अध्यायः 074

अर्जुनप्रतिज्ञाश्रवणचकितस्य जयद्रथस्य द्रोणतुर्योधनाश्यासनम् ॥ 1 ॥

सञ्जय उवाच ।
श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् ।
चारैः प्रवेदितस्त्रस्तः समुत्थाय जयद्रथः ॥
शोकसम्मूढहृदयो दुःखेनाभ्याहतो भृशम् । मज्जमान इवागाधे विपुले शोकसागरे ।
जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु ॥
स तेषां नरदेवानां सकाशे पर्यदेवयत् ।
अभिमन्युपितुर्भीतः सव्रीडो वाक्यमब्रवीत् ॥
योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ।
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् ॥
स्वस्ति वोऽस्तु गमिष्यामि स्वगृहं जीवितेप्सया ।
अथवास्त्रप्रतिबलास्त्रात मां क्षत्रियर्षभाः ।
पार्थेन प्रार्थितं वीरास्ते सन्दत्त ममाभयम् ॥
द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः ।
दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम् ॥
किमङ्ग पुनरेकेन फल्गुनेन जिघांसता ।
न त्रास्यन्ति भवन्तो मां समस्ताः पतयः क्षितेः ॥
प्रतिज्ञां पाण्डवेयानां श्रुत्वा मम महद्भयम् ।
सीदन्ति मम गात्राणि मुमूर्षोरिव पार्थिवाः ॥
वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना ।
तथाहि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ॥
तन्न देवा न गन्धर्वा नासुरोरगराक्षसाः ।
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ॥
तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः ।
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥
सञ्जय उवाच ।
एवं विलपमानं तं भयाद्व्याकुलचेतसम् ।
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥
न भेतव्यं नरव्याघ्र को हि त्वां पुरुषर्षभ ।
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥
`एतेषां नरदेवानां मत्तमातङ्गगामिनाम् ।
सङ्घातमुपयातानामपि विभ्येत्पुरन्दरः' ॥
अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः ।
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥
पुरुमित्रो जयो भोजः काम्भोजश्च सुदक्षिणः ।
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखश्च ह ॥
दुःशासनः सुबाहुश्च कालिङ्गश्चाप्युदायुधः ।
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिश्च सौबलः ॥
`मायावी बलवाञ्छूरो राक्षसश्चाप्यलम्बुसः' । एते चान्ये च बहवो नानाजनपदेश्वराः ।
ससैन्यास्त्वाभिगोप्स्यन्ति व्येतु ते मानसो ज्वरः ॥
त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युते ।
स कथं पाण्डवेयेभ्यो भयं पश्यसि वैन्धव ॥
अक्षौहिण्यो महावीर्य मदीयास्तव रक्षणे ।
यत्ता योत्स्यन्ति माभैस्त्वं सैन्धव व्येतु ते भयम् ॥
सञ्जय उवाच ।
एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः ।
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ॥
उपसङ्गृह्य चरणौ द्रोणाय स विशाम्पतिः ।
उपोपविश्य प्रणतः पर्यपृच्छदिदं वचः ॥
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने ।
मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च ॥
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः ।
अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे ॥
द्रोण उवाच ।
सममाचार्यकं तात तव चैवार्जुनस्य च ।
योगाद्दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ॥
न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन ।
अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥
न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि ।
व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति ॥
तस्माद्युध्यस्व माभैस्त्वं स्वधर्ममनुपालय ।
पितृपैतामहं मार्गमनुयाहि महारथ ॥
अधीता विधिवद्वेदा अग्नयः सुहुतास्त्वया ।
इष्टं च बहुभिर्यज्ञैर्न ते मृत्युर्भयङ्करः ॥
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु ।
भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् ॥
कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः ।
अहं च सहपुत्रेण अध्रुवा इति चिन्त्यताम् ॥
पर्यायेण वयं सर्वे कालेन बलिना हताः ।
परलोकं गमिष्यामः स्वैःस्वैः कर्मभिरन्विताः ॥
तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः ।
क्षत्रधर्माश्रिताः वीराः क्षत्रियाः प्राप्नुवन्ति तान् ॥
एवमाश्वासितो राजा भारद्वाजेन सैन्धवः ।
अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ॥
ततः प्रहर्षः सैन्यानां तस्य चासीद्विशाम्पते ।
वादित्राणां ध्वनिश्चोग्रः सिंहनादरवैः सह ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

5-74-4 किलेत्यरुचौ ॥ 5-74-5 स्वगृहाज्जीवितेप्सया इति ङ. पाठः ॥ 5-74-6 पार्थेन पार्थिवा वीरास्तंद्ददध्वं ममाभयम् इति क.ट.पाठः ॥ 5-74-24 निमित्ते लक्ष्यभेदने ॥ 5-74-26 योगादभ्यासात् । दुःखोचितत्वाच्च इति क.ट.ङ.पाठः ॥ 5-74-30 मृत्युभवं भयम् इति क.पाठः ॥ 5-74-74 चतुःसप्ततितमोऽध्यायः ॥

श्रीः