अध्यायः 093

अर्जुनेन श्रुतायुःप्रभृतीनां वधः ॥ 1 ॥

सञ्जय उवाच ।
हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे ।
जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ॥
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम् ॥
तेषां षष्टिशतानन्यान्प्रामथ्नात्पाण्डवः शरैः ।
ते स्म भीताः पलायन्ते व्याघ्रात्क्षुद्रमृगा इव ॥
ते निवृत्ताः पुनः पार्थं सर्वतः पर्यवारयन् ।
रणे सपत्नान्निघ्नन्तं जिगीषन्तं परान्युधि ॥
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः ।
शिरांसि पातयामास बाहूंश्चापि धनञ्जयः ॥
शिरोभिः पातितैस्तत्र भूमिरासीन्निरन्तरा ।
अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रबलैर्युधि ॥
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ ।
स्रुतायुश्चाश्रुतायुश्च धनञ्जयमयुध्यताम् ॥
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ ।
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥
त्वरायुक्तौ महराज प्रार्थयानौ महद्यशः ।
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् ।
पूरयामासतुः क्रुद्धौ तटाकं जलदौ यथा ॥
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम् ।
आजघान रथश्रेष्ठः पीतेन निशितेन च ॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।
जगाम परमं मोहं मोहयन्केशवं रणे ॥
एतस्मिन्नेव काले तु सोऽश्रुतायुर्महारथः ।
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः ।
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ॥
ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते ।
सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् ॥
कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतनम् ।
आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम् ॥
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम् ।
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥
सचक्रकूबररथं साश्वध्वजपताकिनम् ।
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ॥
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत ।
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥
सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम् ।
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः ।
तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ॥
ते जघ्नुस्तौ महेष्वासौ ताभ्यां मुक्तांश्च सायकान् ।
विचेरुराकाशगताः पार्थचापविनिःसृताः ॥
प्रतिहत्य सरांस्तूर्णं शरवेगेन पाण्डवः ।
प्रतस्थे तत्रतत्रैव योधयन्वै महारथान् ॥
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ ।
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥
श्रुतायुषश्च निधनं वधश्चेवाश्रुतायुषः ।
लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥
तयोः पदानुगान्हत्वा पुनः पञ्चशतं रथान् ।
प्रत्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ॥
श्रुतायुषं च निहतं प्रेक्ष्य चैवाश्रुतायुषम् ।
नियतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत ॥
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रति जग्मतुः ।
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥
तावर्जुनो मुहूर्तेन शरैः सन्नतपर्वभिः ।
प्रैषयत्परमक्रुद्धो यमस्य सदनं प्रति ॥
लोडयन्तमनीकानि द्विपं पद्मसरो यथा ।
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः ॥
अङ्गास्तु गजसङ्घैश्च पाण्डवं पर्यवारयन् ।
क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः ॥
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः ।
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः ।
निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान् ॥
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः ।
बभौ कनकपाषाणा भुजगैरिव संवृता ॥
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च ।
पतमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥
शरैः सहस्रशो विद्धा द्विपाः प्रसृतशोणिताः ।
अदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः ।
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ॥
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः ।
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः ।
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः ।
