अध्यायः 116

सात्यकिना दुर्योधनकृतवर्मणोः पराजयः ॥ 1 ॥

सञ्जय उवाच ।
`सात्वतस्य रणे कर्म दृष्ट्वा योद्धुं महारथाः ।
अमृष्यमाणाः संयत्ताः शैनेयं समुपाद्रवन्' ॥
ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः ।
त्वरमाणा महाराज युयुधानमयोधयन् ॥
तं द्रोणः सप्तसप्त्या जघान निशितैः शरैः ।
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ॥
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः ।
विव्याध मार्गणैस्तूर्णं वामपार्श्वे स्तनान्तरे ॥
दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः ।
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ॥
दुर्योधनश्च महता शरवर्षेण माधवम् ।
अपीडयद्रमे राजञ्शूराश्चान्ये महारथाः ॥
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः ।
`स तुद्यमानश्च तदा सर्वतः कुरुपुङ्गवैः' ॥
तान्प्रत्यविध्यद्वार्ष्णेयः पृथक्पृथगजिह्मगैः ।
`सात्यकिः पुण्डरीकाक्षो ह्यस्त्रेषु परिनिष्ठितः' ॥
भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिः शरैः ।
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥
दुर्मर्षणं द्वादशभिरष्टाभिश्च विविंशतिम् ।
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ॥
`दुर्योधनं त्रिभिर्विद्ध्वा सुपुङ्खैस्तिग्मतेजनैः' । ततो रुक्माङ्गदं चापं विधुन्वानो महारथः ।
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥
राजानं सर्वलोकस्य सर्वलोकमहारथम् ।
शरैरभ्यहनद्गाढं ततो युद्धमभूत्तयोः ॥
विमुञ्चतौ शरांस्तीक्ष्णान्सन्दधानौ च सायकान् ।
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत ।
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥
सात्वतेन च बाणौधैर्निर्विद्धस्तनयस्तव ।
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥
माधवस्तु रमे राजन्कुरुराजस्य धन्विनः ।
धनुश्चिच्छेद समरे क्षुरप्रेण हसन्निव ॥
अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् । निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा ।
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् ।
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ॥
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना ।
अमर्षवशमापन्नस्तव पुत्रमपीडयत् ॥
पीडितं नृपतिं दृष्ट्वा तव पुत्रं महारथाः ।
सात्यकिं शरवर्षेण छादयामासुरोजसा ॥
स च्छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः । एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।
दुर्योधनं व त्वरितो विव्याधाष्टभिराशुगैः ॥
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ।
नागं मणिमयं चैव शरैर्ध्वजमपातयत् ॥
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ।
सारथिं पातयामास क्षुरप्रेण महायशाः ॥
एतस्मिन्नन्तरे चैव कुरुराजं महारथम् ।
अवारिकच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ॥
स विध्यमानः समरे शैनेयस्य शरोत्तमैः । प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ।
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ॥
हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे ।
ग्रस्यमानं सात्यकिना खे मोममिव राहुणा ॥
तं तु शब्दमथ श्रुत्वा कृतवार्मा महारथः ।
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ॥
विधुन्वानो धनुः श्रेष्ठं चोदयंश्चैव वाजिनः ।
भर्त्सयन्सारथिं चाग्रे याहियाहीति सत्वरम् ॥
तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम् ।
युयुधानो महाराज यन्तारमिदमब्रवीत् ॥
कृतवर्मा रथेनैष द्रुतमापतते शरी ।
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ॥
`प्रयाहि सत्वरं सूत रथेन रथसत्तमम् ।
निहनिष्यामि तं सङ्ख्ये वृष्णिवीरमरिन्दमम्' ॥
ततः प्रजविताश्वेन रथेन रथिनांवरः ।
आससाद रणे भोजं प्रतिमानं धनुष्मताम् ॥
ततो गभस्तिमत्प्रख्यौ ज्वलिताविव पावकौ ।
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ॥
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् ।
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य पञ्चभिः ॥
चतुरश्चतुरो वाहांश्चतुर्भिः परमेषुभिः ।
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य हि ॥
रुक्मध्वजो रुक्मपृष्ठं महद्विष्फार्य कार्मुकम् ।
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खैरवारयत् ॥
ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे ।
प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनञ्जयम् ॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।
समकम्पतः दुर्धर्षः क्षितिकम्पे यथाऽचलः ॥
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं तथा ।
विव्याध निशितैस्तूर्णं सात्यकिः सत्यविक्रमः ॥
`हताश्वसूते तु रथे स्थिताय शिनिपुङ्गवः' । सुवर्णपुङ्खं विशिखं समादाय च सात्यकिः ।
व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम् ॥
सोऽविध्यत्कृतवर्माणं यमदण्डोपमः शरः । जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् ।
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ॥
सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः ।
सशरं धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमात् ॥
स सिंहदंष्ट्रो जानुभ्यां पतितोऽमितविक्रमः ।
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥
सहस्रबाहुसदृशमक्षोभ्यमिव सागरम् ।
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ॥
`न हि तस्य शरोऽपार्थः कथञ्चिदपि पार्थिव ।
दिदृक्षुः स हि वेगेन प्रायाद्यत्र धनञ्जयः ॥
स शक्त्या क्षत्रियैस्तत्र निरुद्धो बलवत्तरः ।
युयुधे सात्वतो राजन्दिदृक्षुः पाण्डुनन्दनम्' ॥
खङ्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम् ।
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः ।
अभ्यगाद्वाहिनीं हित्वा वृत्रहेवासुरीं चमूम् ॥
समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः ।
तस्थौ स तत्र बलवान्वारयन्युधि पाण्डवान् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पोडशाधिकशततमोऽध्यायः ॥ 116 ॥

5-116-11 रुक्माङ्गदं चापि इति ङ.पाठः ॥ 5-116-14 चन्दनो रक्तचन्दनः ॥ 5-116-43 दंष्ट्राश्चतस्रो यस्य स्युर्दशनेभ्यः समुच्छ्रिताः । सिंहदंष्ट्रः स गदितश्चतुर्दंष्ट्रश्च सूरिभिः ॥ 5-116-116 षोडशाधिकशततमोऽध्यायः ॥

श्रीः