अध्यायः 001

धृतराष्ट्रेण सञ्जयंप्रति भीप्मपातानन्तरीयकदुर्योधनादिवृत्तान्तप्रश्नः ॥ 1 ॥ सञ्जयेन योधानां शरणत्वेन कर्णाह्वाने कथिते धृतराष्ट्रस्य कर्णवृत्तान्तप्रश्नः ॥ 2 ॥

श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
जनमेजय उवाच ।
तमप्रतिमसत्वौजोबलवीर्यपराक्रमम् । हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ॥
धृतराष्ट्रस्ततो राजा शोकव्याकूललोचनः ।
किमचेष्टत विप्रर्षे हते पिताx वीर्यवान् ॥
तस्य पुत्रो हि भगवान्भीष्भद्रोणमुखै रथैः ।
पमजित्य महेष्वासान्पाण्डव राज्यमिच्छति ॥
तस्मिन्हा तु भगवन्कतौ सर्वधनुष्मताम् ।
यदचेष्टत कौरवस्तन्मे ब्रूहि तपौधन ॥
वैशंपायन उवाच ।
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः ।
लेभे न शान्तिं कौरव्यश्चिन्ताशौकपरायणः ॥
तत्व चिन्तयतो दुःखमनिशं पार्थिवस्य तत् ।
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ॥
`व्यासप्रसादाद्विज्ञाय सर्वं वृत्तान्तमुत्तमम् ।
सैनिकानां च सर्वेषां सेनयोरुभयोस्तदा' ॥
शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम् ।
आभ्विकेयो माहारज धृतराष्ट्रोऽन्वपृच्छत ॥
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् ।
पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ॥
धृतराष्ट्र उवाच ।
संशोच्य तु महात्मानं भीष्मं भीमपराक्रमम् ।
किमकार्षुःपरं तात कुरवः कालचोदिताः ॥
तस्मिन्विनिहते शूरे दुराधर्षे महात्मनि ।
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ॥
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय ।
भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् ॥
को हि दौर्योधने सैन्ये पुमानासीन्महारथः ।
यं प्राप्य समरे वीरा न त्रस्यन्ति महाभये ॥
देवव्रते तु निहते कुरूणामृषभे तदा ।
किमकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जया ॥
सञ्जय उवाच ।
शृणु राजन्नेकमना वचनं ब्रुवतो मम ।
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ॥
निहते तु तदा भीष्मे राजन्सत्यपराक्रमे ।
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ॥
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते ।
स्वधर्मं निन्दमानास्ते प्रमिपत्य महात्मने ॥
शयनं कल्पयामासुर्भीष्मायामितकर्मणे ।
सोपधानं नरव्याघ्र शरैः सन्नतपर्वभिः ॥
विधाय रक्षां भीष्माय समाभाष्य परस्परम् ।
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् ॥
क्रोधसंरक्तनयनाः समवेत्य परस्परम् ।
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ॥
ततस्तूर्यनिनादैश्च भेरीणां निनदेन च ।
तावकानामनीकानि परेषां च विनिर्ययुः ॥
व्यावृत्तेऽर्यम्णि राजेन्द्र पतिते जाह्नवीसुते ।
अमर्पवशमापन्नाः कालोपहतचेतसः ॥
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः ।
निर्ययुर्भरतश्रेष्टाः शस्त्राण्यादाय सत्वराः ॥
मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च ।
कौरवा म्नृत्युनाऽऽहूताः सहिताः सर्वराजभिः ॥
अजावय इवागोपा वने श्वापदसंकुले । `कर्णकर्णेति चाक्रन्दञ्छेषा भारत पार्थिवाः' ।
भृशमुद्विग्नमनसो हीना देवव्रतेन ते ॥
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी ।
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना ॥
