अध्यायः 108

द्रौपदेयैः शलवधः ॥ 1 ॥ भीमसेनेनालम्बुसपराजयः ॥ 2 ॥

सञ्जय उवाच ।
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः ।
एकैकं पञ्चभिर्विद्व्वा पुनर्विव्याध सप्तभिः ॥
ते पीडिता भृशं तेन रौद्रेण सहसा विभो ।
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन ॥
नाकुलिश्च शतानीकः सौमदत्तिं नरर्षभम् ।
द्वाभ्यां विद्व्वाऽनदद्वृष्टः शराभ्यां शत्रुकर्शनः ॥
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः ।
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥
स तान्प्रति महाराज पञ्च चिक्षेप सायकान् ।
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना ।
परिवार्य रणे वीरं विव्यधुः सायकैर्भृशम् ॥
अर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः ।
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ॥
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः ।
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥
यौधिष्ठिरिर्ध्वजं तस्य च्छित्त्वा भूमावपातयत् ।
नाकुलिश्चाथ यन्तारं रथनीडादपाहरत् ॥
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् ।
क्षुरप्रेण शिरो राजन्निचकर्त महात्मनः ॥
तच्छिरो न्यपतद्भूतौ तपनीयविभूषितम् ।
अभासयद्रुणोद्देशं बालसूर्यसमप्रभम् ॥
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः ।
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥
अलम्बुसस्तु समरे भीमसेनं महाबलम् ।
योधयामस सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ॥
सम्प्रयुद्धौ रमे दृष्ट्वा तावुभौ नरराक्षसौ ।
विस्मयः सर्वभूतानां भयं चासीत्सुदारुणम् ॥
आर्श्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः ।
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् ।
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥
स भीमं पञ्छभिर्विद्व्वा शरैः सन्नतपर्वभिः । भैमान्परिजघानाशु रथांस्त्रिशतमाहवे ।
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥
सोऽतिविद्धस्तथा भीमो राक्षसेन महाबलः ।
निषसाद रथोपस्थे मूर्च्छयाऽभिपरिप्लुतः ॥
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्च्छितः । विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ।
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः ।
शुशुभे सर्वतो राजन्प्रफुल्ल इव किंशुकः ॥
स वध्यमानः समरे भीमचापच्युतैः शरैः । स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ।
घोरं रूपमथो कृत्वा भीमसेनमभाषत ॥
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥ बाको नाम सुदुर्बुद्धे राक्षसप्रवरो बली ।
परोक्षं मम तद्वृत्तं यद्धाता मे हतस्त्वया ॥
सञ्जय उवाच ।
एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा ।
महता शरवर्षेण भृशं तं समवाकिरत् ॥
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा ।
आकाशं पूरयामास शरैः सन्नतपर्वभिः ॥
स वध्यमानो भीमेन निमेषाद्रथमास्थितः ।
जगाम धरणीं चैव क्षुद्रः खं सहसाऽगमत् ॥
उच्चावचानि रूपाणि चकार सुबहूनि च ।
अणुर्बृहत्पुनः स्थूलो नादान्मुञ्चन्निवाम्बुदः ॥
[निपेतुर्गगनाचत्चैव शरधाराः सहस्रशः ।
शक्तयः कणपाः प्रासाः शूलपट्टसतोमराः ॥
शतघ्न्यः परिघाश्चैव भिण़्डिपालाः परश्वथाः ।
शिलाः खङ्घा गुडाश्चैव ऋष्टीर्वज्राणि चैव ह ॥
सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा । जघान पाण्डुपुत्रस्य सैनिकान्रणमूर्धनि ॥]
उच्चावचास्तथा वाचो व्याजहार समन्ततः ।
तेन पाण्डवसैन्यानां सूदिता युधि वारणाः ॥
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ।
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।
छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् ॥
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् ।
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥
तं तथा समरे राजन्विचरन्तमभीतवत् ।
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥
तावकानां तु सैन्यानां प्रहर्षः समजायत ।
वादित्रनिनदश्चोग्रः सुमहान्रोमहर्षणः ॥
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः ।
नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः ।
सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः ॥
ततः शरसहस्राणि प्रादुरासन्समन्ततः ।
तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत् ॥
तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे ।
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥
स वध्यमानो बहुधा भीमसेनेन राक्षसः ।
सन्त्यज्य समरे भीमं द्रोणानीकमुपाद्रवत् ॥
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना ।
अनादयन्सिंहनादैः पाण्डवाः सर्वतो दिशम् ॥
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् ।
प्रहादमिव दैतेया यथा शक्रं मरुद्गणाः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टाधिकशततमोऽध्यायः ॥ 108 ॥

5-108-12 सौमदत्तेः शलस्य ॥ 5-108-27 बृहत् बृहन् ॥ 5-108-28 कुण्डलितः पाठो ङ. झ.ञ. पुस्तकेषु दृश्यते ॥ 5-108-29 ऋष्टीः ऋष्टयः ॥ 5-108-108 अष्टाधिकशततमोऽध्यायः ॥

श्रीः