अध्यायः 007

दुर्योधनेन द्रोणस्य सैनापत्येऽभिषेचनम् ॥ 1 ॥ द्रोणयुद्धवर्णनम् ॥ 2 ॥

द्रोण उवाच ।
वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् ।
त्रैय्यम्बकमथेष्वस्त्रं शस्त्राणि विविधानि च ॥
ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः ।
चिकीर्षुस्तानहं सर्वान्योधयिष्यामि पाण्डवान् ॥
पार्षतं तु रणे राजन्न हनिष्ये कथञ्चन ।
स हि सृष्टो वधार्थाय ममैव पुरुषर्षभः ॥
योधयिष्यामि सैन्यानि नाशयन्सर्वसोमकान् ।
न च मां पाण्डवा युद्धे योधयिष्यन्ति हर्षिताः ॥
सञ्जय उवाच ।
स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः ।
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा ॥
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः । `स्वस्तिवादरवैश्चान्यैः श्लक्ष्णैश्चान्यैर्मनोरमैः' ।
सैनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः ॥
ततो वादित्रघोषेण शङ्खानां च महास्वनैः ।
प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा ॥
ततः पुण्याहघोषेण साशीर्वादस्वनेन च ।
संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् ॥
जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा ।
सत्कृत्य विधिना द्रोणं मेनिरे पाण्डवाञ्जितान् ॥
सञ्जय उवाच ।
सैनापत्यं तु संप्राप्य भारद्वाजो महारथः ।
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह ॥
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः ।
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः ॥
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः ।
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः ॥
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः ।
दुःशासनमुखा यत्ताः सव्यं पक्षमपालयन् ॥
तेषां प्रपक्षाः काम्भोजाः सुदक्षिणपुस्सराः ।
ययुरश्चैर्महावेगैः शकाश्च यवनैः सह ॥
मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यमालवाः ।
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह ॥
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः ।
नवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ॥
हर्षयन्तः स्वसैन्यानि ययुस्तव सुतैः सह ।
प्रवरः सर्वयोधानां बलेषु बलमादधम् ॥
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ।
तस्य दीप्तो महाकायः स्वान्यनीकानिहर्षयन् ॥
हस्तिकक्ष्यो गहाकेतुर्बभौ सूर्यसमद्युतिः ।
न भीष्मव्यसनं कश्चिदृष्ट्वा कर्णममन्यत ॥
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह ।
हृष्टाश्च बहवो योधास्तत्राजल्पन्त वेगतः ॥
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ।
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् ॥
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ।
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना ॥
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यति संयुगे ।
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशांपते ॥
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः ।
अस्माकं शकटव्यूहों द्रोणेन विहितोऽभवत् ॥
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् ।
प्रीयमाणेन विहितो धर्मराजेन भारत ॥
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ ।
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ ॥
ककुदं सर्वसैन्यानां धाम सर्वधनुष्मताम् ।
आदित्यपथगः केतुः पार्थस्यामिततेजसः ॥
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः ।
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम् ॥
दीप्यन्दृश्येत हि तथा केतुः सर्वत्र धीमतः ।
योधानामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् ॥
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् ।
चत्वार्येतानि तेजाञ्सि वहञ्श्वेतहयो रथः ॥
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ।
एवं तौ सुमहात्मानौ बलसेनाग्रगावुभौ ॥
तावकानां मुखे कर्णः परेषां च धनंजयः ।
ततो जयाभिसंरब्धौ परस्परवधैषिणौ ॥
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ ।
ततः प्रयाते सहसा भारद्वाजे महारथे ॥
सिंहनादेन घोरेण वसुधा समकम्पत ।
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् ॥
वातोद्भूतं रजस्तीव्रं कौशेयनिकरोपमम् ।
ववर्ष द्यौरनभ्राऽपि मांसास्थिरुधिराण्युत ॥
गृध्राः श्येना बकाः कङ्का वायसाश्च सहस्रशः ।
उपर्युपरि सेनां ते तदा पर्यपतन्नृप ॥
गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् ।
अकार्षुरपसव्यं च बहुशः पृतनां तव ॥
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् ।
अपतद्दीप्यमाना च सनिर्घाता सकम्पना ॥
उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः ।
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् ॥
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ । एते चान्ये च बहवः प्रादुरासन्सुदारुणाः ।
उत्पाता युधि वीराणां जीवितक्षयकारिणः ॥
ततः प्रववृते युद्धं परस्परवधैषिणाम् ।
कुरुपाण्डवसैन्यानां शब्देनापूरयज्जगत् ॥
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह ।
अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः ॥
स पाण्डवानां महतीं महेष्वासो महाद्युतिः ।
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ॥
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सहसृञ्जयैः ।
प्रत्यगृह्णंस्तदा राजञ्छरवर्षैः पृथक्पृथक् ॥
विक्षोभ्यमाणआ द्रोणेन भिद्यमाना महाचमूः ।
व्यशीर्यत सपाञ्चाला वातेनेव वलाहकाः ॥
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे ।
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ॥
ते वध्यमाना द्रोणेन वासवेनेव दानवाः ।
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ॥
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः ।
अभिनच्छरवर्षेण द्रोणानीकमनेकधा ॥
द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः ।
सन्निवार्य ततः सर्वान्कुरूनप्यवधीद्बली ॥
संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे ।
स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत् ॥
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति ।
मघवान्समभिक्रुद्धः सहसा दानवानिव ॥
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः ।
पुनःपुनरभज्यन्त सिंहेनैवेतरे मृगाः ॥
तथा पर्यपतद्रोणः पाण्डवानां बले बली ।
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ॥
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्गिताश्वम् ।
स्फटिकविमलकेतुं त्रासनं शात्रवाणां रथवरमधिरूढः सञ्जहारारिसेनाम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि

5-1-9 सुभगानर्तितैः सौभाग्यवतीनृत्तैः ॥ 5-1-27 आदित्यपथगः आकाशगः ॥ 5-1-54 ह्लादनं योद्भुरानन्दजननम् ॥ 5-1-7 सप्तमोऽध्यायः ॥

श्रीः