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा ।
आसुरीव यथा सेना निगृहीते नृपे वलौ ॥
विधवेव वारारोहा शुष्कतोयेव निम्नगा ।
वृकैरिव वने रुद्धा पृपती हतयूथपा ॥
शरभाऽऽहतसिंहेव महती गिरिकन्दरा ।
सा सेना भरतश्रेष्ठे पतिते जाह्नवीसुते ॥
विष्वग्वाताहतिशुब्धा नौरिवासीन्महार्णवे ।
वलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ॥
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा ।
विपन्नभूयिष्ठनरा कृपणा ध्वस्तमानसा ॥
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः । पाताल इव मज्जन्तो हीना देवव्रतेन ते ।
कर्णस्य कुरवोऽस्मार्षुः स हि देवव्रतोपमः ।
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् ॥
बन्धुमापद्गतस्येव तमेवोपागमन्मनः ।
चुक्रुशुः कर्मकर्णेति तत्र भारत पार्थिवाः ॥
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ।
स हि नाबुध्यत तदा दशाहानि महायशाः ॥
सामात्यबन्धुः कर्णो वै तमानयत माचिरम् ।
भीष्णेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः ॥
रथेषु गण्यमानेषु बलविक्रमशालिषु ।
शङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ॥
रथातिरक्षसङ्ख्यायां योऽग्रणीः शूरसम्भतः ।
सासुरानपि देवेशान्रणे यो योद्धुमृत्सहेत् ॥
स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् । त्वयि जीकते कौरव्य नाहं योत्स्ये कदाचन ।
त्वया तु पाण्डवेयेषु निहतेषु महामृधे ।
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ॥
हते वा त्वयि पार्थैस्तु युधि स्वर्गमुपेयुषि ।
हन्तास्म्येकरथेनैव कृत्स्नान्वान्मन्यसे रथा ॥
एवमुक्त्वा महाबाहुर्दशाहान्येक एव स ।
नायुध्यत ततः कर्णः पुत्रस्य तव संयते ॥
भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत ।
जघान समरे योधानसङ्ख्येयपराक्रमः ॥
तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि ।
त्वत्सुताः वर्णमस्मार्पुस्तर्तुकामा इव प्लवम् ॥
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः ।
हा कर्ण इति चाक्रन्दन्कालोऽयमिति अब्रवन् ॥
एवं ते स्म हि राधेयं सूतपुत्रं नतxxxx चुक्रुशुः सहिता योधाxxxxxxxxxxx ॥
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् ।
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ॥
स हि शक्तो रणे राजञ्स्त्रातुमस्मान्महाभयात् ॥
त्रिदशानिव गोविन्दः सततं सुमहाभयात् ॥
वैशंपायन उवाच ।
तथा तु सञ्जयं कर्णं कीर्तयन्तं पुनः पुनः ।
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ॥
धृतराष्ट्र उवाच ।
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा ।
उप्यरक्षत्स राधेयः सूतपुत्रस्तनुत्यजः ॥
अपि तन्न मृषाकार्षीत्कच्चित्सत्यपराक्रमः ।
सम्भान्तानां तदार्तानां त्रस्तानां त्राणमिच्छतां ॥
अपि तत्पूरयांचक्रे धनुर्धरवरो युधि ।
यत्तद्विनिहते भीष्मे कौरवाणामपाकृतम् ॥
तत्खण्डं पूरयन्कर्णः परेषामादधद्भयम् ।
स हि वै पुरुषव्याघ्रो लोके सञ्जय कथ्यते ॥
आर्तानां बान्धवानां च क्रन्दतां च विशेषतः । परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च ।
कृतवान्मम पुत्राणां जयाशां सफलामपि ॥

5-1-1 सत्यं xxx महत्यपि दुःखकारणे वैकल्यराहित्यम् । ओजो xxमं वलxxxवलं शरीरदार्ढ्यम् । 5-1- 5-1- 5-1- 5-1- 5-1- 5-1- 5-1- 5-1- 5-1- 5-1- 5-1-

श्रीः