अध्यायः 123

सात्यकिना दुःशासनपराजयः ॥ 1 ॥

सञ्जय उवाच ।
ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत् ।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥
स विद्व्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः ।
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥
तं तु दुःशासनः शूरः सायकैरावृणोद्भृशम् ।
रथव्रातेन महता नानादेशोद्भवेन च ॥
सर्वतो भरतश्रेष्ठ विसृजन्सायकान्बहून् ।
पर्जन्य इव घोषेण नादयन्वै दिशो दश ॥
तमापतन्तमालोक्य सात्यकिः कौरवं रणे ।
अभिद्रुत्य महाबाहुश्छादयामास सायकैः ॥
ते छाद्यमाना बाणौघैर्दुःशासनपुरोगमाः ।
प्राद्रवन्समरे भीतास्तव सैन्यस्य पश्यतः ॥
तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशानस्तव ।
तस्थौ व्यपेतभी राजन्सात्यकिं चार्दयच्छरैः ॥
चतुर्भिर्वाजिनस्तस्य सारथिं च त्रिभिः शरैः ।
सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः ॥
ततः क्रुद्धो महाराज माधवस्तस्य संयुगे ।
रथं सूतं ध्वजं तं च चक्रेऽदृश्यमजिह्मगैः ॥
स तु दुःशासनं शूरं सायकैरावृणोद्भृशम् ।
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥
त्वरन्समावृणोद्बाणैर्दुःशासनममित्रजित् ॥ दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् ।
त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ॥
तेऽगच्छन्युयुधानस्य समीपं क्रुरकर्मणः ।
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ॥
ते तु तं रथवंशेन महता पर्यवारयन् ।
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ॥
तेषां प्रयतमानानां शरवर्षाणि मुञ्चताम् ।
योधान्पञ्चशतान्मुख्यानग्र्यानीके व्यपोथयत् ॥
तेऽपतन्निहतास्तूर्णं शिनिप्रवरसायकैः ।
महामारुतवेगेन भग्ना इव नगाद्द्रुमाः ॥
नागैश्च बहुधा च्छिन्नैर्ध्वजैश्चैव विशाम्पते ।
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ॥
शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः ।
अशोभत महाराज किंशुकैरिव पुष्पितैः ॥
ते वध्यमानाः समरे युयुधानेन तावकाः ।
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति ।
भयात्पतगराजस्य गर्तानीव महोरगाः ॥
हत्वा पञ्चशतान्योधाञ्छरैराशीविषोपमैः ।
प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति ॥
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव ।
विव्याध नवभिस्तूर्णं शरैः सन्नतपर्वभिः ॥
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः ।
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ॥
सात्यकिं तु महाराज प्रहसन्निव भारत ।
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥
शैनेयस्तव पुत्रं तु हत्वा पञ्चभिराशुगैः ।
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ॥
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते ।
सर्वपारशवीं शक्तिं विससर्ज जिघांसया ॥
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः ।
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ॥
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर ।
सात्यकिं च शरैर्विद्ध्वा सिंहनादं ननाद च ॥
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव ।
शरैरग्निशिखाकारैराजघान स्तनान्तरे ॥
त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः ।
सर्वायसैस्तीक्ष्णवक्त्रैः पुनर्विव्याध चाष्टभिः ॥
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत ।
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ॥
त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः ।
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः ॥
सारथिं च सुराङ्क्रुद्धः शरैः सन्नतपर्वभिः ।
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः ॥
ध्वजं च रथशक्तिं च भल्लाभ्यां परमस्त्रिवित् ।
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
त्रिगर्तसेनापतिना स्वरथेनापवाहितः ॥
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत ।
न जघान महाबाहुर्भीमसेनवचः स्मरन् ॥
भीमसेनेन तु वधः सुतानां तव भारत ।
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ॥
ततो दुःशासनं जित्वा सात्यकिः संयुगे प्रभो ।
जगाम त्वरितो राजन्येन यातो धनञ्जयः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥

श्रीः