अध्यायः 056

नारदेन सृञ्जयम्प्रति सुहोत्रचरित्रकीर्तनम् ॥ 1 ॥

नारद उवाच ।
सुहोत्रं नाम राजानं मृतं सृञ्जय शुश्रुम ।
एकवीरमशक्यं तममरैरभिवीक्षितुम् ॥
यः प्राप्य राज्यं धर्मेण ऋत्विङ्मन्त्रिपुरोहितान् ।
सम्मान्य चात्मनः श्रेयः पृष्ट्वा तेषां मते स्थितः ॥
प्रजानां पालनं धर्मो दानमिज्या द्विषज्जयः ।
एतत्सुहोत्रो विज्ञाय धर्म्यमैच्छद्धनागमम् ॥
धर्मेणाराधयन्देवान्बाणैः शत्रूञ्जयंस्तथा ।
सर्वाण्यपि च भूतानि स्वगुणैरन्वरञ्जयत् ॥
यो भुक्त्वेमां वसुमतीं म्लेच्छाटविकवर्जिताम् ।
यस्मै ववर्ष पर्जन्यो हिरण्यं परिवत्सरान् ॥
हैरण्यास्तत्र वाहिन्यः स्वैरिण्यो व्यवहन्पुरा ।
ग्राहान्कर्कटकांश्चैव मत्स्यांश्च विविधान्बहून् ॥
कामान्वर्षति पर्जन्यो रूप्याणि विविधानि च ।
सौवर्णान्यप्रमेयाणि वाप्यश्च क्रोशसम्मिताः ॥
सहस्रं वामनान्कुब्जान्नक्रान्मकरकच्छपान् ।
सौवर्णान्विहितान्दृष्ट्वा ततोऽस्मयत वै तदा ॥
तत्सुवर्णमपर्यन्तं राजर्षिः कुरुजाङ्गले ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ॥
सोऽश्वमेधसहस्रेण राजसूयशतेन च ।
पुण्यैः क्षत्रिययज्ञैश्च प्रभूतवरदक्षिणैः ॥
काम्यनैमित्तिकाजस्रैरिष्ट्वेष्टां गतिमाप्तवान् ।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षट््पञ्चाशत्तमोऽध्यायः ॥ 56 ॥

5-56-6 हैरण्या हिरण्मयाः ग्राहादयोऽपि । वाहिन्यो नद्यः । स्वैरिण्यः सर्वजनोपभोग्याः ॥ 5-56-56 षट््पञ्चाशत्तमोऽध्यायः ॥

श्रीः