अध्यायः 120
सात्यकियुद्धवर्णनम् ॥
सञ्जय उवाच ।
जित्वा यवनकाम्भोजान्युयुधानस्ततोऽर्जुनम् ।
जगाम तव सैन्यस्य मध्येन रथिनां वरः ॥
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः ।
मृगं व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥
स रथेन चरन्मार्गान्धनुरुद्धामयद्भृशम् ।
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ॥
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः ।
रुक्मध्वजधनुः शूरो मेरुशृङ्गमिवाबभौ ॥
सधनुर्मण्डलः सङ्ख्ये तेजोभासुररश्मिवान् ।
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः ।
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥
मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम् ।
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ॥
व्याधा इव जिघांसन्तस्त्वदीयाः समुपाद्रवन् ।
`सात्यकिं समरे राजन्परिवव्रुस्तवात्मजाः' ॥
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् ।
जलसन्धार्णवं तीर्त्वा काम्भोजानां च वाहिनीम् ॥
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् ।
परिवव्रुः सुसङ्क्रुद्वास्त्वदीयाः सात्यकिं रथाः ॥
दुर्योधनश्चित्रसेनो दुःशासनविविंशती ।
शकुनिर्दुःसहश्चैव युवा दुर्धर्षणः क्रथः ॥
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः ।
पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिणः ॥
अथ शब्दो महानासीत्तव सैन्यस्य मारिष ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥
तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः ।
शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ॥
इदमेति समुद्धूतं धार्तराष्ट्रबलं महत् ।
मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ।
नादयद्वै दिशः सर्वा रथघोषेण सारथे ॥
पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि ।
एतद्बलार्णवं सूत वारयिष्ये महारणे ।
पौर्णमास्यामिवोद्धूतं वेलेव मकरालयम् ॥
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे ।
एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ॥
निहतानाहवे पश्य पदात्यश्वरथद्विपान् ।
मच्छरैरग्निसङ्काशैर्विद्धदेहान्सहस्रशः ॥
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः ।
समीपे सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ।
जह्याद्रवस्व तिष्ठेति पश्यपश्येति वादिनः ॥
तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः ।
जघानं त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ।
`लध्वस्त्रश्चित्रयोधी च प्रहरञ्शिनिपुङ्गवः' ॥
स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् ।
देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष ।
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ॥
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् ।
असम्भ्रमन्महाराज तावकानवधीद्बहून् ॥
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् ।
न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ॥
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः ।
शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ॥
सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः ।
तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः ।
बभ्राम तत्रतत्रैव गावः शीतार्दिता इव ॥
पदातिनं रथं नागं सादिनं तुरगं तथा ।
अविद्वं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः ।
यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ॥
अत्यर्जुनं शिनेः पौत्रो युध्यते पुरुषर्षभः ।
वीतभीर्लाघवोपेतः कृतित्वं सम्प्रदर्शयन् ॥
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः ।
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ॥
सात्यकिं च त्रिभिर्विद्व्वा पुनरष्टाभिरेव च ।
दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ॥
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः ।
दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ॥
उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः ।
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ॥
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः ।
शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ॥
सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च ।
दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा ।
दुःशासनं तु विंशत्या विव्याध शिनिपुङ्गवः ॥
अथान्यद्धनुरादाय श्यालस्तव विशाम्पते ।
अष्टाभिः सात्यकिं विद्व्वा पुनर्विव्याध पञ्चभिः ॥
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः ।
दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ॥
दुर्योधनस्त्रिसप्तत्या किद्व्वा भारत माधवम् ।
ततोस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ॥
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् ।
पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ॥
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् ।
आजघानाशु भल्लेन स हतो न्यपतद्भुवि ॥
पतिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो ।
वातायमानैस्तैरश्वैरपानीयत सङ्गरात् ॥
ततस्तव सुतो राजन्सैनिकाश्च विशाम्पते ।
राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ॥
विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः ।
अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥
विद्राव्य सर्वसैन्यानि तावकानि सहस्रशः ।
प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ॥
`तं प्रयान्तं महाबाहुं तावकाः प्रेक्ष्य मारिष ।
दृष्टं चादृष्टवत्कृत्वा क्रियामन्यामयोजयन्' ॥
तं शरानाददानं च रक्षमाणं च सारथिम् ।
आत्मानं पालयानं च तावकाः समपूजयन् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥
श्रीः