अध्यायः 081
अर्जुनेन स्वप्ने शंकरात्पाशुपतास्त्रमुपलक्ष्य कृष्णेनसह पुनः शिबिरं प्रत्यागमनम् ॥ 1 ॥
सञ्जय उवाच ।
ततः पार्थः प्रसन्नात्मा प्राञ्जलिर्वृषभध्वजम् ।
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ॥
तं चोपहारं सुकृतं नैशं नैत्यकमात्मना ।
ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् ॥
ततोऽभिपूज्य मनसा कृष्णं शर्वं च पाण्डवः ।
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम् ॥
ततः पार्थस्य विज्ञाय वरार्थे वचनं तदा ।
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ॥
स्वागतं वां नरश्रेष्ठौ विज्ञातं मनसेप्सितम् ।
येन कामेन सम्प्राप्तौ भवद्ध्यां तं ददाम्यहम् ॥
सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ ।
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ॥
येन देवारयः सर्वे मया युधि निपातिताः ।
तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् ॥
तथेत्युक्त्वा तु तौ वीरौ सर्वपारिषदैः सह ।
प्रस्थितौ तत्सरो दिव्यं दिव्यैश्वर्यशतैर्युतम् ॥
निर्दिष्टं यद्वृषाङ्केण पुण्यं सर्वार्थसाधकम् ।
तौ जग्मतुरसम्भ्रान्तौ नरनारायणावृषी ॥
ततस्तौ तत्सरो गत्वा सूर्यमण्डलसन्निभम् ।
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ॥
द्वितीयं चापरं नागं सहस्रशिरसं वरम् ।
वमन्तं विपुला ज्वाला ददृशातेऽग्निवर्चसम् ॥
ततः कृष्णश्च पार्थश्च संस्पृश्याम्भः कृताञ्जली ।
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ॥
गृणन्तौ वेदविद्वांसौ तद्ब्रह्म शतरुद्रियम् ।
अप्रमेयप्रमाणं तौ गत्वा सर्वात्मना भवम् ॥
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ ।
धनुर्बाणश्च शत्रुघ्नं तद्द्वन्द्वं समपद्यत ॥
तौ तज्जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् ।
आजहूतुर्महात्मानौ ददतुश्च महात्मने ॥
ततः पाश्वाद्वॄषाङ्कस्य ब्रह्मचारी न्यवर्तत ।
पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः ।
स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः ।
विचकर्षाथ विधिवत्सशरं धनुरुत्तमम् ॥
तस्य मौर्वी च मुष्टिं च स्थानं चालक्ष्य पाण्डवः ।
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ॥
स सरस्येव तं बाणं मुमोचातिबलः प्रभुः ।
चिक्षेप च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ॥
ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा ।
वरमारण्यके दत्तं दर्शनं शङ्करस्य च ।
मनसा चिन्तयामास तन्मे सम्पद्यतां भव ॥
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः ।
तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ॥
ततः पाशुपतं दिव्यमवाप्य पुनरीश्वरात् ।
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत ॥
`ततोऽर्जुनहृषीकैशौ पुनः पुनररिंदमौ' ।
ववन्दतुश्च संहृष्टौ शिरोभ्यां तं महेश्वरम् ॥
अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ ।
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ॥
तथा भवेनानुमतौ महासुरनिघातिना ।
इद्रावीष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥
5-81-2 आत्मना सुकृतं सूपकल्पितम् ॥ 5-81-14 द्वन्द्वं युगलम् ॥ 5-81-16 नीललोहितः भगवतोऽपरा तनुः ॥ 5-81-17 स्थानं स्थापनकम् 5-81-18 जग्राह मनसि कृतवान् ॥ 5-81-81 एकाशीतितमोऽध्यायः ॥
श्रीः