अध्यायः 125

द्रोणपराक्रमवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
अपराह्णे महाराज सङ्ग्रामः सुमहानभूत् ।
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥
शोणाश्वं रथमास्थाय नरवीरः समाहितः ।
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥
तव प्रियहिते युक्तो महेष्वासो महाबलः । चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः ।
`जघान सोमकान्राजन्सृञ्जयान्केकयानपि' ॥
वरान्वरान्हि योधानां विचिन्वन्निव भारत ।
आक्रीडत रमे राजन्भारद्वाजः प्रतापवान् ॥
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।
भातॄणां नृप पञ्चानां श्रेष्ठः समरकर्कशः ॥
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं भृशमार्दयत् ।
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् ।
प्रेषयामास सङ्क्रुद्ध- सायकान्दश पञ्च च ॥
तांस्तु द्रोणविनिर्मुक्तान्क्रुंद्धाशीविषसन्निभान् ।
एकैकं पञ्चभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥
तदस्य लाघवं दृष्ट्वा प्रहस्य द्विजपुङ्गवः ।
प्रेषयामास विशिखानष्टौ सन्नतपर्वणः ॥
तान्दृष्ट्वा पततस्तूर्णं द्रोणचापच्युताञ्शरान् ।
अवारयच्छरैरेव तावद्भिर्निशितैर्मृधे ॥
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः ।
बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥
ततो द्रोणो महाराज बृहत्क्षत्रं विशेषयन् ।
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं सुदुर्जयम् ॥
कैकेयोऽस्त्रं समालोक्य मुक्तं द्रोणेन संयुगे ।
ब्रह्मास्त्रेणैव राजेन्द्र ब्राह्ममस्त्रमशातयत् ॥
ततोऽस्त्रे निहते ब्राह्मे बृहत्क्षत्रस्तु भारत ।
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समार्पयत् ।
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम ।
तथाऽत्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥
सोऽतिविद्धो महाराज कैकेयो द्रोणसायकैः ।
क्रोधेन महताऽऽविष्टो व्यावृत्य नयने शुभे ॥
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ।
सारथिं चास्य बाणेन भृशं मर्मस्वताडयत् ॥
द्रोणस्तु बहुभिर्विद्धो बृहत्क्षत्रेण मारिष ।
असृजद्विशिखांस्तीक्ष्णान्कैकेयस्य रथं प्रति ॥
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् ।
अश्वांश्चतुर्भिरन्यवधीच्चतुरोऽस्य पतत्त्रिभिः ॥
सूतं चैकेन बाणेन रथनीडादपातयत् ।
द्वाभ्यां ध्वजं च च्छत्रं च च्छित्त्वा भूमावपातयत् ॥
ततः साधुविसृष्टेन नाराचेन द्विजर्षभः ।
हृद्यविध्यद्बृहत्क्षत्रं स च्छिन्नहृदयोऽपतत् ॥
बृहत्क्षत्रे हते राजन्केकयानां महारथे ।
शैशुपालिरभिक्रुद्धो यन्तारमिदमब्रवीत् ॥
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः ।
विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीं ॥
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् ।
द्रोणाय प्रापयामास काम्भोजैर्जवनैर्हयैः ॥
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।
वधायाभ्यद्रवद्द्रोणं पतङ्ग इव पावकम् ॥
सोऽविध्यत तदा द्रोणं षष्ट्या साश्वरथध्वजम् ।
पुनश्चान्यैः सऱैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन च ॥
चकर्त गार्ध्रपत्रेण यतमानस्य शुष्मिणः ॥
अथान्यद्धनुरादाय शैशुपालिर्महारथः ।
विव्याध सायकैर्द्रोणं कङ्कबर्हिणवाजितैः ॥
तस्य द्रोणो हयान्हत्वा चतुर्भिश्चतुरः शरैः ।
सारथेश्च शिरः कायाच्चकर्त प्रहसन्निव ॥
अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥
अवप्लुत्य रथाच्चैद्यो गदामादाय सत्वरः ।
भारद्वाजाय चिक्षेप रुपितामिव पन्नगीम् ॥
तामापतन्तीमालोक्य कालरात्रिमिवोद्यताम् । अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ।
शरैरनेकसाहस्रैर्भाद्वाजोऽच्छिनच्छितैः ॥
सा छिन्ना बहुभिर्बाणैभारद्वाजेन मारिष ।
गदा पपात कौरव्य नादयन्ती धरातलम् ॥
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः ।
तोमरं व्यसृजद्वीरः शक्तिं च कन कोज्ज्वलाम् ॥
तोमरं पञ्चभिर्भित्त्वा शक्तिं चिच्छेद पञ्चभिः ।
तौ जग्मतुर्महीं छिन्नौ सर्पाविव गरुत्मता ॥
ततोऽस्य विशिखं तीक्ष्णं वधाय वधकाङ्क्षिणः ।
प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥
स तस्य कवचं भित्त्वा हृदयं चामितौजसः ।
अभ्यगाद्धरणीं बाणो हंसः पद्मवनं यथा ॥
पतङ्गं हि ग्रसेच्चाषो यथा क्षुद्रं बुभुक्षितः ।
तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महाहवे ॥
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् ।
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥
तमपि प्रहसन्द्रोणः शरैर्नित्ये यमक्षयम् ।
महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत ।
जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥
स तु द्रोणं महाबाहुः शरधाराभिराहवे ।
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः ।
व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥
छादयित्वा रमे द्रोणं रथस्थं रथिनां वरम् ।
जारासन्धिं जघानाशु मिषतां सर्वधन्विनाम् ॥
योयो विधीयते खण्डस्तंतं द्रोणोऽन्तकोपमः ।
आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥
ततो द्रोणो महाराज नाम विश्राव्य संयुगे ।
शरैरनेकसाहस्रैः पाण्डवेयान्समावृणोत् ॥
ते तु नामाङ्किता बाणा द्रोणेनास्ताः शिलाशिताः ।
नरान्नागान्हयांश्चैव निजघ्नुः शतशो मृधे ॥
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः ।
समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥
ततो निष्टानको घोरः पाण्डवानामजायत ।
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥
प्रताप्यमानाः सूर्येण हन्यमानाश्च सायकैः ।
अन्वपद्यन्त पाञ्चालास्तदा सन्त्रस्तचेतसः ॥
मोहिता बाणजालेन भारद्वाजेन संयुगे ।
ऊरुग्राहगृहीतानां पाञ्चालानां महारथाः ॥
चेदयश्च महाराज सृञ्जयाः काशिकोसलाः ।
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥
ब्रुवन्तश्च रणेऽन्योन्यं चेदिपाञ्चालसृञ्जयाः ।
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः ॥
यतन्तः पुरुपव्याघ्राः सर्वशक्त्या महाद्युतिम् ।
निनीपवो रणे द्रोणं यमस्य सदनं प्रति ॥
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः ।
यमाय प्रेपयामास चेदिमुख्यान्विशेपतः ॥
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु सर्वशः ।
पाञ्चलाः समकम्पन्त द्रोणसायकपीडिताः ॥
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नं च भारत ।
दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥
भीम उवाच ।
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् ।
तथा हि युधि सङ्क्रुद्धो दहति क्षत्रियर्पभान् ॥
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः ।
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥
द्रोणाग्निमस्त्रसंस्पर्शं प्रविष्टाः क्षत्रियर्पभाः ।
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥
यथाबलं यथोत्साहं यथासत्वं महाद्युतिः ।
मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥
सञ्जय उवाच ।
तस्य तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः ।
अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ॥
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः ॥
अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ।
तत्राधाय शरं तीक्ष्णं परानीकविशातनम् ॥
आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ।
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् ॥
स भिन्नहृदयो वाहान्न्यपतन्मेदिनीतले ।
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते ॥
अथ द्रोणं समारोहच्चेकितानो महाबलः ।
स द्रोणं दशभिर्विद्ध्वा प्रत्यविद्ध्यत्स्तनान्तरे ॥
चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ।
तमाचार्यस्त्रिभिर्बाणैर्बाह्वोरुरसि चार्दयत् ॥
ध्वजं सप्तभिरुन्मथ्य यन्तारमवधीत्त्रिभिः ।
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः ॥
समरे शरसंवीता भारद्वाजेन मारिष ।
चेकितानरथं दृष्ट्वा हताश्वं हतसारथिम् ॥
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् ।
समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥
आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः ।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥
अथ द्रोणं महाराज विचरन्तमभीतवत् ।
वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥
ततोऽब्रवीन्महाबाहुर्द्रुपदो बुद्धिमान्नृप ।
लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः ।
यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥
शतशः शेरते भूमौ निकृत्ता गोवृषा इव ।
रुधिरेण परीताङ्गाः श्वशृगालादनीकृताः ॥
सञ्जय उवाच ।
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः ।
पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वमि चतुर्दशदिवसयुद्धे पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥

5-125-50 निष्टानकः कष्टस्वनः ॥ 5-125-52 ऊरुग्राहः ऊरुस्तम्भः ॥ 5-125-73 आकर्णमुपागतं पलितं केशादेः शौक्ल्यं यस्य । वयसा कालपिण्डसंयोगेन । अशीतिपञ्चकः चतुःशताब्दः ॥ 5-125-125 पञ्चविंशत्यधिकशततमोऽध्यायः ॥

श्रीः