अध्यायः 106

द्रोणयुधिष्ठिरयोर्युद्धम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः ।
पाञ्चालाः कुरुभिः सार्धं किमकुर्वत स़ञ्जय ॥
सञ्जय उवाच ।
अपराह्णे महाराज सङ्ग्रमे रोमहर्षणे ।
पाञ्चालानां कुरूणां च द्रोणद्यूतमवर्तत ॥
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः ।
अभ्यमुञ्चन्त गर्जन्तः शरवर्षाणि मारिष ॥
ततस्तुल तुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः ।
पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ॥
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह ।
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः ।
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ॥
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।
विमुञ्चन्निशितान्बाणान्महेन्द्राशनिसन्निभान् ॥
तं तु प्रत्युद्ययौ शीघ्रं क्षेमधूर्तिर्महायशाः ।
विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्रमिव शम्बरः ॥
तमापतन्तं सहसा व्यादितास्यमिवान्तकम् ।
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥
युधिष्ठिरं महाराजं जिगीषुं समवस्थितम् ।
सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ॥
नकुलं कुशलं युद्धे पराक्रन्तं पराक्रमी ।
अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ॥
सहदेवं तथाऽऽयान्तं दुर्मुखः शत्रुकर्शनः ।
शैररनेकसाहस्रैः समवाकिरदाशुगैः ॥
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् ।
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ॥
द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् ।
संरब्धान्रथिनः श्रेष्ठान्सौमदत्तिरवारयत् ॥
भीमसेनं तदा क्रुद्धं भीमरूपो भयानकः ।
प्रत्यवारयदायान्तमार्श्यशृङ्गिर्महाबलः ॥
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे ।
यादृगेव पुरावृत्तं रामरावणयोर्नृप ॥
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् ।
आजघ्ने भरतश्रेष्ठः सर्वमर्मसु भारत ॥
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे ।
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥
अदृश्यं समरे चक्रे राजानं सायकोत्तमैः ।
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः ।
अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ॥
ततो द्रोणो भृशं क्रुद्धो दर्मराजस्य संयुगे ।
चिच्छेद समरे धन्वी धनुस्तस्य महात्मनः ॥
अथैनं छिन्नधन्वानं त्वरमाणो महारथः ।
शरैरनेकसाहस्रैः पूरयामास सर्वतः ॥
अदृश्यं वीक्ष्य राजानं भारद्वाजस्य सायकैः ।
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ॥
केचिच्चैनममन्यन्त तथैव विमुखीकृतम् ।
हृतो राजेति राजेन्द्र ब्राह्मणेन महात्मना ॥
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः । त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ।
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ॥
ततस्तान्सायकांस्तत्र दोणनुन्नान्सहस्रशः ।
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ॥
छित्त्वा तु ताञ्शरान्राजक्रोधसंरक्तलोचनः । शक्तं जग्राह समरे गिरीणामपि दारिणीम् ।
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली ।
नादेन सर्वभूतानि त्रासयन्निव भारत ॥
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे ।
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा । प्रज्वालयन्ती गगनं दिशः सप्रदिशस्तथा ।
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ॥
तामापतन्तीं सहसा दृष्ट्वा द्रोणो विशाम्पते ।
प्रादुश्चक्रै ततो ब्राह्ममस्त्रमस्त्रविदां वरः ॥
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् ।
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ॥
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् ।
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव मारिष ॥
विद्व्वा तं च रणे द्रोणं पञ्चभिर्नतपर्वभिः ।
क्षुरप्रेण सुतीक्ष्णेन चिच्छेदास्य महद्धनुः ॥
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः ।
गदां चिक्षेप सहसा धर्मपुत्राय मारिष ॥
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः ।
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तप ॥
ते गदे सहसा मुक्ते समासाद्य परस्परम् ।
सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले ॥
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष ।
चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ॥
चिच्छेदैकेन भल्लेन धनुश्चेन्द्रध्वजोपमम् ।
केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ॥
हताश्वात्तुल रथात्तूर्णमवप्लुत्य युधिष्ठिरः ।
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ॥
विरथं तं समालोक्य व्यायुधं च विशेषतः ।
द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ॥
मुञ्चंश्चेषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः ।
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ॥
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना ।
हाहेति सुमहाञ्शब्दः पाण्डूनां समजायत ॥
हृतो राजा हृतो राजा भारद्वाजेन मारिष ।
इत्यांसीत्सुमहाञ्शब्दः पाण्डूसैन्यस्य सर्वतः ॥
ततस्त्वरितमारुह्य सहदेवरथं नृपः ।
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षडधिकशततमोऽध्यायः ॥ 106 ॥

5-106-2 द्रोणे युद्धमवर्तत क. ङ. पाठः । घोरं युद्धमवर्तत इति ट.पाठः ॥ 5-106-6 कम्पयन्तो भुवमिति शेषः ॥ 5-106-15 सौमदत्तिः शलः ॥ 5-106-25 इतो राजेति अमन्यन्तेत्यनुषङ्गः ॥ 5-106-106 ष़डधिकशततमोऽध्यायः ॥

श्रीः