अध्यायः 006

दुर्योधनेन द्रोणम्प्रति सैनापत्यस्वीकारप्रार्थना ॥ 1 ॥

सञ्जय उवाच ।
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा ।
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् ॥
दुर्योधन उवाच ।
वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया ।
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् ॥
तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि ।
युक्तो भवत्सश्रो गोप्ता राज्ञामन्यो न विद्यते ॥
स भवान्पातु नः सर्वान्देवानिव शतक्रतुः ।
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम ॥
रुद्राणामिव कापालिर्वसूनामिव पावकः ।
कुबेर इव यक्षाणां मरुतामिव वासवः ॥
वसिष्ठ इव विप्राणां तेजसामिव भास्करः ।
पितॄणामिव धर्मेन्द्रो यादसामिव चाम्बुराट् ॥
नक्षत्राणामिव शशी दितिजानामिवोशनाः ।
`सर्वेषामिव लोकानां विश्वस्य च यथा क्षयः' ॥
विश्वोत्पत्तिस्थितिलये श्रेष्ठो नारायणः प्रभुः ।
एवं सेनाप्रणेतॄणां मम सेनापतिर्भव ॥
अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ ।
ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव ॥
प्रयातु नो भवानग्रे देवानामिव पावकिः ।
अनुयास्यामहे त्वाऽऽजौ सौरभेया इवर्षभम् ॥
उग्रधन्वा महेष्वासो दिव्यं विष्फारयन्धनुः ।
दृष्ट्वा भवन्तं सङ्ग्रामे नार्जुनः प्रहरिष्यति ॥
ध्रुवं युधिष्ठिरं सङ्ख्ये सानुबन्धं सबान्धवम् ।
जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि ॥
सञ्जय उवाच ।
एवमुक्ते ततो द्रोणं जयेत्यूचुर्नराधिपाः ।
सिंहनादेन महता हर्षयन्तस्तवात्मजम् ॥
सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् । दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः ।
दुर्योधनं ततो राजन्द्रोणो वचनमब्रवीत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

5-1-4 भवान्नेस्रं तेना येषां ते ॥ 5-1-6 धर्मेन्द्रो यमः । अम्बुराट् वरुणः ॥ 5-1-10 पावकिः स्कन्दः ॥ 5-1-6 षष्टोऽध्यायः ॥

श्रीः