अध्यायः 121

सात्यकियुद्धवर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
सम्प्रद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् ।
निर्हीका मम ते पुत्राः किमकुर्वत सञ्जय ॥
कथं वैषां तदा युद्धे धृतिरासीन्मुमूर्षताम् ।
शैनेयचरितं दृष्ट्वा यादृशं सव्यसाचिनः ॥
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः ।
कथं नु सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ॥
कथं च मम पुत्राणां जीवतां तत्र सञ्जय ।
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व सञ्जय ॥
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् ।
एकस्य बहुभिः सार्धं शत्रुभिस्तैर्महारथैः ॥
विपरीतमहं मन्ये मन्दभाग्यं सुतं प्रति ।
यत्रावध्यन्त समरे सात्वतेन महारथाः ॥
एकस्य हि न पर्याप्तं यत्सैन्यं तस्य सञ्जय ।
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण़्डवाः ॥
निर्जित्य समरे द्रोणं कृतिनं चित्रयोधिनम् ।
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ॥
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे ।
युयुधानो न शकितो हन्तुं यत्पुरुषर्षभः ॥
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः ।
यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः ॥
स़ञ्जय उवाच ।
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च ।
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ॥
ते पुनः सन्न्यवर्तन्त कृत्वा संशपथान्मिथः ।
परां युद्धे मतिं क्रूरां तव पुत्रस्य शासनात् ॥
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः ।
शककाम्भोजबालह्लीका यवनाः पारदास्तथा ॥
कुलिन्दास्तङ्कणाम्बष्ठाः पैशाचाश्च सबर्बराः । पार्वतीयाश्च राजेन्द्र क्रुद्धाः पाषाणपाणयः ।
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ॥
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् ।
शूराः पञ्चशतं राजञ्शैनेयं समुपाद्रवन् ॥
ततो रथसहस्रेण महारथशतेन च ।
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ॥
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः ।
अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः ॥
तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत ।
दुःशासनो महाराज सात्यकिं पर्यवारयत् ॥
तत्राद्भुतमपश्याम शैनेयचरितं महत् ।
यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत ॥
अवधीच्च रथानीकं द्विरदानां च तद्बलम् ।
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ॥
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः ।
अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ॥
कुञ्जरैर्मथितैश्चापि ध्वजैश्च विनिपातितैः ।
वर्मभिश्च तथाऽनीकैर्व्यवकीर्णा वसुन्धरा ॥
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष ।
सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ॥
गिरिरूपधरैश्चापि पतितैश्च महागजैः ।
`म्लेच्छस्थितैर्महाराज भिन्नाञ्जनचयोपमैः ॥
मृगैर्मन्द्रैश्च भद्रैश्च मृगमन्द्रैस्तथाऽपरैः ।
भद्रैर्मन्द्रमृगैश्चैव मृगभद्रैस्तथैव च ॥
भद्रमन्द्रैश्चैव तथा तथा भद्रमृगैरपि ।
तत्रतत्र धरा कीर्णा शयानैः पर्वतोपमैः' ॥
अञ्जनस्य कुले जाता वामनस्य च भारत ।
सुप्रतीककुले जाता महापद्मकुले तथा ॥
ऐरावतकुले चैव तथाऽन्येषु कुलेषु च ।
जाता दन्तिवरा राजञ्शेरते बहवो हताः ॥
वनायुजान्पार्वतीयान्काम्भोजान्बाह्लिकानपि ।
तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः ॥
नानादेशसमुत्थांश्च नानाजातींश्च दन्तिनः ।
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ॥
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् ।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥
तांश्चातिभग्नासन्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव ।
पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् ॥
अश्मयुद्धेषु कुशला नैतञ्जानापि सात्यकिः ।
