अध्यायः 059

सृञ्जयम्प्रति नारदेन राममङिमानुवर्णनम् ॥ 1 ॥

नारद उवाच ।
रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम । यं प्रजा अन्वमोदन्त पिता पुत्रमिवौरसम् ।
असङ्ख्येया गुणा यस्मिन्नासन्नमिततेजसि ॥
यश्चतुर्दशवर्षाणि निदेशात्पितुरच्युतः ।
वने वनितया सार्धमवसल्लक्ष्मणाग्रजः ॥
जघान च जनस्थाने राक्षसान्मनुजर्षभः ।
तपस्विनां रक्षणार्थं सहस्राणि चतुर्दश ॥
तत्रैव वसतस्तस्य रावणो नाम राक्षसः ।
जहार भार्यां वैदेहीं सम्मोह्यैनं सहानुजम् ॥
`रामो हृतां राक्षसेन भार्यां श्रुत्वा जटायुषः ।
आतुरः शोकसन्तप्तो रामोऽगच्छद्धरीश्वरम् ॥
तेन रामः सुसङ्गम्य वानरैश्च महाबलैः ।
आजगामोदधेः पारं सेतुं कृत्वा महार्णवे ॥
तत्र हत्वा तु पौलस्त्यान्ससुहृद्गणबान्धवान् ।
मायाविनं महाघोरं रावणं लोककण्टकम्' ॥
सुरासुरैरवध्यं तं देवब्राह्मणकण्टकम् ।
जघान स महाबाहुः पौलस्त्यं सगणं रणे ॥
`हत्वा तत्र रिपुं सङ्ख्ये भार्यया सह सङ्गतः ।
स च लङ्केश्वरं चक्रे धर्मात्मानं विभीषणम् ॥
भार्यया सह संयुक्तस्ततो वानरसेनया ।
अयोध्यामागतो वीरः पुष्पकेण विराजता ॥
तत्र राजन्प्रविष्टः सन्नयोध्यायां महायशाः ।
मातॄर्वयस्यान्सचिवानृत्विजः सपुरोहितान् ॥
शुश्रूषमाणः सततं मन्त्रिभिश्चाभिषेचितः ।
विसृज्य हरिराजानं हनुमन्तं सहाङ्गदम् ॥
भ्रातरं भरतं वीरं शत्रुघ्नं चैव लक्ष्मणम् ।
पूजयन्परया प्रीत्या वैदेह्या चाभिपूजितः ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
चतुःसगारपर्यन्तां पृथिवीमन्वशासत ॥
अश्वमेधशतैरीजं क्रतुभिर्भूरिदक्षिणैः ।
यश्च विप्रप्रसादेन सर्वकामानवाप्य च' ॥
सम्प्राप्य विधिवद्राज्यं सर्वभूतानुकम्पनः ।
`सर्वद्वीपानवष्टभ्य प्रजा धर्मेण पालयन्' ॥
स निर्गलं मुख्यतममश्वमेधशतं प्रभुः । आजहार सुरेशस्य हविषा मुदमाहरन् ।
अन्यैश्च विविधैर्यज्ञैरीजे बहुगुणैर्नृपः ॥
क्षुत्पिपासेऽजयद्रामः सर्वरोगांश्च देहिनाम् ।
सततं गुणसम्पन्नो दीप्यमानः स्वतेजसा ॥
अतिसर्वाणि भूतानि रामो दाशरथिर्बभौ । ऋषीणां देवतानां च मानुषाणां च सर्वशः ।
पृथिव्यां सह वासोऽभूद्रामे राज्यं प्रशासति ॥
नाहीयत तदा प्रामः प्राणिनां न तदा व्यथा ।
प्राणापानौ समावास्तां रामे राज्यं प्रशासति ॥
पर्यदीप्यन्त तेजांसि तदाऽनर्थाश्च नाभवन् ।
दीर्घायुषः प्रजाः सर्वा युवा न म्रियते तदा ॥
वेदैश्चतुर्भिः सुप्रीताः प्राप्नुवन्ति दिवौकसः ।
हव्यं कव्यं च विविधं निष्पूर्तं हुतमेव च ॥
अदंशमशका देशा नष्टव्यालसरीसृपाः ।
नाप्यु प्राणभृतां मृत्युर्नाकाले ज्वलनोऽदहत् ॥
अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस्तदा ।
शिष्टेष्टप्राज्ञकर्माणः सर्वे वर्णास्तदाऽभवन् ॥
स्वधां पूजां च रक्षोभिर्जनस्थाने प्रणाशिताम् ।
प्रादान्निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः ॥
सहस्रपुत्राः पुरुषा दशवर्षशतायुषः ।
न च ज्येष्ठाः कनिष्ठेभ्यस्तदा श्राद्धानि कुर्वते ॥
श्यामो युवा लोहिताक्षो मत्तमातङ्गविक्रमः ।
आजानुबाहुः सुभुजः सिंहस्कन्धो महाबलः ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
सर्वभूतमनःकान्तो रामो राज्यमकारयत् ॥
रामो रामो राम इति प्रजानामभवत्कथा ।
रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥
चतुर्विधाः प्रजा रामः स्वर्गं नीत्वा दिवं गतः ।
आत्मेच्छया प्रतिष्ठाप्य राजवंशमिहाष्टधा ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकोनषष्टितमोऽध्यायः ॥ 59 ॥

5-59-17 स निरर्गलजान्मुख्यानश्वमेधाञ्शतं प्रभुः इति ङ. पाठः । आजहार महाजज्ञं प्रजा धर्मेण पालयन् । निरर्गलं सजारूथ्यमश्वमेधं च तं विभुः इति झ. पाठः । आजहार रमेशस्य इति ङ. पाठः ॥ 5-59-19 पृथिव्यां मानुषाणां प्रत्यक्षा देवादयो विचरन्ति पुण्यातिशयात् ॥ 5-59-20 प्राणो बलम् ॥ 5-59-22 निष्पूर्तं जठीकारामादि । हुतमिष्ठम् । सुप्रीता ब्राह्मणाः शाखपारगाः इति ङ. पाठः ॥ 5-59-29 रामाद्रामं जगदभूत् इति घ.झ.पाठः । तत्र रामं अभिरामम् ॥ 5-59-59 एकोनषष्टितमोऽध्यायः ॥ 59 ॥

श्रीः