातुमप्यात्मजो बली ॥
भयं तु सुमहत्प्राप्तं धार्तराष्ट्रान्महाबलान् ।
पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति ॥
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयकारकः ।
व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितं ॥
न मे जयः प्रीतिकरो न राज्यं न चामरत्वं न सुरैः सलोकता ।
इमं समीक्ष्याप्रतिवीर्यपौरुषं निपातितं देववरात्मजात्मजम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥

5-51-5 असंबाधं अप्रतीघातम् ॥ 5-51-13 असमञ्जसमयुक्तरूपम् ॥ 5-51-17 सम्बाधे गहने ॥ 5-51-19 एनं अभिमन्युं अनुचेन्न महीं शयीमहि तदा क्रोधदीप्तस्य बीभत्सोः कृपणेनावसन्नेन चक्षुषा दग्धा भवेमहीत्यन्वयः ॥ 5-51-19 वपुष्मांस्तेजस्वी ॥ 5-51-51 एकपञ्चाशत्तमोऽध्यायः ॥

श्रीः