अश्मयुद्धमजानन्तं हतैनं युद्धकामुकम् ॥
तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः ।
अभिद्रवत माभैष्ट न वः प्राप्स्यति सात्यकिः ॥
ते पार्वतीया राजानः सर्वे पाषाणयोधिनः ।
अभ्यद्रवन्त शैनेयं राजानमिव मन्त्रिणः ॥
ततो गजशिरःप्रख्यैरुपलैः शैलवासिनः ।
उद्यतैर्युयुधानस्य पुरतस्तस्थुराहवे ॥
क्षेरणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः ।
चोदितास्तव पुत्रेण सर्वतो रुरुधुर्दिशः ॥
तेषामापततामेव शिलायुद्धं चिकीर्षताम् ।
सात्यकिः प्रतिसन्धाय निशितान्प्राहिणोच्छरान् ॥
तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् ।
चिच्छेदोरगसंकाशैर्नाराचैः शिनिपुङ्गवः ॥
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः ।
प्रायः सैन्यान्यहन्यन्त हाहाभूतानि मारिष ॥
ततः पञ्चशतं शूराः समुद्यतमहाशिलाः ।
निकृत्तबाहवो राजन्निपेतुर्धरणीतले ॥
सात्वतस्य च भल्लेन निष्पिष्टैस्तैस्तथाऽद्रिभिः ।
न्यपतन्निहता म्लेच्छास्तत्रतत्र गतासवः ॥
ते हन्यमानाः समरे सात्वतेन महात्मना ।
अश्मवृष्टिं महाघोरां पातयन्ति स्म सात्वते ॥
पाषाणयोधिनः शूरान्यतमानानवस्थितान् ।
न्यवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ॥
ततः पुनर्बस्तमुखैरश्मवृष्टीः समन्ततः ।
अधोबस्तैः स्थूलबस्तैर्दरदैः खसतङ्कणैः ॥
लम्बकैश्च कुणिन्दैश्च क्षिप्ताः क्षिप्ताश्च सात्यकिः ।
नाराचैः प्रतिचिच्छेद प्रतिपत्तिविशारदः ॥
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः ।
शब्देन प्राद्रवन्सङ्ख्ये रथाश्वगजपत्तयः ॥
अश्मचूर्णैरवाकीर्णा मनुष्यगजवाजिनः ।
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ॥
हतशिष्टाः सरुधिरा भिन्नमस्तकपिण़्डिकाः । `विभिन्नशिरसो राजन्दन्तैश्छिन्नैश्च दन्तिनः ।
निर्धूतैश्च करैर्नागा व्यङ्गाश्च शतशः कृताः ॥
हत्वा पञ्चशतं योधांस्तत्क्षणेनैव मारिष ।
व्यचरत्पृतनामध्ये शैनेयः कृतहस्तवत् ॥
कुञ्जराः सन्न्यवर्तन्त युयुधानेन मोहिताः ॥
अश्मनां भिद्यमानानां सायकैः श्रूयते ध्वनिः ।
पद्मपत्रेषुधाराणां पतन्तीनामिव ध्वनिः' ॥
ततः शब्दः समभवत्तव सैन्यस्य मारिष ।
माधवेनार्द्यमानस्य सागरस्येव पर्वणि ॥
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् ।
एष सूत रणे क्रुद्धः सात्वतानां महारथः ॥
दारयन्बहुधा सैन्यं रणे चरति कालवत् ।
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ॥
पाषाणयोधिभिर्नूनं युयुधानः समागतः ।
तथाहि रथिनः सर्वे हियन्ते विद्रुतैर्हयैः ॥
विशस्त्रकवचा रुग्णास्तत्रतत्र पतन्ति च ।
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ॥
सञ्जय उवाच ।
इत्येतद्वचनं श्रुत्वा भारद्वाजस्य सारथिः ।
प्रत्युवाच ततो द्रोणं सर्वशस्त्रभृतां वरम् ॥
सैन्यं द्रवति चायुष्मन्कौरवेयं समन्ततः ।
पश्य योधान्रणे भग्नान्धावतो वै ततस्ततः ॥
इमे च संहताः शूराः पाञ्चालाः पाण्डवैः सह ।
त्वामेव हि जिघांसन्त आद्रवन्ति समन्ततः ॥
अत्र कार्यं समाधत्स्व प्राप्तकालमरिन्दम ।
स्वाने वा गमने वापि दूरं यातश्च सात्यकिः ॥
सञ्चय उवाच ।
तथैवं वदतस्तस्य भारद्वाजस्य सारथेः ।
प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् ॥
ते वध्यमानाः समरे युयुधानेन तावकाः ।
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ॥
यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत ।
ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥

5-121-11 दुर्योधनस्य कृतेन कर्मणा ॥ 5-121-12 मतिं कृत्वेत्यन्वयः ॥ 5-121-25 मृगमन्द्रादयो गजविशेषाः ॥ 5-121-27 वामनस्य यमोपवाह्यस्य । सुप्रतीकस्य ईशोपवाह्यस्य । महापद्मस्य कुमुदस्य कुले ॥ 5-121-28 अन्येषु कुलेषु पुण्डरीकपुष्पदन्तसार्वभौमीयेषु ॥ 5-121-37 क्षेपणीयैः शस्त्रैः ॥ 5-121-45 ततः पुनर्व्यात्तमुखास्तेऽश्मवृष्टीः समन्ततः । अयोहस्ताः शूलहस्ता दरदास्तङ्कणाः खसाः । लम्पकाश्च कुलिन्दाश्च चिक्षिपुस्तांश्च सात्यकिः । इति झ.ञ.घ.पाठः ॥ 5-121-47 अद्रीणां प्रस्तराणाम् ॥ 5-121-121 एकविंशत्यधिकशततमोऽध्यायः ॥

श्रीः