भृशं त्रस्ताश्च बहवः स्वानेव ममृदुर्गजाः ॥
सोत्तरायुधिनश्चैव द्विपास्तीक्ष्णविषोपमाः ।
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः ॥
यवनाः पारदाश्चैव शकाश्च सह बाह्लिकैः ।
काकवर्णा दुराचाराः स्त्रीलोलाः कलहप्रियाः ॥
द्राविडास्तत्र युध्यन्ते मत्तमातङ्गविक्रमाः ।
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः ॥
दार्वातिसारा दरदाः पुण्ड्राश्चैव सहस्रशः ।
ते न शक्याः स्म सङ्ख्यातुं व्राताः शतसहस्रशः ॥
अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः ।
अवाकिरंश्च ते म्लेच्छा नानायुद्धविशारदाः ॥
तेषामपि ससर्जाशु शरवृष्टिं धनञ्जयः ।
सृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ॥
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः । मुण्डार्धमुण्डाञ्जटिलानशुचीञ्जटिलाननान् ।
म्लेच्छानशातयत्सर्वान्समेतानस्त्रतेजसा ॥
शरैश्च शतशो विद्धास्ते सङ्घा गिरिचारिणः ।
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥
गजाश्वसादिम्लेच्छानां पतितानां शितैः शरैः ।
बकाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ॥
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम् । शरवर्षप्लवां घोरां केशशैवलशाद्वलाम् ।
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥
छिन्नाङ्गुलीक्षुद्रमत्स्यां युगान्ते कालसन्निभाम् ।
प्राकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् ॥
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् । यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे ।
तथाऽऽसीत्पृथिवी सर्वा शोणितेन परिप्लुता ॥
षट््सहस्रान्हयान्वीरान्पुनर्दशशतान्वरान् ।
प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ॥
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः ।
शेरते भूमिमासाद्य शैला वज्रहता इव ॥
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः ।
प्रभिन्न इव मातङ्गो मृद्गन्नलवनं यथा ॥
भुरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् ।
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ॥
सेनारण्यं तव तथा कृष्णानिलसमीरितः ।
शरार्चिरदहत्क्रुद्धः पाण्डवोऽग्निर्धनञ्जयः ॥
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् । प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः ।
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् ॥
`ततः प्रावर्तत नदी शोणितौघतरङ्गिणी ।
नराश्वद्विपकायेभ्यः पर्वतेभ्य इवापगा ॥
अस्थिशर्करसम्बाधा ध्वजवृक्षा रथहदा ।
सञ्छिन्नशीर्षपाणाणा हस्तिहस्तमहाग्रहा ॥
मांसमज्जास्थिपङ्काढ्यां हताश्वमकराकुला ।
उष्णीषफेनसञ्छन्ना शरघोरझषाकुला ॥
रुद्रस्याक्रीडसदृशीं भूमिं कुर्वन्विभीषणाम्' ।
प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः ॥
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः । न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष ।
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ॥
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः ।
आससाद रणे पार्थं केशवं च महारथम् ॥
ततः सम्प्रहरन्वीरो गदामुद्यम्य भारत ।
रथमावार्य गदया केशवं समताडयत् ॥
गदया ताडितं दृष्ट्वा केशवं परवीरहा ।
अर्जुनोऽथ भृशं क्रुद्धः सोऽम्बष्ठं प्रति भारत ॥
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् ।
छादयामास समरे मेघः सूर्यमिवोदितम् ॥
अथापरैः शरैश्चापि गदां तस्य महात्मनः ।
अचूर्णयत्तदा पार्थस्तिदद्भुतमिवाभवत् ॥
अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम् ।
अर्जुनं वासुदेवं च पुनः पुनरताडयत् ॥
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ ।
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ॥
स पपात हतो राजन्वसुधामनुनादयन् ।
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ॥
अम्बष्ठे तु तदा भग्ने तव सैन्यमभज्यत ॥
रथानीकावगाढश्च वारणाश्वशतैर्वृतः । अदृश्यत पदा पार्थो घनैः सूर्य इवावृतः ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्धशदिवसयुद्धे त्रिनवतितमोऽध्यायः ॥ 93 ॥

5-93-43 गोयोनिप्रभवा नन्दिन्यां जाताः ॥ 5-93-46 सृष्टिः संसृष्टिः ॥ 5-93-47 जटिलाननान् जटिलानि रूढश्मश्रूण्याननानि येषाम् ॥ 5-93-50 प्रच्छन्नेन प्रच्छादनेन कृतो रचितः सङ्कमो यस्याम् ॥ 5-93-51 उत्तरशोणित्तां शोणितप्रधानाम् ॥ 5-93-53 हयान् अश्वारोहान् ॥ 5-93-93 त्रिनवतितमोऽध्यायः ॥

श्रीः