अध्यायः 113

अर्जुनं गच्छतः सात्यकेः कृतवर्मणासह युद्धम् ॥ 1 ॥

सञ्जय उवाच ।
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया । धर्मराजो महाराज स्वेनानीकेन संवृतः ।
प्रायाद्द्रोणरथं प्रेप्सुर्युयुधानस्य पृष्ठतः ॥
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः ।
`प्रयाते माधवे राजन्निदं वचनमब्रवीत्' ॥
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ।
आगच्छत प्रहरत द्रुतं विपरिधावत ॥
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ।
महारथा हि बहवो यतिष्यन्तेऽस्य निर्जये ॥
सञ्जय उवाच ।
`सेनापतिवचः श्रुत्वा पाण्डवेयाः समन्ततः ।
अभ्युद्ययुर्महाराज तव सैन्यं समन्ततः ॥
जहि प्रहर गृह्णीहि विध्य विद्रव चाद्रव' ।
इति ब्रुवन्तौ वेगेन निपेतुस्ते महारथाः ॥
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः ।
`बाणशङ्खरवान्कृत्वा विमिश्रान्वाद्यनिस्वनैः ॥
युयुधानरथं दृष्ट्वा तावका अभिदुद्रुवुः' ।
ततः शब्दो महानासीद्युयुधानरथं प्रति ॥
आकीर्यमाणा धावन्ती तव पुत्रस्य वाहिनी ।
सात्वतेन महाराज शतधाऽभिव्यशीर्यत ॥
तस्यां विदीर्यमाणायां शिनेः पुत्रो महारथः ।
सप्तवीरान्महेष्वासानग्रानीकेष्वपोथयत् ॥
अथान्यानपि राजेन्द्र नानाजनपदेश्वरान् ।
शरैरनलसङ्काशैर्निन्ये वीरान्यमक्षयम् ॥
शतमेकेन विव्याध शतेनैकं च पत्रिणाम् । द्विपारोहान्द्विपांश्चैव हयारोहान्हयांस्तथा ।
रथिनः साश्वसूतांश्च जघानेशः पशूनिव ॥
तं तथाऽद्भुतकर्माणं शरसम्पातवर्षिणम् ।
न केचनाभ्यधावन्वै सात्यकिं तव सैनिकाः ॥
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना ।
आयोधनं जहुर्वीरा दृष्टा तमतिमानिनम् ॥
तमेकं बहुधा पश्यन्मोहितास्तस्य तेजसा ॥
रथैर्विमथितैश्चैव भग्ननीडैश्च मारिष ।
चक्रैर्विमथितैश्छत्रैर्ध्वजैश्च विनिपातितैः ॥
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः ।
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशाम्पते ॥
हस्तिहस्तोपमैश्चापि भुजङ्गाभोगसन्निभैः ।
ऊरुभिः पृथिवी च्छन्ना मनुजानां नराधिप ॥
शशाङ्कुसन्निभैश्चैव वदनैश्चारुकुण्डलैः ।
पतितैर्ऋषभाक्षाणां बभौ भारत मेदिनी ॥
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः ।
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ॥
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः । उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः ।
गतसत्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ॥
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः ।
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ॥
ततस्तेनैव मार्गेण येन यातो धनञ्जयः ।
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ॥
भारद्वाजं समासाद्य युयुधानश्च सात्यकिः ।
न न्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः ॥
निवार्य तु रणे द्रोणो युयुधानं महारथम् ।
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ॥
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः ।
हेमपुङ्घैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥
षं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् ।
स तं न ममृषे द्रोणं युयुधानो महारथः ॥
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः ।
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ॥
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः । एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् ।
ध्वजमेकेन बाणेन विव्याध युधि मारिष ॥
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः ।
त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ॥
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः ।
`प्राच्छादयदसम्भ्रान्तस्त्वरमाणो महारथः ॥
द्रोणस्तु परमक्रुद्धः सात्यकिं परवीरहा ।
अवाक्रिच्छितैर्बाणैर्वासुदेवपराक्रमम् ॥
तं तथा शरजालेन प्रच्छाद्य महता पुनः ।
द्रोणः प्रहस्य शैनेयमिदं वचनमब्रवीत्' ॥
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा ।
युध्यमानं च मां हित्वा प्रदक्षिणमवर्तत ॥
त्वं हि मे युध्यतो नाद्य जीवन्यास्यसि माधव ।
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ॥
सात्यकिरुवाच ।
धनञ्जयस्य पदवीं धर्मराजस्य शासनात् ।
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ॥
आचार्यानुगतो मार्गः शिष्यैरन्वास्यते सदा ।
तस्मादेव व्रजाम्याशु यथा मे स गुरुर्गतः ॥
सञ्जय उवाच ।
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् ।
प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ॥
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे ।
यत्तो याहि रणे सूत शृणु चेदं वचः परम् ॥
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् ।
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महद्बलम् ॥
