अध्यायः 076

अर्जुनेन श्रीकृष्णम्प्रति स्वसामर्थ्यकथनम् ॥ 1 ॥

अर्जुन उवाच ।
षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् ।
तेषां वीर्यं ममार्धेन न तुल्यमिति मे मतिः ॥
अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन ।
मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा ॥
द्रोणस्य मिषतश्चाहं सगणस्य विपश्चितः ।
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ॥
यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः ।
मरुतश्च सहेन्द्रेण विश्वेदेवाः सहेश्वराः ॥
पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः ।
द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः ॥
ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च ।
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ॥
तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया ।
सत्येन च शपे कृष्ण तथैवायुधमालभे ॥
यस्य गोप्ता महेष्वासो द्रोणः पापस्य दुर्मतेः ।
तमेव प्रथमं द्रोणमभियास्यामि केशव ॥
तस्मिन्युद्धमिदं बद्धं मन्यते स सुयोधनः ।
तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् ॥
द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजितैः ।
शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ॥
नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् ।
पतद्ध्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ॥
गाण्डीवप्रेषिता बाणा मनोऽनिलसमा जवे ।
नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः ॥
शक्राद्भीष्मात्कृपाद्द्रोणाद्देवाद्रुद्राच्च यन्मया ।
उपात्तमस्त्रं घोरं तद्दष्टारोऽत्र नरा युधि ॥
ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे ।
मया द्रष्टाऽसि सर्वेषां सैन्धवस्याभिरक्षिणाम् ॥
शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः ।
आस्तीर्यमाणां पृथिवीं द्रष्टाऽसि श्वो मया युधि ॥
क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् ।
सुहृदो नन्दयिष्यामि प्रमथिष्यामि सैन्धवम् ॥
बह्वागस्कृत्कुसंबन्धी पापदेशसमुद्भवः ।
मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति ॥
सर्वे क्षीरान्नभोक्तारः पापाचारा रणाजिरे ।
मया सराजका बाणैर्हता नश्यन्ति सैन्धवाः ॥
तथा प्रभाते कर्ताऽस्मि यथा कृष्ण सुयोधनः ।
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ॥
`गाण्डीवं च धनुर्दिव्यं योद्धारं च धनञ्जम् ।
यन्तारं च हृषीकेशं कोऽतिवर्तेत संयुगे' ॥
तव प्रसादाद्भगवन्किंनावाप्तं रणे मम ।
अविषह्यं हृषीकेश किं जानन्मां विगर्हसे ॥
यथा लक्ष्म स्थिरं चन्द्रे समुद्रे च यथा जलम् ।
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ॥
मावमंस्था ममास्त्राणि मावमंस्थाश्च गाण्डिवम् ।
मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम् ॥
गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ ।
त्वं च यन्ता हृषीकेश किन्नु स्यादजितं मया ॥
यथाभियाय सङ्ग्रमं न जितो वै जयामि च ।
तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम् ॥
`त्वं च माधव सर्वं तत्तथा प्रतिविधास्यसि ।
यथा रिपूणां मिषतां प्रमथिष्यामि सैन्धवम्' ॥
ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु सन्नतिः ।
श्रीर्ध्रुवाऽपि च दक्षेषु ध्रुवो नारायणे जयः ॥
सञ्जय उवाच ।
एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना ।
सन्दिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् ॥
यथा प्रभातां रजनीं कल्पितः स्याद्रथोत्तमः ।
तथा कार्यं त्वया कृष्ण प्रतिज्ञा स्याद्यथा ध्रुवा ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि षट््सप्ततितमोऽध्यायः ॥ 76 ॥

5-76-9 तस्मिन् द्रोणे । युद्धं बद्धमिव बद्धं एकान्तजयेन स्थिरीकृतम् ॥ 5-76-76 षट््सप्ततितमोऽध्यायः ॥

श्रीः