अध्यायः 092

अर्जुनेन श्रुतायुधसुदक्षिणयोर्वधः ॥ 1 ॥

सञ्जय उवाच ।
सन्निरुद्धस्तु तैः पार्थो महाबलपराक्रमः ।
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥
किरन्निषुगणांस्तीक्ष्णान्स रश्मीनिव भास्करः ।
तापयामास तत्सैन्यं देहं व्याधिगणो यथा ॥
अश्वो विद्धो रथश्छिन्नः सारोहः पातितो गजः ।
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ॥
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः ।
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥
तेषां संयच्छतां सङ्ख्ये परस्परमजिह्मगैः ।
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः ।
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ॥
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः ।
अन्तेवासिनमाचार्यो महेष्वासं समार्पयत् ॥
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः ।
अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥
तस्याशु क्षिपतो भल्लान्भल्लैः सन्नतपर्वभिः ।
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि ।
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥
क्षरन्निव महामेघो वारिधाराः सहस्रशः ।
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥
अर्जुनः शरवर्षं तच्छरवर्षेण वीर्यवान् ।
अवारयदसम्भ्रान्तो न त्वाचार्यमपीडयत् ॥
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् ।
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् ।
विसृजन्तं शितान्बाणानवारयत तं युधि ॥
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ ।
अवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥
वर्जयन्निशितान्बाणान्द्रोणचापविनिः सृतान् ।
किरीटमाली कौन्तेयो भोजानीकमथाविशत् ॥
सोऽन्तरा कृतवर्माणं काम्भोजं च सुदक्षिणम् ।
अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ॥
ततो भोजो नरव्याघ्रो दुर्धर्षं कुरुसत्तमम् ।
अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥
तमर्जुनः शतेनाजौ राजन्विव्याध पत्रिणाम् ।
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् ।
एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥
तस्यार्जुनो धनुश्छित्त्वा वियाधैनं त्रिसप्तभिः ।
शरैरग्निशिखाकारैः क्रुद्धाशीविषसन्निभैः ॥
अथान्यद्धनुरादाय कृतवर्मा महारथः ।
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः ।
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥
दृष्ट्वा विषक्तं कौन्तेयं कृतवर्मरथं प्रति ।
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् ।
कुरु सम्बन्धकं हित्वा प्रमथ्यैनं विशातय ॥
ततः स कृतवर्माणं महोयित्वाऽर्जुनः शरैः ।
अभ्यगाज्जवनैरश्वैः काम्भोजानामनीकिनीम् ॥
अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने ।
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ॥
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ ।
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥
तावविध्यत्ततो भोजः कृतवर्मा शितैः शरैः ।
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥
तावप्येनं विविधतुर्दशभिर्दशभिः शरैः । त्रिभिरेव युधामन्युरुत्तगौजास्त्रिभिस्तथा ।
सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ॥
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्च्छितः ।
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ॥
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः ।
तेनान्तरेषु बीभत्सुर्विवेशामित्रवाहिनीम् ॥
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा ।
धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ॥
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः ।
नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ॥
तं दृष्ट्वा तु तथाऽऽयान्तंशूरो राजा श्रुतायुधः ।
अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ॥
स पार्थं त्रिभिरानर्च्छत्सप्तत्या च जनार्दनम् ।
क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ॥
ततोऽर्जुनो नवत्या तु शराणां नतपर्वणाम् ।
आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम् ॥
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् ।
अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ॥
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च ।
आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ॥
अथान्यद्धनुरादाय स राजा क्रोधमूर्च्छितः ।
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिन्दमः ।
शरैरनेकसाहस्रैः पीडयामास भारत ॥
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः ।
विव्याध चैनं सप्तत्या नाराचानां महाबलः ॥
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः ।
अभ्यद्रुवद्रुणे पार्थं गदामुद्यम्य वीर्यवान् ॥
वरुणस्यत्मजो वीरः स तु राजा श्रुतायुधः ।
पर्णाशाजननी यस्य शीततोया महानदी ॥
तस्य माताऽब्रवीद्राजन्वरुणं पुत्रकारणात् ।
अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ॥
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् ।
दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति ॥
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन ।
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ॥
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा ।
अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ॥
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् ।
यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ॥
उवाच चैनं भगवान्पुनरेव जलेश्वरः ।
अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ॥
हन्यादेषा प्रतीपं हि प्रयोक्तारमपि प्रभो ।
न चाकरोत्स तद्वाक्यं प्राप्ते काले श्रुतायुधः ॥
स तया वीरघातिन्या जनार्दनमताडयत् । प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् ।
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः ॥
`ततोऽर्जुनः क्षुरप्राभ्यां भुजौ परिघसन्निभौ ।
चिच्छेद पाण़्डवः शीघ्रं जलेश्वरसुतस्य वै ॥
स ज्वलन्ती महोल्केव समासाद्य जनार्दनम्' ।
प्रत्यागता महावेगा कृत्येव दुरधिष्ठिता ॥
जघान चास्थितं वीरं श्रुतायुधममर्षणम् । `स पपात हतो भूमौ विशिरा विभुजो बली ।
सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥
सा विस्फुरन्ती ज्वलिता वज्रवेगसमा गदा' ।
हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत ॥
गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम् । हाहाकारो महांस्तत्र सैन्यानां समजायत ।
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥
अयुध्यमानाय ततः केशवाय नराधिप ।
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ॥
यथोक्तं वरुणेनाजौ तथा स निधनं गतः ।
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः ।
सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः ।
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥
ततः काम्भोजराजस्य पुत्रः शूरः सुदक्षिणः ।
अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ॥
तस्य पार्थः शरान्सप्त प्रेषयामास भारत ।
ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ॥
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे ।
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः ।
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः ।
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ॥
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः ।
सघण्टां प्राहिणोद्धोरां क्रुद्धो गाण्डीवधन्वने ॥
सा ज्वलन्ती महोल्केव तमासाद्य महारथम् ।
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥
शक्या त्वभिहतो गाढं मूर्च्छयाऽभिपरिप्लुतः ।
समाश्वास्य महातेजाः सृक्विणी परिलेलिहन् ॥
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः ।
साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ॥
रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः । सुदक्षिणं तं काम्भोजं मोघसङ्कल्पविक्रमम् ।
बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ॥
स भिन्नवर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः ।
पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ॥
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः । निर्भग्न इव वातेन कर्णिकारो हिमात्यये ।
विशीर्णः पतितो राजा प्रसार्य विपुलौ भुजौ ॥
शेते स्म निहतो भूमौ काम्भोजास्तरणोचितः ।
महार्हाभरणोपेतः सानुमानिव पर्वतः ॥
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ।
पुत्रः काम्भोजराजस्य पार्थेन विनिपातितः ॥
धारयन्नग्निसङ्काशां शिरसा काञ्चनीं स्रजम् ।
अशोभत महाबाहुर्व्यसुर्भूमौ निपातितः ॥
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते ।
हतं श्रुतायुधं दृष्ट्वा काम्भोजं च सुदक्षिणम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्विनवतितमोऽध्यायः ॥ 92 ॥

5-92-15 तेषां संयच्छतां विधारयताम् ॥ 5-92-10 आचार्यकं शिक्षाम् ॥ 5-92-28 रथेषुभिः अदूरस्थायिभिर्बाणैः ॥ 5-92-54 कृत्या अभिचारदेवता ॥ 5-92-72 ध्वजः शक्रध्वजः ॥ 5-92-92 द्विनवतितमोऽध्यायः ॥

श्रीः