तदनन्तरमेतच्च बाह्लिकानां महद्बलम् ।
बाह्लिकाभ्याशतो युक्तं कर्णस्य च महद्बलम् ॥
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे ।
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ॥
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् ।
मध्यमं जवमास्थाय वह मामत्र सारथे ॥
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः ।
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ॥
हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते ।
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ॥
`*ततः शक्यो महाव्यूहो भेत्तुं स सहसा रणे ।
तं देशं त्वरिता यामो मृद्ग्रन्तो युधि शात्रवान् ॥
तत्रैते सम्प्रहृष्टत्वान्नास्मान्प्रति युयुत्सवः ॥
अयुध्यमानो बहुभिरेकं प्राप्य सुदुर्बलम् ।
बलं प्रमथ्य गच्छामि मिषतां सर्वधन्विनाम् ॥
मध्यतो याहि यत्रोग्रं कर्णस्य सुमहद्बलम् । यत्रैते परमक्रुद्धा दाक्षिणात्या महारथाः ।
एतान्विजित्य सङ्ग्रामे ततो यामो धनञ्जयम् ॥
सञ्जय उवाच ।
युयुधानवचः श्रुत्वा युयुधानस्य सारथिः ।
यथोक्तमगमद्राजन्वर्जयन्द्रोणमाहवे' ॥
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् ।
युयुधानं महाभागं गच्छन्तमनिवर्तिनम् ॥
स च सैन्यं महद्भित्त्वा दाक्षिणात्यबलं च तत् ।
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः ॥
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ।
सात्यको हि ततः सैन्यं द्रावयन्स समन्ततः ॥
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च ।
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ॥
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः ।
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ॥
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः ।
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ॥
स ताड्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः ।
सात्वतेन महाराज कृतवर्मा न चक्षमे ॥
स वत्सन्दतं सन्धाय तिग्मांश्वनलसप्रभम् ।
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ॥
स तस्य देहावरणं भित्त्वा देहं च सायकः ।
सपुङ्खपत्रः पृथिवीं विवेश रुधिरोक्षितः ॥
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् ।
स मार्गणगणं राजन्कृतवर्मा शरासनम् ॥
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् ।
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ॥
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः ।
जघान दक्षिणं बहुं सात्यकिः कृतवर्मणः ॥
ततोऽन्यत्सुदृढं चापं पूर्णमायम्य सात्यकिः ।
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ॥
सरथं कृतवर्माणं समन्तात्पर्यवारयत् । छादयित्वा रणे राजन्हार्दिक्यं स तु सात्यकिः ।
अथास्य भल्लेन शिरः सारथेः समकृन्तत ॥
स पपात हतः सूतो हार्दिक्यस्य महारथात् ।
ततस्ते यन्तृरहिताः प्राद्रवंस्तुरगा भृशम् ॥
अथ भोजस्तु सम्भ्रान्तो निगृह्य तुरगामन्स्वयम् ।
तस्थौ वीरो धनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ॥
स मुहूर्तमिवाश्वास्य सदश्वान्समनोदयत् ।
व्यपेत भीरमित्राणामावहत्सुमहद्भयम् ॥
सात्यकिश्चात्यगात्तस्मात्स तु भीममुपाद्रवत् ॥
युयुधानोऽपि राजेन्द्र भोजानीकाद्विनिःसृतः ।
प्रययौ त्वरितस्तूर्णं काम्भोजानां महाचमूम् ॥
स तत्र बहुभिः शूरैः सन्निरुद्धो महारथैः ।
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ॥
सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च ।
अभ्यधावद्रणे यत्तो युयुधानं युयुत्सया ॥
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः । न्यवारयन्त संहृष्टाः पाण्डुसैन्ये ब्रृहत्तमाः ।
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् ॥
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः ।
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा ॥
यतमानांश्च तान्सर्वानीषद्विगतचेतसः ।
अभितस्ताञ्शरौघेण क्लान्तवाहानकारयत् ॥
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे । अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः ।
`हार्दिक्यं समरे यत्ता न शेकुः प्रतिवीक्षितुम्' ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रयोधशाधिकशततमोऽध्यायः ॥ 2 ॥

5-113-12 ईशो रुद्रः ॥ 5-113-19 ऋषोभस्येवाक्षीणि येषाम् ॥ 5-113-35 त्वंहि त्वमपि ॥ 5-113-42 भिन्नानि पृथग्भूतानि ॥ 5-113-* एतदादि पञ्चश्लोकानां स्थाने अधो लिखित एकएव श्लोकः झ. पुस्तकेऽस्ति । एतावदुक्त्वा यन्तारं ब्राह्मणं परिवर्जयन् । मध्यतो याहि यच्चोग्रं कर्णस्य च महद्वलम् ॥ 5-113-58 जिह्मागानिलसन्निभम् इति । झ. पाठः ॥ 5-113-71 सन्धाय यथास्थानमानीय ॥ 5-113-75 आर्यवत्कुलीनवत् । कुलीनत्वादितियावत् ॥ 5-113-113 त्रयोदशाधिकरशथतमोऽध्यायः ॥

श्रीः