अध्यायः 061

नारदेन सञ्जयम्प्रति दिलीपप्रभाववर्णनम् ॥ 1 ॥

नारद उवाच ।
दिलीपं चापि राजेन्द्र मृतां सृञ्जय शुश्रुम ।
यस्य यज्ञशतेष्वासन्प्रयुतायुतशो द्विजाः ॥
तन्त्रज्ञानार्थसम्पन्ना यज्वानः पुत्रपौत्रिणः । `स्वच्छन्दाः पुण्यगन्धाश्च सुभक्षा हेममालिनः ।
यस्य कर्माणि भूरिणि कथयन्ति मनीषिणः' ॥
य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ॥
`राजानो वितते यज्ञे उपहारानुपाहरन्' । दिलीपस्य तु यज्ञेषु कृतः पन्था हिरण्मयः ।
तं धर्म इव कुर्वाणाः सेन्द्रा देवाः समागमन् ॥
सहस्रं यत्र मातङ्गा अगच्छन्पर्वतोपमाः ।
सौवर्णं चाभवत्सर्वं सदः परमभास्वरम् ॥
रसानां चाभवन्कुल्या भक्ष्याणां चापि पर्वताः ।
सहस्रव्यामा नृपते यूपाश्चासन्हिरण्मयाः ॥
चषालप्रचषालौ च यस्य यूपे हिरण्मयौ ।
नृत्यन्त्यप्सरसो यत्र षट््सहस्राणि सप्त च ॥
यत्र वीणां वादयति प्रीत्या विश्वावसुः स्वयम् ।
सर्वभूतान्यमन्यन्त मम वादयतीति तम् ॥
रागखाण्डवभोज्यैश्च मत्ताः पतिषु शेरते ॥
तदेतदद्भुतं मन्ये अन्यैर्न सदृशं नृपैः ।
यदप्सु युध्यमानस्य चक्रे न परिपेततुः ॥
राजानं दृढधन्वानं दिलीपं सत्यवादिनम् ।
येऽपश्यन्भूरिदक्षिण्यं तेऽपि स्वर्गजितो नराः ॥
पञ्च शब्दा न जीर्यन्ति दिलीपस्य निवेशने ।
स्वाध्यायघोषो ज्याघोषः पिबताश्नीत खादत ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकषष्टितमोऽध्यायः ॥ 61 ॥

5-61-2 तन्त्र क्रिया ॥ 5-61-4 पन्था हिरण्मयः । हिरण्मय्यः स्रुचो भवन्तीति विधिमार्गस्तत आरभ्य प्रवृत्त इत्यर्थः ॥ 5-61-9 रागखण्डवं गुडोदनम् । पर्पटिकेति वैदर्भाः । यद्योषा हेमसच्छन्ना मत्ताः पथिषु शेरते इति ङ.ड.पाठः । पथि सुशेरते इति क. पाठः । रागस्वाण्डवभोज्यैश्च मत्ताः पथिषु शेरते इति घ.पाठः ॥ 5-61-10 अप्सु न परिपेततुः न ममज्जतुः । यस्याप्ययुध्यमानस्य चक्रे न परिमर्दनम् इति क. पाठः ॥ 5-61-61 एकषष्टितमोऽध्यायः ॥

श्रीः